ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




1 कुरिन्थियों 8:1 - सत्यवेदः। Sanskrit NT in Devanagari

देवप्रसादे सर्व्वेषाम् अस्माकं ज्ञानमास्ते तद्वयं विद्मः। तथापि ज्ञानं गर्व्वं जनयति किन्तु प्रेमतो निष्ठा जायते।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

দেৱপ্ৰসাদে সৰ্ৱ্ৱেষাম্ অস্মাকং জ্ঞানমাস্তে তদ্ৱযং ৱিদ্মঃ| তথাপি জ্ঞানং গৰ্ৱ্ৱং জনযতি কিন্তু প্ৰেমতো নিষ্ঠা জাযতে|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

দেৱপ্রসাদে সর্ৱ্ৱেষাম্ অস্মাকং জ্ঞানমাস্তে তদ্ৱযং ৱিদ্মঃ| তথাপি জ্ঞানং গর্ৱ্ৱং জনযতি কিন্তু প্রেমতো নিষ্ঠা জাযতে|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဒေဝပြသာဒေ သရွွေၐာမ် အသ္မာကံ ဇ္ဉာနမာသ္တေ တဒွယံ ဝိဒ္မး၊ တထာပိ ဇ္ဉာနံ ဂရွွံ ဇနယတိ ကိန္တု ပြေမတော နိၐ္ဌာ ဇာယတေ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

dEvaprasAdE sarvvESAm asmAkaM jnjAnamAstE tadvayaM vidmaH| tathApi jnjAnaM garvvaM janayati kintu prEmatO niSThA jAyatE|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

દેવપ્રસાદે સર્વ્વેષામ્ અસ્માકં જ્ઞાનમાસ્તે તદ્વયં વિદ્મઃ| તથાપિ જ્ઞાનં ગર્વ્વં જનયતિ કિન્તુ પ્રેમતો નિષ્ઠા જાયતે|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

devaprasAde sarvveSAm asmAkaM jJAnamAste tadvayaM vidmaH| tathApi jJAnaM garvvaM janayati kintu premato niSThA jAyate|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



1 कुरिन्थियों 8:1
35 अन्तरसन्दर्भाः  

अतएवास्माकं पूर्व्वपुरुषा वयञ्च स्वयं यद्युगस्य भारं सोढुं न शक्ताः सम्प्रति तं शिष्यगणस्य स्कन्धेषु न्यसितुं कुत ईश्वरस्य परीक्षां करिष्यथ?


अतएव तेभ्यः सर्व्वेभ्यः स्वेषु रक्षितेषु यूयं भद्रं कर्म्म करिष्यथ। युष्माकं मङ्गलं भूयात्।


भिन्नदेशीयानां विश्वासिलोकानां निकटे वयं पत्रं लिखित्वेत्थं स्थिरीकृतवन्तः, देवप्रसादभोजनं रक्तं गलपीडनमारितप्राणिभोजनं व्यभिचारश्चैतेभ्यः स्वरक्षणव्यतिरेकेण तेषामन्यविधिपालनं करणीयं न।


हे भ्रातरो युष्माकम् आत्माभिमानो यन्न जायते तदर्थं ममेदृशी वाञ्छा भवति यूयं एतन्निगूढतत्त्वम् अजानन्तो यन्न तिष्ठथ; वस्तुतो यावत्कालं सम्पूर्णरूपेण भिन्नदेशिनां संग्रहो न भविष्यति तावत्कालम् अंशत्वेन इस्रायेलीयलोकानाम् अन्धता स्थास्यति;


अपरञ्च युष्माकं मनसां परस्परम् एकोभावो भवतु; अपरम् उच्चपदम् अनाकाङ्क्ष्य नीचलोकैः सहापि मार्दवम् आचरत; स्वान् ज्ञानिनो न मन्यध्वं।


किन्तु त्वं निजं भ्रातरं कुतो दूषयसि? तथा त्वं निजं भ्रातरं कुतस्तुच्छं जानासि? ख्रीष्टस्य विचारसिंहासनस्य सम्मुखे सर्व्वैरस्माभिरुपस्थातव्यं;


किमपि वस्तु स्वभावतो नाशुचि भवतीत्यहं जाने तथा प्रभुना यीशुख्रीष्टेनापि निश्चितं जाने, किन्तु यो जनो यद् द्रव्यम् अपवित्रं जानीते तस्य कृते तद् अपवित्रम् आस्ते।


अतएव येनास्माकं सर्व्वेषां परस्परम् ऐक्यं निष्ठा च जायते तदेवास्माभि र्यतितव्यं।


यदि तव प्रत्ययस्तिष्ठति तर्हीश्वरस्य गोचरे स्वान्तरे तं गोपय; यो जनः स्वमतेन स्वं दोषिणं न करोति स एव धन्यः।


तर्हि यो जनः साधारणं द्रव्यं भुङ्क्ते स विशेषद्रव्यभोक्तारं नावजानीयात् तथा विशेषद्रव्यभोक्तापि साधारणद्रव्यभोक्तारं दोषिणं न कुर्य्यात्, यस्माद् ईश्वरस्तम् अगृह्लात्।


