Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 8:15 - सत्यवेदः। Sanskrit NT in Devanagari

15 यूयं पुनरपि भयजनकं दास्यभावं न प्राप्ताः किन्तु येन भावेनेश्वरं पितः पितरिति प्रोच्य सम्बोधयथ तादृशं दत्तकपुत्रत्वभावम् प्राप्नुत।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 যূযং পুনৰপি ভযজনকং দাস্যভাৱং ন প্ৰাপ্তাঃ কিন্তু যেন ভাৱেনেশ্ৱৰং পিতঃ পিতৰিতি প্ৰোচ্য সম্বোধযথ তাদৃশং দত্তকপুত্ৰৎৱভাৱম্ প্ৰাপ্নুত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 যূযং পুনরপি ভযজনকং দাস্যভাৱং ন প্রাপ্তাঃ কিন্তু যেন ভাৱেনেশ্ৱরং পিতঃ পিতরিতি প্রোচ্য সম্বোধযথ তাদৃশং দত্তকপুত্রৎৱভাৱম্ প্রাপ্নুত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ယူယံ ပုနရပိ ဘယဇနကံ ဒါသျဘာဝံ န ပြာပ္တား ကိန္တု ယေန ဘာဝေနေၑွရံ ပိတး ပိတရိတိ ပြောစျ သမ္ဗောဓယထ တာဒၖၑံ ဒတ္တကပုတြတွဘာဝမ် ပြာပ္နုတ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 yUyaM punarapi bhayajanakaM dAsyabhAvaM na prAptAH kintu yEna bhAvEnEzvaraM pitaH pitariti prOcya sambOdhayatha tAdRzaM dattakaputratvabhAvam prApnuta|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 યૂયં પુનરપિ ભયજનકં દાસ્યભાવં ન પ્રાપ્તાઃ કિન્તુ યેન ભાવેનેશ્વરં પિતઃ પિતરિતિ પ્રોચ્ય સમ્બોધયથ તાદૃશં દત્તકપુત્રત્વભાવમ્ પ્રાપ્નુત|

Ver Capítulo Copiar




रोमियों 8:15
30 Referencias Cruzadas  

अतोहं सशङ्कः सन् गत्वा तव मुद्रा भूमध्ये संगोप्य स्थापितवान्, पश्य, तव यत् तदेव गृहाण।


अपरमुदितवान् हे पित र्हे पितः सर्व्वें त्वया साध्यं, ततो हेतोरिमं कंसं मत्तो दूरीकुरु, किन्तु तन् ममेच्छातो न तवेच्छातो भवतु।


तस्मात् स कथयामास, प्रार्थनकाले यूयम् इत्थं कथयध्वं, हे अस्माकं स्वर्गस्थपितस्तव नाम पूज्यं भवतु; तव राजत्वं भवतु; स्वर्गे यथा तथा पृथिव्यामपि तवेच्छया सर्व्वं भवतु।


हे पित र्यदि भवान् सम्मन्यते तर्हि कंसमेनं ममान्तिकाद् दूरय किन्तु मदिच्छानुरूपं न त्वदिच्छानुरूपं भवतु।


स यीशुं दृष्ट्वैव चीच्छब्दं चकार तस्य सम्मुखे पतित्वा प्रोच्चैर्जगाद च, हे सर्व्वप्रधानेश्वरस्य पुत्र, मया सह तव कः सम्बन्धः? त्वयि विनयं करोमि मां मा यातय।


तदनन्तरं तस्य गिदेरीयप्रदेशस्य चतुर्दिक्स्था बहवो जना अतित्रस्ता विनयेन तं जगदुः, भवान् अस्माकं निकटाद् व्रजतु तस्मात् स नावमारुह्य ततो व्याघुट्य जगाम।


ततः स आगत्य पापपुण्यदण्डेषु जगतो लोकानां प्रबोधं जनयिष्यति।


तदा यीशुरवदत् मां मा धर, इदानीं पितुः समीपे ऊर्द्ध्वगमनं न करोमि किन्तु यो मम युष्माकञ्च पिता मम युष्माकञ्चेश्वरस्तस्य निकट ऊर्द्ध्वगमनं कर्त्तुम् उद्यतोस्मि, इमां कथां त्वं गत्वा मम भ्रातृगणं ज्ञापय।


तदा प्रदीपम् आनेतुम् उक्त्वा स कम्पमानः सन् उल्लम्प्याभ्यन्तरम् आगत्य पौलसीलयोः पादेषु पतितवान्।


एतादृशीं कथां श्रुत्वा तेषां हृदयानां विदीर्णत्वात् ते पितराय तदन्यप्रेरितेभ्यश्च कथितवन्तः, हे भ्रातृगण वयं किं करिष्यामः?


अपरञ्च वयम् ईश्वरस्य सन्ताना एतस्मिन् पवित्र आत्मा स्वयम् अस्माकम् आत्माभिः सार्द्धं प्रमाणं ददाति।


केवलः स इति नहि किन्तु प्रथमजातफलस्वरूपम् आत्मानं प्राप्ता वयमपि दत्तकपुत्रत्वपदप्राप्तिम् अर्थात् शरीरस्य मुक्तिं प्रतीक्षमाणास्तद्वद् अन्तरार्त्तरावं कुर्म्मः।


तत आत्मापि स्वयम् अस्माकं दुर्ब्बलतायाः सहायत्वं करोति; यतः किं प्रार्थितव्यं तद् बोद्धुं वयं न शक्नुमः, किन्त्वस्पष्टैरार्त्तरावैरात्मा स्वयम् अस्मन्निमित्तं निवेदयति।


यतस्त इस्रायेलस्य वंशा अपि च दत्तकपुत्रत्वं तेजो नियमो व्यवस्थादानं मन्दिरे भजनं प्रतिज्ञाः पितृपुरुषगणश्चैतेषु सर्व्वेषु तेषाम् अधिकारोऽस्ति।


वयञ्चेहलोकस्यात्मानं लब्धवन्तस्तन्नहि किन्त्वीश्वरस्यैवात्मानं लब्धवन्तः, ततो हेतोरीश्वरेण स्वप्रसादाद् अस्मभ्यं यद् यद् दत्तं तत्सर्व्वम् अस्माभि र्ज्ञातुं शक्यते।


अस्माभिरनाख्यापितोऽपरः कश्चिद् यीशु र्यदि केनचिद् आगन्तुकेनाख्याप्यते युष्माभिः प्रागलब्ध आत्मा वा यदि लभ्यते प्रागगृहीतः सुसंवादो वा यदि गृह्यते तर्हि मन्ये यूयं सम्यक् सहिष्यध्वे।


यतश्छलेनागता अस्मान् दासान् कर्त्तुम् इच्छवः कतिपया भाक्तभ्रातरः ख्रीष्टेन यीशुनास्मभ्यं दत्तं स्वातन्त्र्यम् अनुसन्धातुं चारा इव समाजं प्राविशन्।


ख्रीष्टोऽस्मभ्यं यत् स्वातन्त्र्यं दत्तवान् यूयं तत्र स्थिरास्तिष्ठत दासत्वयुगेन पुन र्न निबध्यध्वं।


यीशुना ख्रीष्टेन स्वस्य निमित्तं पुत्रत्वपदेऽस्मान् स्वकीयानुग्रहस्य महत्त्वस्य प्रशंसार्थं पूर्व्वं नियुक्तवान्।


यत ईश्वरोऽस्मभ्यं भयजनकम् आत्मानम् अदत्त्वा शक्तिप्रेमसतर्कतानाम् आकरम् आत्मानं दत्तवान्।


ये च मृत्युभयाद् यावज्जीवनं दासत्वस्य निघ्ना आसन् तान् उद्धारयेत्।


एक ईश्वरो ऽस्तीति त्वं प्रत्येषि। भद्रं करोषि। भूता अपि तत् प्रतियन्ति कम्पन्ते च।


प्रेम्नि भीति र्न वर्त्तते किन्तु सिद्धं प्रेम भीतिं निराकरोति यतो भीतिः सयातनास्ति भीतो मानवः प्रेम्नि सिद्धो न जातः।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos