Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 6:21 - सत्यवेदः। Sanskrit NT in Devanagari

21 तर्हि यानि कर्म्माणि यूयम् इदानीं लज्जाजनकानि बुध्यध्वे पूर्व्वं तै र्युष्माकं को लाभ आसीत्? तेषां कर्म्मणां फलं मरणमेव।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 তৰ্হি যানি কৰ্ম্মাণি যূযম্ ইদানীং লজ্জাজনকানি বুধ্যধ্ৱে পূৰ্ৱ্ৱং তৈ ৰ্যুষ্মাকং কো লাভ আসীৎ? তেষাং কৰ্ম্মণাং ফলং মৰণমেৱ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 তর্হি যানি কর্ম্মাণি যূযম্ ইদানীং লজ্জাজনকানি বুধ্যধ্ৱে পূর্ৱ্ৱং তৈ র্যুষ্মাকং কো লাভ আসীৎ? তেষাং কর্ম্মণাং ফলং মরণমেৱ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 တရှိ ယာနိ ကရ္မ္မာဏိ ယူယမ် ဣဒါနီံ လဇ္ဇာဇနကာနိ ဗုဓျဓွေ ပူရွွံ တဲ ရျုၐ္မာကံ ကော လာဘ အာသီတ်? တေၐာံ ကရ္မ္မဏာံ ဖလံ မရဏမေဝ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 tarhi yAni karmmANi yUyam idAnIM lajjAjanakAni budhyadhvE pUrvvaM tai ryuSmAkaM kO lAbha AsIt? tESAM karmmaNAM phalaM maraNamEva|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

21 તર્હિ યાનિ કર્મ્માણિ યૂયમ્ ઇદાનીં લજ્જાજનકાનિ બુધ્યધ્વે પૂર્વ્વં તૈ ર્યુષ્માકં કો લાભ આસીત્? તેષાં કર્મ્મણાં ફલં મરણમેવ|

Ver Capítulo Copiar




रोमियों 6:21
46 Referencias Cruzadas  

ये जना एतादृशं कर्म्म कुर्व्वन्ति तएव मृतियोग्या ईश्वरस्य विचारमीदृशं ज्ञात्वापि त एतादृशं कर्म्म स्वयं कुर्व्वन्ति केवलमिति नहि किन्तु तादृशकर्म्मकारिषु लोकेष्वपि प्रीयन्ते।


तथा सति, एकेन मानुषेण पापं पापेन च मरणं जगतीं प्राविशत् अपरं सर्व्वेषां पापित्वात् सर्व्वे मानुषा मृते र्निघ्ना अभवत्।


यतो मृतिजनकं पापं पुण्यजनकं निदेशाचरणञ्चैतयोर्द्वयो र्यस्मिन् आज्ञापालनार्थं भृत्यानिव स्वान् समर्पयथ, तस्यैव भृत्या भवथ, एतत् किं यूयं न जानीथ?


यतः पापस्य वेतनं मरणं किन्त्वस्माकं प्रभुणा यीशुख्रीष्टेनानन्तजीवनम् ईश्वरदत्तं पारितोषिकम् आस्ते।


यतोऽस्माकं शारीरिकाचरणसमये मरणनिमित्तं फलम् उत्पादयितुं व्यवस्थया दूषितः पापाभिलाषोऽस्माकम् अङ्गेषु जीवन् आसीत्।


यदि यूयं शरीरिकाचारिणो भवेत तर्हि युष्माभि र्मर्त्तव्यमेव किन्त्वात्मना यदि शरीरकर्म्माणि घातयेत तर्हि जीविष्यथ।


शारीरिकभावस्य फलं मृत्युः किञ्चात्मिकभावस्य फले जीवनं शान्तिश्च।


किन्तु त्रपायुक्तानि प्रच्छन्नकर्म्माणि विहाय कुटिलताचरणमकुर्व्वन्त ईश्वरीयवाक्यं मिथ्यावाक्यैरमिश्रयन्तः सत्यधर्म्मस्य प्रकाशनेनेश्वरस्य साक्षात् सर्व्वमानवानां संवेदगोचरे स्वान् प्रशंसनीयान् दर्शयामः।


पश्यत तेनेश्वरीयेण शोकेन युष्माकं किं न साधितं? यत्नो दोषप्रक्षालनम् असन्तुष्टत्वं हार्द्दम् आसक्तत्वं फलदानञ्चैतानि सर्व्वाणि। तस्मिन् कर्म्मणि यूयं निर्म्मला इति प्रमाणं सर्व्वेण प्रकारेण युष्माभि र्दत्तं।


तेषां शेषदशा सर्व्वनाश उदरश्चेश्वरो लज्जा च श्लाघा पृथिव्याञ्च लग्नं मनः।


तस्मात् किं बुध्यध्वे यो जन ईश्वरस्य पुत्रम् अवजानाति येन च पवित्रीकृतो ऽभवत् तत् नियमस्य रुधिरम् अपवित्रं जानाति, अनुग्रहकरम् आत्मानम् अपमन्यते च, स कियन्महाघोरतरदण्डस्य योग्यो भविष्यति?


किन्तु या भूमि र्गोक्षुरकण्टकवृक्षान् उत्पादयति सा न ग्राह्या शापार्हा च शेषे तस्या दाहो भविष्यति।


तस्मात् सा मनोवाञ्छा सगर्भा भूत्वा दुष्कृतिं प्रसूते दुष्कृतिश्च परिणामं गत्वा मृत्युं जनयति।


तर्हि यो जनः पापिनं विपथभ्रमणात् परावर्त्तयति स तस्यात्मानं मृत्युत उद्धरिष्यति बहुपापान्यावरिष्यति चेति जानातु।


यतो विचारस्यारम्भसमये ईश्वरस्य मन्दिरे युज्यते यदि चास्मत्स्वारभते तर्हीश्वरीयसुसंवादाग्राहिणां शेषदशा का भविष्यति?


अतएव हे प्रियबालका यूयं तत्र तिष्ठत, तथा सति स यदा प्रकाशिष्यते तदा वयं प्रतिभान्विता भविष्यामः, तस्यागमनसमये च तस्य साक्षान्न त्रपिष्यामहे।


भविष्यद्वादिसाधूनां रक्तं तैरेव पातितं। शोणितं त्वन्तु तेभ्यो ऽदास्तत्पानं तेषु युज्यते॥


अपरं मृत्युपरलोकौ वह्निह्रदे निक्षिप्तौ, एष एव द्वितीयो मृत्युः।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos