Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 1:26 - सत्यवेदः। Sanskrit NT in Devanagari

26 तेन च मत्तोऽर्थतो युष्मत्समीपे मम पुनरुपस्थितत्वात् यूयं ख्रीष्टेन यीशुना बहुतरम् आह्लादं लप्स्यध्वे।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 তেন চ মত্তোঽৰ্থতো যুষ্মৎসমীপে মম পুনৰুপস্থিতৎৱাৎ যূযং খ্ৰীষ্টেন যীশুনা বহুতৰম্ আহ্লাদং লপ্স্যধ্ৱে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 তেন চ মত্তোঽর্থতো যুষ্মৎসমীপে মম পুনরুপস্থিতৎৱাৎ যূযং খ্রীষ্টেন যীশুনা বহুতরম্ আহ্লাদং লপ্স্যধ্ৱে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 တေန စ မတ္တော'ရ္ထတော ယုၐ္မတ္သမီပေ မမ ပုနရုပသ္ထိတတွာတ် ယူယံ ခြီၐ္ဋေန ယီၑုနာ ဗဟုတရမ် အာဟ္လာဒံ လပ္သျဓွေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 tEna ca mattO'rthatO yuSmatsamIpE mama punarupasthitatvAt yUyaM khrISTEna yIzunA bahutaram AhlAdaM lapsyadhvE|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

26 તેન ચ મત્તોઽર્થતો યુષ્મત્સમીપે મમ પુનરુપસ્થિતત્વાત્ યૂયં ખ્રીષ્ટેન યીશુના બહુતરમ્ આહ્લાદં લપ્સ્યધ્વે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 1:26
14 अन्तरसन्दर्भाः  

तथा यूयमपि साम्प्रतं शोकाकुला भवथ किन्तु पुनरपि युष्मभ्यं दर्शनं दास्यामि तेन युष्माकम् अन्तःकरणानि सानन्दानि भविष्यन्ति, युष्माकं तम् आनन्दञ्च कोपि हर्त्तुं न शक्ष्यति।


पूर्व्वे मम नाम्ना किमपि नायाचध्वं, याचध्वं ततः प्राप्स्यथ तस्माद् युष्माकं सम्पूर्णानन्दो जनिष्यते।


यूयमितः पूर्व्वमप्यस्मान् अंशतो गृहीतवन्तः, यतः प्रभो र्यीशुख्रीष्टस्य दिने यद्वद् युष्मास्वस्माकं श्लाघा तद्वद् अस्मासु युष्माकमपि श्लाघा भविष्यति।


अनेन वयं युष्माकं सन्निधौ पुनः स्वान् प्रशंसाम इति नहि किन्तु ये मनो विना मुखैः श्लाघन्ते तेभ्यः प्रत्युत्तरदानाय यूयं यथास्माभिः श्लाघितुं शक्नुथ तादृशम् उपायं युष्मभ्यं वितरामः।


पूर्व्वं तस्य समीपेऽहं युष्माभिर्यद् अश्लाघे तेन नालज्जे किन्तु वयं यद्वद् युष्मान् प्रति सत्यभावेन सकलम् अभाषामहि तद्वत् तीतस्य समीपेऽस्माकं श्लाघनमपि सत्यं जातं।


युष्मान् प्रति मम महेत्साहो जायते युष्मान् अध्यहं बहु श्लाघे च तेन सर्व्वक्लेशसमयेऽहं सान्त्वनया पूर्णो हर्षेण प्रफुल्लितश्च भवामि।


किन्तु नम्राणां सान्त्वयिता य ईश्वरः स तीतस्यागमनेनास्मान् असान्त्वयत्।


अत एकैकेन जनेन स्वकीयकर्म्मणः परीक्षा क्रियतां तेन परं नालोक्य केवलम् आत्मालोकनात् तस्य श्लघा सम्भविष्यति।


हे भ्रातरः, शेषे वदामि यूयं प्रभावानन्दत। पुनः पुनरेकस्य वचो लेखनं मम क्लेशदं नहि युष्मदर्थञ्च भ्रमनाशकं भवति।


वयमेव छिन्नत्वचो लोका यतो वयम् आत्मनेश्वरं सेवामहे ख्रीष्टेन यीशुना श्लाघामहे शरीरेण च प्रगल्भतां न कुर्व्वामहे।


ममोपकाराय युष्माकं या चिन्ता पूर्व्वम् आसीत् किन्तु कर्म्मद्वारं न प्राप्नोत् इदानीं सा पुनरफलत् इत्यस्मिन् प्रभौ मम परमाह्लादोऽजायत।


यूयं प्रभौ सर्व्वदानन्दत। पुन र्वदामि यूयम् आनन्दत।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्