Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 12:7 - सत्यवेदः। Sanskrit NT in Devanagari

7 यद्वा यदि कश्चित् सेवनकारी भवति तर्हि स तत्सेवनं करोतु; अथवा यदि कश्चिद् अध्यापयिता भवति तर्हि सोऽध्यापयतु;

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 যদ্ৱা যদি কশ্চিৎ সেৱনকাৰী ভৱতি তৰ্হি স তৎসেৱনং কৰোতু; অথৱা যদি কশ্চিদ্ অধ্যাপযিতা ভৱতি তৰ্হি সোঽধ্যাপযতু;

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 যদ্ৱা যদি কশ্চিৎ সেৱনকারী ভৱতি তর্হি স তৎসেৱনং করোতু; অথৱা যদি কশ্চিদ্ অধ্যাপযিতা ভৱতি তর্হি সোঽধ্যাপযতু;

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ယဒွါ ယဒိ ကၑ္စိတ် သေဝနကာရီ ဘဝတိ တရှိ သ တတ္သေဝနံ ကရောတု; အထဝါ ယဒိ ကၑ္စိဒ် အဓျာပယိတာ ဘဝတိ တရှိ သော'ဓျာပယတု;

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 yadvA yadi kazcit sEvanakArI bhavati tarhi sa tatsEvanaM karOtu; athavA yadi kazcid adhyApayitA bhavati tarhi sO'dhyApayatu;

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 યદ્વા યદિ કશ્ચિત્ સેવનકારી ભવતિ તર્હિ સ તત્સેવનં કરોતુ; અથવા યદિ કશ્ચિદ્ અધ્યાપયિતા ભવતિ તર્હિ સોઽધ્યાપયતુ;

Ver Capítulo Copiar




रोमियों 12:7
31 Referencias Cruzadas  

अतो यूयं प्रयाय सर्व्वदेशीयान् शिष्यान् कृत्वा पितुः पुत्रस्य पवित्रस्यात्मनश्च नाम्ना तानवगाहयत; अहं युष्मान् यद्यदादिशं तदपि पालयितुं तानुपादिशत।


यीशौरभ्यर्णम् आव्रज्य व्याहार्षीत्, हे गुरो भवान् ईश्वराद् आगत् एक उपदेष्टा, एतद् अस्माभिर्ज्ञायते; यतो भवता यान्याश्चर्य्यकर्म्माणि क्रियन्ते परमेश्वरस्य साहाय्यं विना केनापि तत्तत्कर्म्माणि कर्त्तुं न शक्यन्ते।


अपरञ्च बर्णब्बाः, शिमोन् यं निग्रं वदन्ति, कुरीनीयलूकियो हेरोदा राज्ञा सह कृतविद्यााभ्यासो मिनहेम्, शौलश्चैते ये कियन्तो जना भविष्यद्वादिन उपदेष्टारश्चान्तियखियानगरस्थमण्डल्याम् आसन्,


कामपि हितकथाां न गोपायितवान् तां प्रचार्य्य सप्रकाशं गृहे गृहे समुपदिश्येश्वरं प्रति मनः परावर्त्तनीयं प्रभौ यीशुख्रीष्टे विश्वसनीयं


यूयं स्वेषु तथा यस्य व्रजस्याध्यक्षन् आत्मा युष्मान् विधाय न्ययुङ्क्त तत्सर्व्वस्मिन् सावधाना भवत, य समाजञ्च प्रभु र्निजरक्तमूल्येन क्रीतवान तम् अवत,


तस्मिन् समये शिष्याणां बाहुल्यात् प्रात्यहिकदानस्य विश्राणनै र्भिन्नदेशीयानां विधवास्त्रीगण उपेक्षिते सति इब्रीयलोकैः सहान्यदेशीयानां विवाद उपातिष्ठत्।


केचित् केचित् समितावीश्वरेण प्रथमतः प्रेरिता द्वितीयत ईश्वरीयादेशवक्तारस्तृतीयत उपदेष्टारो नियुक्ताः, ततः परं केभ्योऽपि चित्रकार्य्यसाधनसामर्थ्यम् अनामयकरणशक्तिरुपकृतौ लोकशासने वा नैपुण्यं नानाभाषाभाषणसामर्थ्यं वा तेन व्यतारि।


परिचर्य्याश्च बहुविधाः किन्त्वेकः प्रभुः।


हे भ्रातरः, सम्मिलितानां युष्माकम् एकेन गीतम् अन्येनोपदेशोऽन्येन परभाषान्येन ऐश्वरिकदर्शनम् अन्येनार्थबोधकं वाक्यं लभ्यते किमेतत्? सर्व्वमेव परनिष्ठार्थं युष्माभिः क्रियतां।


यो जनो धर्म्मोपदेशं लभते स उपदेष्टारं स्वीयसर्व्वसम्पत्ते र्भागिनं करोतु।


स एव च कांश्चन प्रेरितान् अपरान् भविष्यद्वादिनोऽपरान् सुसंवादप्रचारकान् अपरान् पालकान् उपदेशकांश्च नियुक्तवान्।


अपरम् आर्खिप्पं वदत प्रभो र्यत् परिचर्य्यापदं त्वयाप्रापि तत्साधनाय सावधानो भव।


तद्घोषयिता दूतो विश्वासे सत्यधर्म्मे च भिन्नजातीयानाम् उपदेशकश्चाहं न्ययूज्ये, एतदहं ख्रीष्टस्य नाम्ना यथातथ्यं वदामि नानृतं कथयामि।


अतोऽध्यक्षेणानिन्दितेनैकस्या योषितो भर्त्रा परिमितभोगेन संयतमनसा सभ्येनातिथिसेवकेन शिक्षणे निपुणेन


स्वस्मिन् उपदेशे च सावधानो भूत्वावतिष्ठस्व तत् कृत्वा त्वयात्मपरित्राणं श्रोतृणाञ्च परित्राणं साधयिष्यते।


ये प्राञ्चः समितिं सम्यग् अधितिष्ठन्ति विशेषत ईश्वरवाक्येनोपदेशेन च ये यत्नं विदधते ते द्विगुणस्यादरस्य योग्या मान्यन्तां।


अपरं बहुभिः साक्षिभिः प्रमाणीकृतां यां शिक्षां श्रुतवानसि तां विश्वास्येषु परस्मै शिक्षादाने निपुणेषु च लोकेषु समर्पय।


यतः प्रभो र्दासेन युद्धम् अकर्त्तव्यं किन्तु सर्व्वान् प्रति शान्तेन शिक्षादानेच्छुकेन सहिष्णुना च भवितव्यं, विपक्षाश्च तेन नम्रत्वेन चेतितव्याः।


त्वं वाक्यं घोषय कालेऽकाले चोत्सुको भव पूर्णया सहिष्णुतया शिक्षया च लोकान् प्रबोधय भर्त्सय विनयस्व च।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos