1 योहन 1:9 - सत्यवेदः। Sanskrit NT in Devanagari यदि स्वपापानि स्वीकुर्म्महे तर्हि स विश्वास्यो याथार्थिकश्चास्ति तस्माद् अस्माकं पापानि क्षमिष्यते सर्व्वस्माद् अधर्म्माच्चास्मान् शुद्धयिष्यति। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যদি স্ৱপাপানি স্ৱীকুৰ্ম্মহে তৰ্হি স ৱিশ্ৱাস্যো যাথাৰ্থিকশ্চাস্তি তস্মাদ্ অস্মাকং পাপানি ক্ষমিষ্যতে সৰ্ৱ্ৱস্মাদ্ অধৰ্ম্মাচ্চাস্মান্ শুদ্ধযিষ্যতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যদি স্ৱপাপানি স্ৱীকুর্ম্মহে তর্হি স ৱিশ্ৱাস্যো যাথার্থিকশ্চাস্তি তস্মাদ্ অস্মাকং পাপানি ক্ষমিষ্যতে সর্ৱ্ৱস্মাদ্ অধর্ম্মাচ্চাস্মান্ শুদ্ধযিষ্যতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယဒိ သွပါပါနိ သွီကုရ္မ္မဟေ တရှိ သ ဝိၑွာသျော ယာထာရ္ထိကၑ္စာသ္တိ တသ္မာဒ် အသ္မာကံ ပါပါနိ က္ၐမိၐျတေ သရွွသ္မာဒ် အဓရ္မ္မာစ္စာသ္မာန် ၑုဒ္ဓယိၐျတိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yadi svapApAni svIkurmmahE tarhi sa vizvAsyO yAthArthikazcAsti tasmAd asmAkaM pApAni kSamiSyatE sarvvasmAd adharmmAccAsmAn zuddhayiSyati| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યદિ સ્વપાપાનિ સ્વીકુર્મ્મહે તર્હિ સ વિશ્વાસ્યો યાથાર્થિકશ્ચાસ્તિ તસ્માદ્ અસ્માકં પાપાનિ ક્ષમિષ્યતે સર્વ્વસ્માદ્ અધર્મ્માચ્ચાસ્માન્ શુદ્ધયિષ્યતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yadi svapApAni svIkurmmahe tarhi sa vizvAsyo yAthArthikazcAsti tasmAd asmAkaM pApAni kSamiSyate sarvvasmAd adharmmAccAsmAn zuddhayiSyati| |
ततो यिहूदादेशयिरूशालम्नगरनिवासिनः सर्व्वे लोका बहि र्भूत्वा तस्य समीपमागत्य स्वानि स्वानि पापान्यङ्गीकृत्य यर्द्दननद्यां तेन मज्जिता बभूवुः।
हे यथार्थिक पित र्जगतो लोकैस्त्वय्यज्ञातेपि त्वामहं जाने त्वं मां प्रेरितवान् इतीमे शिष्या जानन्ति।
येषामनेकेषां लोकानां प्रतीतिरजायत त आगत्य स्वैः कृताः क्रियाः प्रकाशरूपेणाङ्गीकृतवन्तः।
वर्त्तमानकालीयमपि स्वयाथार्थ्यं तेन प्रकाश्यते, अपरं यीशौ विश्वासिनं सपुण्यीकुर्व्वन्नपि स याथार्थिकस्तिष्ठति।
य ईश्वरः स्वपुत्रस्यास्मत्प्रभो र्यीशुख्रीष्टस्यांशिनः कर्त्तुं युष्मान् आहूतवान् स विश्वसनीयः।
यूयञ्चैवंविधा लोका आस्त किन्तु प्रभो र्यीशो र्नाम्नास्मदीश्वरस्यात्मना च यूयं प्रक्षालिताः पाविताः सपुण्यीकृताश्च।
स ख्रीष्टोऽपि समितौ प्रीतवान् तस्याः कृते च स्वप्राणान् त्यक्तवान् यतः स वाक्ये जलमज्जनेन तां परिष्कृत्य पावयितुम्
पापिनः परित्रातुं ख्रीष्टो यीशु र्जगति समवतीर्णोऽभवत्, एषा कथा विश्वासनीया सर्व्वै ग्रहणीया च।
यतः स यथास्मान् सर्व्वस्माद् अधर्म्मात् मोचयित्वा निजाधिकारस्वरूपं सत्कर्म्मसूत्सुकम् एकं प्रजावर्गं पावयेत् तदर्थम् अस्माकं कृते आत्मदानं कृतवान्।
अपरञ्च विश्वासेन सारा वयोतिक्रान्ता सन्त्यपि गर्भधारणाय शक्तिं प्राप्य पुत्रवत्यभवत्, यतः सा प्रतिज्ञाकारिणं विश्वास्यम् अमन्यत।
यतो युष्माभिः पवित्रलोकानां य उपकारो ऽकारि क्रियते च तेनेश्वरस्य नाम्ने प्रकाशितं प्रेम श्रमञ्च विस्मर्त्तुम् ईश्वरोऽन्यायकारी न भवति।
किन्तु स यथा ज्योतिषि वर्त्तते तथा वयमपि यदि ज्योतिषि चरामस्तर्हि परस्परं सहभागिनो भवामस्तस्य पुत्रस्य यीशुख्रीष्टस्य रुधिरञ्चास्मान् सर्व्वस्मात् पापात् शुद्धयति।
ईश्वरदासस्य मूससो गीतं मेषशावकस्य च गीतं गायन्तो वदन्ति, यथा, सर्व्वशक्तिविशिष्टस्त्वं हे प्रभो परमेश्वर।त्वदीयसर्व्वकर्म्माणि महान्ति चाद्भुतानि च। सर्व्वपुण्यवतां राजन् मार्गा न्याय्या ऋताश्च ते।