अहं क्षमणशीलो नम्रमनाश्च, तस्मात् मम युगं स्वेषामुपरि धारयत मत्तः शिक्षध्वञ्च, तेन यूयं स्वे स्वे मनसि विश्रामं लप्स्यध्बे।
2 कुरिन्थियों 10:1 - सत्यवेदः। Sanskrit NT in Devanagari युष्मत्प्रत्यक्षे नम्रः किन्तु परोक्षे प्रगल्भः पौलोऽहं ख्रीष्टस्य क्षान्त्या विनीत्या च युष्मान् प्रार्थये। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যুষ্মৎপ্ৰত্যক্ষে নম্ৰঃ কিন্তু পৰোক্ষে প্ৰগল্ভঃ পৌলোঽহং খ্ৰীষ্টস্য ক্ষান্ত্যা ৱিনীত্যা চ যুষ্মান্ প্ৰাৰ্থযে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যুষ্মৎপ্রত্যক্ষে নম্রঃ কিন্তু পরোক্ষে প্রগল্ভঃ পৌলোঽহং খ্রীষ্টস্য ক্ষান্ত্যা ৱিনীত্যা চ যুষ্মান্ প্রার্থযে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယုၐ္မတ္ပြတျက္ၐေ နမြး ကိန္တု ပရောက္ၐေ ပြဂလ္ဘး ပေါ်လော'ဟံ ခြီၐ္ဋသျ က္ၐာန္တျာ ဝိနီတျာ စ ယုၐ္မာန် ပြာရ္ထယေ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yuSmatpratyakSE namraH kintu parOkSE pragalbhaH paulO'haM khrISTasya kSAntyA vinItyA ca yuSmAn prArthayE| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યુષ્મત્પ્રત્યક્ષે નમ્રઃ કિન્તુ પરોક્ષે પ્રગલ્ભઃ પૌલોઽહં ખ્રીષ્ટસ્ય ક્ષાન્ત્યા વિનીત્યા ચ યુષ્માન્ પ્રાર્થયે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yuSmatpratyakSe namraH kintu parokSe pragalbhaH paulo'haM khrISTasya kSAntyA vinItyA ca yuSmAn prArthaye| |
अहं क्षमणशीलो नम्रमनाश्च, तस्मात् मम युगं स्वेषामुपरि धारयत मत्तः शिक्षध्वञ्च, तेन यूयं स्वे स्वे मनसि विश्रामं लप्स्यध्बे।
स शास्त्रस्येतद्वाक्यं पठितवान् यथा, समानीयत घाताय स यथा मेषशावकः। लोमच्छेदकसाक्षाच्च मेषश्च नीरवो यथा। आबध्य वदनं स्वीयं तथा स समतिष्ठत।
अपरञ्च यिशायियोऽतिशयाक्षोभेण कथयामास, यथा, अधि मां यैस्तु नाचेष्टि सम्प्राप्तस्तै र्जनैरहं। अधि मां यै र्न सम्पृष्टं विज्ञातस्तै र्जनैरहं॥
हे भ्रातर ईश्वरस्य कृपयाहं युष्मान् विनये यूयं स्वं स्वं शरीरं सजीवं पवित्रं ग्राह्यं बलिम् ईश्वरमुद्दिश्य समुत्सृजत, एषा सेवा युष्माकं योग्या।
ख्रीष्टस्य कृते वयं मूढाः किन्तु यूयं ख्रीष्टेन ज्ञानिनः, वयं दुर्ब्बला यूयञ्च सबलाः, यूयं सम्मानिता वयञ्चापमानिताः।
युष्माकं का वाञ्छा? युष्मत्समीपे मया किं दण्डपाणिना गन्तव्यमुत प्रेमनम्रतात्मयुक्तेन वा?
तस्य पत्राणि गुरुतराणि प्रबलानि च भवन्ति किन्तु तस्य शारीरसाक्षात्कारो दुर्ब्बल आलापश्च तुच्छनीय इति कैश्चिद् उच्यते।
मम प्रार्थनीयमिदं वयं यैः शारीरिकाचारिणो मन्यामहे तान् प्रति यां प्रगल्भतां प्रकाशयितुं निश्चिनोमि सा प्रगल्भता समागतेन मयाचरितव्या न भवतु।
यद् दृष्टिगोचरं तद् युष्माभि र्दृश्यतां। अहं ख्रीष्टस्य लोक इति स्वमनसि येन विज्ञायते स यथा ख्रीष्टस्य भवति वयम् अपि तथा ख्रीष्टस्य भवाम इति पुनर्विविच्य तेन बुध्यतां।
दौर्ब्बल्याद् युष्माभिरवमानिता इव वयं भाषामहे, किन्त्वपरस्य कस्यचिद् येन प्रगल्भता जायते तेन ममापि प्रगल्भता जायत इति निर्ब्बोधेनेव मया वक्तव्यं।
तमध्यहं श्लाघिष्ये मामधि नान्येन केनचिद् विषयेण श्लाघिष्ये केवलं स्वदौर्ब्बल्येन श्लाघिष्ये।
अतो वयं ख्रीष्टस्य विनिमयेन दौत्यं कर्म्म सम्पादयामहे, ईश्वरश्चास्माभि र्युष्मान् यायाच्यते ततः ख्रीष्टस्य विनिमयेन वयं युष्मान् प्रार्थयामहे यूयमीश्वरेण सन्धत्त।
तस्य सहाया वयं युष्मान् प्रार्थयामहे, ईश्वरस्यानुग्रहो युष्माभि र्वृथा न गृह्यतां।
युष्मान् प्रति मम महेत्साहो जायते युष्मान् अध्यहं बहु श्लाघे च तेन सर्व्वक्लेशसमयेऽहं सान्त्वनया पूर्णो हर्षेण प्रफुल्लितश्च भवामि।
पश्यताहं पौलो युष्मान् वदामि यदि छिन्नत्वचो भवथ तर्हि ख्रीष्टेन किमपि नोपकारिष्यध्वे।
अतो हेतो र्भिन्नजातीयानां युष्माकं निमित्तं यीशुख्रीष्टस्य बन्दी यः सोऽहं पौलो ब्रवीमि।
अतो बन्दिरहं प्रभो र्नाम्ना युष्मान् विनये यूयं येनाह्वानेनाहूतास्तदुपयुक्तरूपेण
किन्त्वेतदर्थं युष्माभि र्बद्धमूलैः सुस्थिरैश्च भवितव्यम्, आकाशमण्डलस्याधःस्थितानां सर्व्वलोकानां मध्ये च घुष्यमाणो यः सुसंवादो युष्माभिरश्रावि तज्जातायां प्रत्याशायां युष्माभिरचलै र्भवितव्यं।
नमस्कार एष पौलस्य मम करेण लिखितोऽभूत् सर्व्वस्मिन् पत्र एतन्मम चिह्नम् एतादृशैरक्षरै र्मया लिख्यते।
अहं तत् परिशोत्स्यामि, एतत् पौलोऽहं स्वहस्तेन लिखामि, यतस्त्वं स्वप्राणान् अपि मह्यं धारयसि तद् वक्तुं नेच्छामि।
इदानीं यीशुख्रीष्टस्य बन्दिदासश्चैवम्भूतो यः पौलः सोऽहं त्वां विनेतुं वरं मन्ये।
हे प्रियतमाः, यूयं प्रवासिनो विदेशिनश्च लोका इव मनसः प्रातिकूल्येन योधिभ्यः शारीरिकसुखाभिलाषेभ्यो निवर्त्तध्वम् इत्यहं विनये।
युष्माकं भ्राता यीशुख्रीष्टस्य क्लेशराज्यतितिक्षाणां सहभागी चाहं योहन् ईश्वरस्य वाक्यहेतो र्यीशुख्रीष्टस्य साक्ष्यहेतोश्च पात्मनामक उपद्वीप आसं।