Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 2:7 - सत्यवेदः। Sanskrit NT in Devanagari

7 वस्तुतस्तु ये जना धैर्य्यं धृत्वा सत्कर्म्म कुर्व्वन्तो महिमा सत्कारोऽमरत्वञ्चैतानि मृगयन्ते तेभ्योऽनन्तायु र्दास्यति।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 ৱস্তুতস্তু যে জনা ধৈৰ্য্যং ধৃৎৱা সৎকৰ্ম্ম কুৰ্ৱ্ৱন্তো মহিমা সৎকাৰোঽমৰৎৱঞ্চৈতানি মৃগযন্তে তেভ্যোঽনন্তাযু ৰ্দাস্যতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 ৱস্তুতস্তু যে জনা ধৈর্য্যং ধৃৎৱা সৎকর্ম্ম কুর্ৱ্ৱন্তো মহিমা সৎকারোঽমরৎৱঞ্চৈতানি মৃগযন্তে তেভ্যোঽনন্তাযু র্দাস্যতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ဝသ္တုတသ္တု ယေ ဇနာ ဓဲရျျံ ဓၖတွာ သတ္ကရ္မ္မ ကုရွွန္တော မဟိမာ သတ္ကာရော'မရတွဉ္စဲတာနိ မၖဂယန္တေ တေဘျော'နန္တာယု ရ္ဒာသျတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 vastutastu yE janA dhairyyaM dhRtvA satkarmma kurvvantO mahimA satkArO'maratvanjcaitAni mRgayantE tEbhyO'nantAyu rdAsyati|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 વસ્તુતસ્તુ યે જના ધૈર્ય્યં ધૃત્વા સત્કર્મ્મ કુર્વ્વન્તો મહિમા સત્કારોઽમરત્વઞ્ચૈતાનિ મૃગયન્તે તેભ્યોઽનન્તાયુ ર્દાસ્યતિ|

Ver Capítulo Copiar




रोमियों 2:7
38 Referencias Cruzadas  

पश्चादम्यनन्तशास्तिं किन्तु धार्म्मिका अनन्तायुषं भोक्तुं यास्यन्ति।


तस्मादेव धैर्य्यमवलम्ब्य स्वस्वप्राणान् रक्षत।


किन्तु ये श्रुत्वा सरलैः शुद्धैश्चान्तःकरणैः कथां गृह्लन्ति धैर्य्यम् अवलम्ब्य फलान्युत्पादयन्ति च त एवोत्तममृत्स्वरूपाः।


यश्छिनत्ति स वेतनं लभते अनन्तायुःस्वरूपं शस्यं स गृह्लाति च, तेनैव वप्ता छेत्ता च युगपद् आनन्दतः।


यूयम् ईश्वरात् सत्कारं न चिष्टत्वा केवलं परस्परं सत्कारम् चेद् आदध्व्वे तर्हि कथं विश्वसितुं शक्नुथ?


किन्तु आ यिहूदिनो भिन्नदेशिपर्य्यन्ता यावन्तः सत्कर्म्मकारिणो लोकाः सन्ति तान् प्रति महिमा सत्कारः शान्तिश्च भविष्यन्ति।


यतः पापस्य वेतनं मरणं किन्त्वस्माकं प्रभुणा यीशुख्रीष्टेनानन्तजीवनम् ईश्वरदत्तं पारितोषिकम् आस्ते।


किन्त्वस्मासु यो भावीविभवः प्रकाशिष्यते तस्य समीपे वर्त्तमानकालीनं दुःखमहं तृणाय मन्ये।


अपरञ्च विभवप्राप्त्यर्थं पूर्व्वं नियुक्तान्यनुग्रहपात्राणि प्रति निजविभवस्य बाहुल्यं प्रकाशयितुं केवलयिहूदिनां नहि भिन्नदेशिनामपि मध्याद्


तत्र लिखितमास्ते यथा, ‘आदिपुरुष आदम् जीवत्प्राणी बभूव,’ किन्त्वन्तिम आदम् (ख्रीष्टो) जीवनदायक आत्मा बभूव।


हे भ्रातरः, युष्मान् प्रति व्याहरामि, ईश्वरस्य राज्ये रक्तमांसयोरधिकारो भवितुं न शक्नोति, अक्षयत्वे च क्षयस्याधिकारो न भविष्यति।


अतो हे मम प्रियभ्रातरः; यूयं सुस्थिरा निश्चलाश्च भवत प्रभोः सेवायां युष्माकं परिश्रमो निष्फलो न भविष्यतीति ज्ञात्वा प्रभोः कार्य्ये सदा तत्परा भवत।


सत्कर्म्मकरणेऽस्माभिरश्रान्तै र्भवितव्यं यतोऽक्लान्तौस्तिष्ठद्भिरस्माभिरुपयुक्तसमये तत् फलानि लप्स्यन्ते।


ये केचित् प्रभौ यीशुख्रीष्टेऽक्षयं प्रेम कुर्व्वन्ति तान् प्रति प्रसादो भूयात्। तथास्तु।


यतो भिन्नजातीयानां मध्ये तत् निगूढवाक्यं कीदृग्गौरवनिधिसम्बलितं तत् पवित्रलोकान् ज्ञापयितुम् ईश्वरोऽभ्यलषत्। युष्मन्मध्यवर्त्ती ख्रीष्ट एव स निधि र्गैरवाशाभूमिश्च।


अनादिरक्षयोऽदृश्यो राजा योऽद्वितीयः सर्व्वज्ञ ईश्वरस्तस्य गौरवं महिमा चानन्तकालं यावद् भूयात्। आमेन्।


किन्त्वधुनास्माकं परित्रातु र्यीशोः ख्रीष्टस्यागमनेन प्राकाशत। ख्रीष्टो मृत्युं पराजितवान् सुसंवादेन च जीवनम् अमरताञ्च प्रकाशितवान्।


दिव्यदतगणेभ्यः स किञ्चिन् न्यूनः कृतस्त्वया। तेजोगौरवरूपेण किरीटेन विभूषितः। सृष्टं यत् ते कराभ्यां स तत्प्रभुत्वे नियोजितः।


अतः शिथिला न भवत किन्तु ये विश्वासेन सहिष्णुतया च प्रतिज्ञानां फलाधिकारिणो जातास्तेषाम् अनुगामिनो भवत।


अनेन प्रकारेण स सहिष्णुतां विधाय तस्याः प्रत्याशायाः फलं लब्धवान्।


स च प्रतिज्ञयास्मभ्यं यत् प्रतिज्ञातवान् तद् अनन्तजीवनं।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos