Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 9:3 - सत्यवेदः। Sanskrit NT in Devanagari

3 तस्माद् अहं स्वजातीयभ्रातृणां निमित्तात् स्वयं ख्रीष्टाच्छापाक्रान्तो भवितुम् ऐच्छम्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 তস্মাদ্ অহং স্ৱজাতীযভ্ৰাতৃণাং নিমিত্তাৎ স্ৱযং খ্ৰীষ্টাচ্ছাপাক্ৰান্তো ভৱিতুম্ ঐচ্ছম্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 তস্মাদ্ অহং স্ৱজাতীযভ্রাতৃণাং নিমিত্তাৎ স্ৱযং খ্রীষ্টাচ্ছাপাক্রান্তো ভৱিতুম্ ঐচ্ছম্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တသ္မာဒ် အဟံ သွဇာတီယဘြာတၖဏာံ နိမိတ္တာတ် သွယံ ခြီၐ္ဋာစ္ဆာပါကြာန္တော ဘဝိတုမ် အဲစ္ဆမ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tasmAd ahaM svajAtIyabhrAtRNAM nimittAt svayaM khrISTAcchApAkrAntO bhavitum aiccham|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 તસ્માદ્ અહં સ્વજાતીયભ્રાતૃણાં નિમિત્તાત્ સ્વયં ખ્રીષ્ટાચ્છાપાક્રાન્તો ભવિતુમ્ ઐચ્છમ્|

Ver Capítulo Copiar




रोमियों 9:3
27 Referencias Cruzadas  

हे इब्राहीमो वंशजाता भ्रातरो हे ईश्वरभीताः सर्व्वलोका युष्मान् प्रति परित्राणस्य कथैषा प्रेरिता।


महायाजकः सभासदः प्राचीनलोकाश्च ममैतस्याः कथायाः प्रमाणं दातुं शक्नुवन्ति, यस्मात् तेषां समीपाद् दम्मेषकनगरनिवासिभ्रातृगणार्थम् आज्ञापत्राणि गृहीत्वा ये तत्र स्थितास्तान् दण्डयितुं यिरूशालमम् आनयनार्थं दम्मेषकनगरं गतोस्मि।


तदा ते तम् अवादिषुः, यिहूदीयदेशाद् वयं त्वामधि किमपि पत्रं न प्राप्ता ये भ्रातरः समायातास्तेषां कोपि तव कामपि वार्त्तां नावदत् अभद्रमपि नाकथयच्च।


अस्माकं स प्रभु र्यीशुः ख्रीष्टः शारीरिकसम्बन्धेन दायूदो वंशोद्भवः


ईश्वरेण स्वीकीयलोका अपसारिता अहं किम् ईदृशं वाक्यं ब्रवीमि? तन्न भवतु यतोऽहमपि बिन्यामीनगोत्रीय इब्राहीमवंशीय इस्रायेलीयलोकोऽस्मि।


तन्निमित्तम् अन्यदेशिनां निकटे प्रेरितः सन् अहं स्वपदस्य महिमानं प्रकाशयामि।


अपरं मम ज्ञातिं हेरोदियोनं मम नमस्कारं वदत, तथा नार्किसस्य परिवाराणां मध्ये ये प्रभुमाश्रितास्तान् मम नमस्कारं वदत।


मम सहकारी तीमथियो मम ज्ञातयो लूकियो यासोन् सोसिपात्रश्चेमे युष्मान् नमस्कुर्व्वन्ते।


अपरञ्च प्रेरितेषु ख्यातकीर्त्ती मदग्रे ख्रीष्टाश्रितौ मम स्वजातीयौ सहबन्दिनौ च यावान्द्रनीकयूनियौ तौ मम नमस्कारं ज्ञापयध्वं।


ममान्तरतिशयदुःखं निरन्तरं खेदश्च


इति हेतोरहं युष्मभ्यं निवेदयामि, ईश्वरस्यात्मना भाषमाणः कोऽपि यीशुं शप्त इति न व्याहरति, पुनश्च पवित्रेणात्मना विनीतं विनान्यः कोऽपि यीशुं प्रभुरिति व्याहर्त्तुं न शक्नोति।


यदि कश्चिद् यीशुख्रीष्टे न प्रीयते तर्हि स शापग्रस्तो भवेत् प्रभुरायाति।


अपरञ्च युष्मासु बहु प्रीयमाणोऽप्यहं यदि युष्मत्तोऽल्पं प्रम लभे तथापि युष्माकं प्राणरक्षार्थं सानन्दं बहु व्ययं सर्व्वव्ययञ्च करिष्यामि।


युष्माकं सन्निधौ यः सुसंवादोऽस्माभि र्घोषितस्तस्माद् अन्यः सुसंवादोऽस्माकं स्वर्गीयदूतानां वा मध्ये केनचिद् यदि घोष्यते तर्हि स शप्तो भवतु।


पूर्व्वं यद्वद् अकथयाम, इदानीमहं पुनस्तद्वत् कथयामि यूयं यं सुसंवादं गृहीतवन्तस्तस्माद् अन्यो येन केनचिद् युष्मत्सन्निधौ घोष्यते स शप्तो भवतु।


यावन्तो लोका व्यवस्थायाः कर्म्मण्याश्रयन्ति ते सर्व्वे शापाधीना भवन्ति यतो लिखितमास्ते, यथा, "यः कश्चिद् एतस्य व्यवस्थाग्रन्थस्य सर्व्ववाक्यानि निश्चिद्रं न पालयति स शप्त इति।"


ख्रीष्टोऽस्मान् परिक्रीय व्यवस्थायाः शापात् मोचितवान् यतोऽस्माकं विनिमयेन स स्वयं शापास्पदमभवत् तदधि लिखितमास्ते, यथा, "यः कश्चित् तरावुल्लम्ब्यते सोऽभिशप्त इति।"


हे दासाः, यूयं ख्रीष्टम् उद्दिश्य सभयाः कम्पान्विताश्च भूत्वा सरलान्तःकरणैरैहिकप्रभूनाम् आज्ञाग्राहिणो भवत।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos