पश्चात् स वामस्थितान् जनान् वदिष्यति, रे शापग्रस्ताः सर्व्वे, शैताने तस्य दूतेभ्यश्च योऽनन्तवह्निरासादित आस्ते, यूयं मदन्तिकात् तमग्निं गच्छत।
1 कुरिन्थियों 6:3 - सत्यवेदः। Sanskrit NT in Devanagari दूता अप्यस्माभि र्विचारयिष्यन्त इति किं न जानीथ? अत ऐहिकविषयाः किम् अस्माभि र्न विचारयितव्या भवेयुः? अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script দূতা অপ্যস্মাভি ৰ্ৱিচাৰযিষ্যন্ত ইতি কিং ন জানীথ? অত ঐহিকৱিষযাঃ কিম্ অস্মাভি ৰ্ন ৱিচাৰযিতৱ্যা ভৱেযুঃ? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script দূতা অপ্যস্মাভি র্ৱিচারযিষ্যন্ত ইতি কিং ন জানীথ? অত ঐহিকৱিষযাঃ কিম্ অস্মাভি র্ন ৱিচারযিতৱ্যা ভৱেযুঃ? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဒူတာ အပျသ္မာဘိ ရွိစာရယိၐျန္တ ဣတိ ကိံ န ဇာနီထ? အတ အဲဟိကဝိၐယား ကိမ် အသ္မာဘိ ရ္န ဝိစာရယိတဝျာ ဘဝေယုး? satyavEdaH| Sanskrit Bible (NT) in Cologne Script dUtA apyasmAbhi rvicArayiSyanta iti kiM na jAnItha? ata aihikaviSayAH kim asmAbhi rna vicArayitavyA bhavEyuH? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script દૂતા અપ્યસ્માભિ ર્વિચારયિષ્યન્ત ઇતિ કિં ન જાનીથ? અત ઐહિકવિષયાઃ કિમ્ અસ્માભિ ર્ન વિચારયિતવ્યા ભવેયુઃ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script dUtA apyasmAbhi rvicArayiSyanta iti kiM na jAnItha? ata aihikaviSayAH kim asmAbhi rna vicArayitavyA bhaveyuH? |
पश्चात् स वामस्थितान् जनान् वदिष्यति, रे शापग्रस्ताः सर्व्वे, शैताने तस्य दूतेभ्यश्च योऽनन्तवह्निरासादित आस्ते, यूयं मदन्तिकात् तमग्निं गच्छत।
अतएव विषमाशनेन पानेन च सांमारिकचिन्ताभिश्च युष्माकं चित्तेषु मत्तेषु तद्दिनम् अकस्माद् युष्मान् प्रति यथा नोपतिष्ठति तदर्थं स्वेषु सावधानास्तिष्ठत।
ये कथां श्रुत्वा यान्ति विषयचिन्तायां धनलोभेन एेहिकसुखे च मज्जन्त उपयुक्तफलानि न फलन्ति त एवोप्तबीजकण्टकिभूस्वरूपाः।
यतो मृतिजनकं पापं पुण्यजनकं निदेशाचरणञ्चैतयोर्द्वयो र्यस्मिन् आज्ञापालनार्थं भृत्यानिव स्वान् समर्पयथ, तस्यैव भृत्या भवथ, एतत् किं यूयं न जानीथ?
युष्माकं यानि शरीराणि तानि ख्रीष्टस्याङ्गानीति किं यूयं न जानीथ? अतः ख्रीष्टस्य यान्यङ्गानि तानि मयापहृत्य वेश्याया अङ्गानि किं कारिष्यन्ते? तन्न भवतु।
यः कश्चिद् वेश्यायाम् आसज्यते स तया सहैकदेहो भवति किं यूयमेतन्न जानीथ? यतो लिखितमास्ते, यथा, तौ द्वौ जनावेकाङ्गौ भविष्यतः।
युष्माकं यानि वपूंसि तानि युष्मदन्तःस्थितस्येश्वराल्लब्धस्य पवित्रस्यात्मनो मन्दिराणि यूयञ्च स्वेषां स्वामिनो नाध्वे किमेतद् युष्माभि र्न ज्ञायते?
ऐहिकविषयस्य विचारे युष्माभिः कर्त्तव्ये ये लोकाः समितौ क्षुद्रतमास्त एव नियुज्यन्तां।
यो युद्धं करोति स सांसारिके व्यापारे मग्नो न भवति किन्तु स्वनियोजयित्रे रोचितुं चेष्टते।
यतो दीमा ऐहिकसंसारम् ईहमानो मां परित्यज्य थिषलनीकीं गतवान् तथा क्रीष्कि र्गालातियां गतवान् तीतश्च दाल्मातियां गतवान्।
ईश्वरः कृतपापान् दूतान् न क्षमित्वा तिमिरशृङ्खलैः पाताले रुद्ध्वा विचारार्थं समर्पितवान्।
ये च स्वर्गदूताः स्वीयकर्तृत्वपदे न स्थित्वा स्ववासस्थानं परित्यक्तवन्तस्तान् स महादिनस्य विचारार्थम् अन्धकारमये ऽधःस्थाने सदास्थायिभि र्बन्धनैरबध्नात्।