हे भ्रातरो यूयं सद्भावयुक्ताः सर्व्वप्रकारेण ज्ञानेन च सम्पूर्णाः परस्परोपदेशे च तत्परा इत्यहं निश्चितं जानामि,


ख्रीष्टसम्बन्धीयं साक्ष्यं युष्माकं मध्ये येन प्रकारेण सप्रमाणम् अभवत्


अहं युष्मान् विज्ञान् मत्वा प्रभाषे मया यत् कथ्यते तद् युष्माभि र्विविच्यतां।


किन्तु तत्र यदि कश्चिद् युष्मान् वदेत् भक्ष्यमेतद् देवतायाः प्रसाद इति तर्हि तस्य ज्ञापयितुरनुरोधात् संवेदस्यार्थञ्च तद् युष्माभि र्न भोक्तव्यं। पृथिवी तन्मध्यस्थञ्च सर्व्वं परमेश्वरस्य,


हे भ्रातरः,यूयं बुद्ध्या बालकाइव मा भूत परन्तु दुष्टतया शिशवइव भूत्वा बुद्ध्या सिद्धा भवत।


यूयं यथोचितं सचैतन्यास्तिष्ठत, पापं मा कुरुध्वं, यतो युष्माकं मध्य ईश्वरीयज्ञानहीनाः केऽपि विद्यन्ते युष्माकं त्रपायै मयेदं गद्यते।


ख्रीष्टस्य कृते वयं मूढाः किन्तु यूयं ख्रीष्टेन ज्ञानिनः, वयं दुर्ब्बला यूयञ्च सबलाः, यूयं सम्मानिता वयञ्चापमानिताः।


अपरमहं युष्माकं समीपं न गमिष्यामीति बुद्ध्वा युष्माकं कियन्तो लोका गर्व्वन्ति।


हे भ्रातरः सर्व्वाण्येतानि मयात्मानम् आपल्लवञ्चोद्दिश्य कथितानि तस्यैतत् कारणं युयं यथा शास्त्रीयविधिमतिक्रम्य मानवम् अतीव नादरिष्यध्ब ईत्थञ्चैकेन वैपरीत्याद् अपरेण न श्लाघिष्यध्ब एतादृशीं शिक्षामावयोर्दृष्टान्तात् लप्स्यध्वे।


तथाच यूयं दर्पध्माता आध्बे, तत् कर्म्म येन कृतं स यथा युष्मन्मध्याद् दूरीक्रियते तथा शोको युष्माभि र्न क्रियते किम् एतत्?


युष्माकं दर्पो न भद्राय यूयं किमेतन्न जानीथ, यथा, विकारः कृत्स्नशक्तूनां स्वल्पकिण्वेन जायते।


अतः कश्चन यदि मन्यते मम ज्ञानमास्त इति तर्हि तेन यादृशं ज्ञानं चेष्टितव्यं तादृशं किमपि ज्ञानमद्यापि न लब्धं।


देवताबलिप्रसादभक्षणे वयमिदं विद्मो यत् जगन्मध्ये कोऽपि देवो न विद्यते, एकश्चेश्वरो द्वितीयो नास्तीति।


अधिकन्तु ज्ञानं सर्व्वेषां नास्ति यतः केचिदद्यापि देवतां सम्मन्य देवप्रसादमिव तद् भक्ष्यं भुञ्जते तेन दुर्ब्बलतया तेषां स्वान्तानि मलीमसानि भवन्ति।


तस्माच्चैकैकस्याङ्गस्य स्वस्वपरिमाणानुसारेण साहाय्यकरणाद् उपकारकैः सर्व्वैः सन्धिभिः कृत्स्नस्य शरीरस्य संयोगे सम्मिलने च जाते प्रेम्ना निष्ठां लभमानं कृत्स्नं शरीरं वृद्धिं प्राप्नोति।


अपरञ्च नम्रता स्वर्गदूतानां सेवा चैतादृशम् इष्टकर्म्माचरन् यः कश्चित् परोक्षविषयान् प्रविशति स्वकीयशारीरिकभावेन च मुधा गर्व्वितः सन्


तथापि तव विरुद्धं मम किञ्चिद् वक्तव्यं यतो देवप्रसादादनाय परदारगमनाय चेस्रायेलः सन्तानानां सम्मुख उन्माथं स्थापयितुं बालाक् येनाशिक्ष्यत तस्य बिलियमः शिक्षावलम्बिनस्तव केचित् जनास्तत्र सन्ति।


तथापि तव विरुद्धं मया किञ्चिद् वक्तव्यं यतो या ईषेबल्नामिका योषित् स्वां भविष्यद्वादिनीं मन्यते वेश्यागमनाय देवप्रसादाशनाय च मम दासान् शिक्षयति भ्रामयति च सा त्वया न निवार्य्यते।