Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 5:13 - सत्यवेदः। Sanskrit NT in Devanagari

13 अपरं स्वर्गमर्त्त्यपातालसागरेषु यानि विद्यन्ते तेषां सर्व्वेषां सृष्टवस्तूनां वागियं मया श्रुता, प्रशंसां गौरवं शौर्य्यम् आधिपत्यं सनातनं। सिंहसनोपविष्टश्च मेषवत्सश्च गच्छतां।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 অপৰং স্ৱৰ্গমৰ্ত্ত্যপাতালসাগৰেষু যানি ৱিদ্যন্তে তেষাং সৰ্ৱ্ৱেষাং সৃষ্টৱস্তূনাং ৱাগিযং মযা শ্ৰুতা, প্ৰশংসাং গৌৰৱং শৌৰ্য্যম্ আধিপত্যং সনাতনং| সিংহসনোপৱিষ্টশ্চ মেষৱৎসশ্চ গচ্ছতাং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 অপরং স্ৱর্গমর্ত্ত্যপাতালসাগরেষু যানি ৱিদ্যন্তে তেষাং সর্ৱ্ৱেষাং সৃষ্টৱস্তূনাং ৱাগিযং মযা শ্রুতা, প্রশংসাং গৌরৱং শৌর্য্যম্ আধিপত্যং সনাতনং| সিংহসনোপৱিষ্টশ্চ মেষৱৎসশ্চ গচ্ছতাং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 အပရံ သွရ္ဂမရ္တ္တျပါတာလသာဂရေၐု ယာနိ ဝိဒျန္တေ တေၐာံ သရွွေၐာံ သၖၐ္ဋဝသ္တူနာံ ဝါဂိယံ မယာ ၑြုတာ, ပြၑံသာံ ဂေါ်ရဝံ ၑော်ရျျမ် အာဓိပတျံ သနာတနံ၊ သိံဟသနောပဝိၐ္ဋၑ္စ မေၐဝတ္သၑ္စ ဂစ္ဆတာံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 aparaM svargamarttyapAtAlasAgarESu yAni vidyantE tESAM sarvvESAM sRSTavastUnAM vAgiyaM mayA zrutA, prazaMsAM gauravaM zauryyam AdhipatyaM sanAtanaM| siMhasanOpaviSTazca mESavatsazca gacchatAM|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

13 અપરં સ્વર્ગમર્ત્ત્યપાતાલસાગરેષુ યાનિ વિદ્યન્તે તેષાં સર્વ્વેષાં સૃષ્ટવસ્તૂનાં વાગિયં મયા શ્રુતા, પ્રશંસાં ગૌરવં શૌર્ય્યમ્ આધિપત્યં સનાતનં| સિંહસનોપવિષ્ટશ્ચ મેષવત્સશ્ચ ગચ્છતાં|

Ver Capítulo Copiar




प्रकाशितवाक्य 5:13
29 Referencias Cruzadas  

अस्मान् परीक्षां मानय, किन्तु पापात्मनो रक्ष; राजत्वं गौरवं पराक्रमः एते सर्व्वे सर्व्वदा तव; तथास्तु।


सर्व्वोर्द्व्वस्थैरीश्वरस्य महिमा सम्प्रकाश्यतां। शान्तिर्भूयात् पृथिव्यास्तु सन्तोषश्च नरान् प्रति॥


परेऽहनि योहन् स्वनिकटमागच्छन्तं यिशुं विलोक्य प्रावोचत् जगतः पापमोचकम् ईश्वरस्य मेषशावकं पश्यत।


यतो वस्तुमात्रमेव तस्मात् तेन तस्मै चाभवत् तदीयो महिमा सर्व्वदा प्रकाशितो भवतु। इति।


सर्व्वज्ञ ईश्वरस्तस्य धन्यवादो यीशुख्रीष्टेन सन्ततं भूयात्। इति।


तत् केवलं नहि किन्तु सर्व्वाध्यक्षः सर्व्वदा सच्चिदानन्द ईश्वरो यः ख्रीष्टः सोऽपि शारीरिकसम्बन्धेन तेषां वंशसम्भवः।


ख्रीष्टयीशुना समिते र्मध्ये सर्व्वेषु युगेषु तस्य धन्यवादो भवतु। इति।


ततस्तस्मै यीशुनाम्ने स्वर्गमर्त्यपातालस्थितैः सर्व्वै र्जानुपातः कर्त्तव्यः,


किन्त्वेतदर्थं युष्माभि र्बद्धमूलैः सुस्थिरैश्च भवितव्यम्, आकाशमण्डलस्याधःस्थितानां सर्व्वलोकानां मध्ये च घुष्यमाणो यः सुसंवादो युष्माभिरश्रावि तज्जातायां प्रत्याशायां युष्माभिरचलै र्भवितव्यं।


स्वस्मिन् उपदेशे च सावधानो भूत्वावतिष्ठस्व तत् कृत्वा त्वयात्मपरित्राणं श्रोतृणाञ्च परित्राणं साधयिष्यते।


यो वाक्यं कथयति स ईश्वरस्य वाक्यमिव कथयतु यश्च परम् उपकरोति स ईश्वरदत्तसामर्थ्यादिवोपकरोतु। सर्व्वविषये यीशुख्रीष्टेनेश्वरस्य गौरवं प्रकाश्यतां तस्यैव गौरवं पराक्रमश्च सर्व्वदा भूयात्। आमेन।


तस्य गौरवं पराक्रमश्चानन्तकालं यावद् भूयात्। आमेन्।


यो ऽस्माकम् अद्वितीयस्त्राणकर्त्ता सर्व्वज्ञ ईश्वरस्तस्य गौरवं महिमा पराक्रमः कर्तृत्वञ्चेदानीम् अनन्तकालं यावद् भूयात्। आमेन्।


यो ऽस्मासु प्रीतवान् स्वरुधिरेणास्मान् स्वपापेभ्यः प्रक्षालितवान् तस्य पितुरीश्वरस्य याजकान् कृत्वास्मान् राजवर्गे नियुक्तवांश्च तस्मिन् महिमा पराक्रमश्चानन्तकालं यावद् वर्त्ततां। आमेन्।


ततो जगतः सृष्टिकालात् छेदितस्य मेषवत्सस्य जीवनपुस्तके यावतां नामानि लिखितानि न विद्यन्ते ते पृथिवीनिवासिनः सर्व्वे तं पशुं प्रणंस्यन्ति।


अनन्तरं तस्य सिहासनोपविष्टजनस्य दक्षिणस्ते ऽन्त र्बहिश्च लिखितं पत्रमेकं मया दृष्टं तत् सप्तमुद्राभिरङ्कितं।


तैरुच्चैरिदम् उक्तं, पराक्रमं धनं ज्ञानं शक्तिं गौरवमादरं। प्रशंसाञ्चार्हति प्राप्तुं छेदितो मेषशावकः॥


किन्तु स्वर्गमर्त्त्यपातालेषु तत् पत्रं विवरीतुं निरीक्षितुञ्च कस्यापि सामर्थ्यं नाभवत्।


अपरं सिंहासनस्य चतुर्णां प्राणिनां प्राचीनवर्गस्य च मध्य एको मेषशावको मया दृष्टः स छेदित इव तस्य सप्तशृङ्गाणि सप्तलोचनानि च सन्ति तानि कृत्स्नां पृथिवीं प्रेषिता ईश्वरस्य सप्तात्मानः।


अपरं ते नूतनमेकं गीतमगायन्, यथा, ग्रहीतुं पत्रिकां तस्य मुद्रा मोचयितुं तथा। त्वमेवार्हसि यस्मात् त्वं बलिवत् छेदनं गतः। सर्व्वाभ्यो जातिभाषाभ्यः सर्व्वस्माद् वंशदेशतः। ईश्वरस्य कृते ऽस्मान् त्वं स्वीयरक्तेन क्रीतवान्।


ते च गिरीन् शैलांश्च वदन्ति यूयम् अस्मदुपरि पतित्वा सिंहासनोपविष्टजनस्य दृष्टितो मेषशावकस्य कोपाच्चास्मान् गोपायत;


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos