तदा यीशुः कथितवान् रे अविश्वासिनः, रे विपथगामिनः, पुनः कतिकालान् अहं युष्माकं सन्निधौ स्थास्यामि? कतिकालान् वा युष्मान् सहिष्ये? तमत्र ममान्तिकमानयत।
2 कुरिन्थियों 11:1 - सत्यवेदः। Sanskrit NT in Devanagari यूयं ममाज्ञानतां क्षणं यावत् सोढुम् अर्हथ, अतः सा युष्माभिः सह्यतां। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যূযং মমাজ্ঞানতাং ক্ষণং যাৱৎ সোঢুম্ অৰ্হথ, অতঃ সা যুষ্মাভিঃ সহ্যতাং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যূযং মমাজ্ঞানতাং ক্ষণং যাৱৎ সোঢুম্ অর্হথ, অতঃ সা যুষ্মাভিঃ সহ্যতাং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယူယံ မမာဇ္ဉာနတာံ က္ၐဏံ ယာဝတ် သောဎုမ် အရှထ, အတး သာ ယုၐ္မာဘိး သဟျတာံ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yUyaM mamAjnjAnatAM kSaNaM yAvat sOPhum arhatha, ataH sA yuSmAbhiH sahyatAM| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યૂયં મમાજ્ઞાનતાં ક્ષણં યાવત્ સોઢુમ્ અર્હથ, અતઃ સા યુષ્માભિઃ સહ્યતાં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yUyaM mamAjJAnatAM kSaNaM yAvat soDhum arhatha, ataH sA yuSmAbhiH sahyatAM| |
तदा यीशुः कथितवान् रे अविश्वासिनः, रे विपथगामिनः, पुनः कतिकालान् अहं युष्माकं सन्निधौ स्थास्यामि? कतिकालान् वा युष्मान् सहिष्ये? तमत्र ममान्तिकमानयत।
ततः पौले प्रत्युत्तरं दातुम् उद्यते सति गाल्लिया यिहूदीयान् व्याहरत्, यदि कस्यचिद् अन्यायस्य वातिशयदुष्टताचरणस्य विचारोऽभविष्यत् तर्हि युष्माकं कथा मया सहनीयाभविष्यत्।
ततः सोऽवादीत् भवान् ये ये लोकाश्च मम कथाम् अद्य शृण्वन्ति प्रायेण इति नहि किन्त्वेतत् शृङ्खलबन्धनं विना सर्व्वथा ते सर्व्वे मादृशा भवन्त्वितीश्वस्य समीपे प्रार्थयेऽहम्।
ईश्वरस्य ज्ञानाद् इहलोकस्य मानवाः स्वज्ञानेनेश्वरस्य तत्त्वबोधं न प्राप्तवन्तस्तस्माद् ईश्वरः प्रचाररूपिणा प्रलापेन विश्वासिनः परित्रातुं रोचितवान्।
कोपि स्वं न वञ्चयतां। युष्माकं कश्चन चेदिहलोकस्य ज्ञानेन ज्ञानवानहमिति बुध्यते तर्हि स यत् ज्ञानी भवेत् तदर्थं मूढो भवतु।
ख्रीष्टस्य कृते वयं मूढाः किन्तु यूयं ख्रीष्टेन ज्ञानिनः, वयं दुर्ब्बला यूयञ्च सबलाः, यूयं सम्मानिता वयञ्चापमानिताः।
इदानीमेव यूयं किं तृप्ता लब्धधना वा? अस्मास्वविद्यमानेषु यूयं किं राजत्वपदं प्राप्ताः? युष्माकं राजत्वं मयाभिलषितं यतस्तेन युष्माभिः सह वयमपि राज्यांशिनो भविष्यामः।
दौर्ब्बल्याद् युष्माभिरवमानिता इव वयं भाषामहे, किन्त्वपरस्य कस्यचिद् येन प्रगल्भता जायते तेन ममापि प्रगल्भता जायत इति निर्ब्बोधेनेव मया वक्तव्यं।
अस्माभिरनाख्यापितोऽपरः कश्चिद् यीशु र्यदि केनचिद् आगन्तुकेनाख्याप्यते युष्माभिः प्रागलब्ध आत्मा वा यदि लभ्यते प्रागगृहीतः सुसंवादो वा यदि गृह्यते तर्हि मन्ये यूयं सम्यक् सहिष्यध्वे।
एतेनात्मश्लाघनेनाहं निर्ब्बोध इवाभवं किन्तु यूयं तस्य कारणं यतो मम प्रशंसा युष्माभिरेव कर्त्तव्यासीत्। यद्यप्यम् अगण्यो भवेयं तथापि मुख्यतमेभ्यः प्रेरितेभ्यः केनापि प्रकारेण नाहं न्यूनोऽस्मि।
यदि वयं हतज्ञाना भवामस्तर्हि तद् ईश्वरार्थकं यदि च सज्ञाना भवामस्तर्हि तद् युष्मदर्थकं।
स चाज्ञानां भ्रान्तानाञ्च लोकानां दुःखेन दुःखी भवितुं शक्नोति, यतो हेतोः स स्वयमपि दौर्ब्बल्यवेष्टितो भवति।