Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 4:6 - सत्यवेदः। Sanskrit NT in Devanagari

6 अपरं सिंहासनस्यान्तिके स्फटिकतुल्यः काचमयो जलाशयो विद्यते, अपरम् अग्रतः पश्चाच्च बहुचक्षुष्मन्तश्चत्वारः प्राणिनः सिंहसनस्य मध्ये चतुर्दिक्षु च विद्यन्ते।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 অপৰং সিংহাসনস্যান্তিকে স্ফটিকতুল্যঃ কাচমযো জলাশযো ৱিদ্যতে, অপৰম্ অগ্ৰতঃ পশ্চাচ্চ বহুচক্ষুষ্মন্তশ্চৎৱাৰঃ প্ৰাণিনঃ সিংহসনস্য মধ্যে চতুৰ্দিক্ষু চ ৱিদ্যন্তে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 অপরং সিংহাসনস্যান্তিকে স্ফটিকতুল্যঃ কাচমযো জলাশযো ৱিদ্যতে, অপরম্ অগ্রতঃ পশ্চাচ্চ বহুচক্ষুষ্মন্তশ্চৎৱারঃ প্রাণিনঃ সিংহসনস্য মধ্যে চতুর্দিক্ষু চ ৱিদ্যন্তে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 အပရံ သိံဟာသနသျာန္တိကေ သ္ဖဋိကတုလျး ကာစမယော ဇလာၑယော ဝိဒျတေ, အပရမ် အဂြတး ပၑ္စာစ္စ ဗဟုစက္ၐုၐ္မန္တၑ္စတွာရး ပြာဏိနး သိံဟသနသျ မဓျေ စတုရ္ဒိက္ၐု စ ဝိဒျန္တေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 aparaM siMhAsanasyAntikE sphaTikatulyaH kAcamayO jalAzayO vidyatE, aparam agrataH pazcAcca bahucakSuSmantazcatvAraH prANinaH siMhasanasya madhyE caturdikSu ca vidyantE|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

6 અપરં સિંહાસનસ્યાન્તિકે સ્ફટિકતુલ્યઃ કાચમયો જલાશયો વિદ્યતે, અપરમ્ અગ્રતઃ પશ્ચાચ્ચ બહુચક્ષુષ્મન્તશ્ચત્વારઃ પ્રાણિનઃ સિંહસનસ્ય મધ્યે ચતુર્દિક્ષુ ચ વિદ્યન્તે|

Ver Capítulo Copiar




प्रकाशितवाक्य 4:6
25 Referencias Cruzadas  

सिंहसनस्यान्तिके प्राणिचतुष्टयस्य प्राचीनवर्गस्य चान्तिके ऽपि ते नवीनमेकं गीतम् अगायन् किन्तु धरणीतः परिक्रीतान् तान् चतुश्चत्वारिंशत्यहस्राधिकलक्षलोकान् विना नापरेण केनापि तद् गीतं शिक्षितुं शक्यते।


वह्निमिश्रितस्य काचमयस्य जलाशयस्याकृतिरपि दृष्टा ये च पशोस्तत्प्रतिमायास्तन्नाम्नो ऽङ्कस्य च प्रभूतवन्तस्ते तस्य काचमयजलाशयस्य तीरे तिष्ठन्त ईश्वरीयवीणा धारयन्ति,


अपरं चतुर्णां प्राणिनाम् एकस्तेभ्यः सप्तदूतेभ्यः सप्तसुवर्णकंसान् अददात्।


ततः परं चतुर्व्विंशतिप्राचीनाश्चत्वारः प्राणिनश्च प्रणिपत्य सिंहासनोपविष्टम् ईश्वरं प्रणम्यावदन्, तथास्तु परमेशश्च सर्व्वैरेव प्रशस्यतां॥


सा ईश्वरीयप्रतापविशिष्टा तस्यास्तेजो महार्घरत्नवद् अर्थतः सूर्य्यकान्तमणितेजस्तुल्यं।


तस्य प्राचीरस्य निर्म्मितिः सूर्य्यकान्तमणिभि र्नगरी च निर्म्मलकाचतुल्येन शुद्धसुवर्णेन निर्म्मिता।


द्वादशगोपुराणि द्वादशमुक्ताभि र्निर्म्मितानि, एकैकं गोपुरम् एकैकया मुक्तया कृतं नगर्य्या महामार्गश्चाच्छकाचवत् निर्म्मलसुवर्णेन निर्म्मितं।


अनन्तरं स स्फटिकवत् निर्म्मलम् अमृततोयस्य स्रोतो माम् अउर्शयत् तद् ईश्वरस्य मेषशावकस्य च सिंहासनात् निर्गच्छति।


तस्य सिंहासने चतुर्दिक्षु चतुर्विंशतिसिंहासनानि तिष्ठन्ति तेषु सिंहासनेषु चतुर्विंशति प्राचीनलोका उपविष्टास्ते शुभ्रवासःपरिहितास्तेषां शिरांसि च सुवर्णकिरीटै र्भूषितानि।


अपरं निरीक्षमाणेन मया सिंहासनस्य प्राणिचतुष्टयस्य प्राचीनवर्गस्य च परितो बहूनां दूतानां रवः श्रुतः, तेषां संख्या अयुतायुतानि सहस्रसहस्त्राणि च।


अपरं ते चत्वारः प्राणिनः कथितवन्तस्तथास्तु, ततश्चतुर्विंशतिप्राचीना अपि प्रणिपत्य तम् अनन्तकालजीविनं प्राणमन्।


अपरं सिंहासनस्य चतुर्णां प्राणिनां प्राचीनवर्गस्य च मध्य एको मेषशावको मया दृष्टः स छेदित इव तस्य सप्तशृङ्गाणि सप्तलोचनानि च सन्ति तानि कृत्स्नां पृथिवीं प्रेषिता ईश्वरस्य सप्तात्मानः।


पत्रे गृहीते चत्वारः प्राणिनश्चतुर्विंंशतिप्राचीनाश्च तस्य मेषशावकस्यान्तिके प्रणिपतन्ति तेषाम् एकैकस्य करयो र्वीणां सुगन्धिद्रव्यैः परिपूर्णं स्वर्णमयपात्रञ्च तिष्ठति तानि पवित्रलोकानां प्रार्थनास्वरूपाणि।


अनन्तरं मयि निरीक्षमाणे मेषशावकेन तासां सप्तमुद्राणाम् एका मुद्रा मुक्ता ततस्तेषां चतुर्णाम् एकस्य प्राणिन आगत्य पश्येतिवाचको मेघगर्जनतुल्यो रवो मया श्रुतः।


अनन्तरं प्राणिचतुष्टयस्य मध्याद् वागियं श्रुता गोधूमानामेकः सेटको मुद्रापादैकमूल्यः, यवानाञ्च सेटकत्रयं मुद्रापादैकमूल्यं तैलद्राक्षारसाश्च त्वया मा हिंसितव्याः।


ततः सर्व्वे दूताः सिंहासनस्य प्राचीनवर्गस्य प्राणिचतुष्टयस्य च परितस्तिष्ठन्तः सिंहासनस्यान्तिके न्यूब्जीभूयेश्वरं प्रणम्य वदन्ति,


यतः सिंहासनाधिष्ठानकारी मेषशावकस्तान् चारयिष्यति, अमृततोयानां प्रस्रवणानां सन्निधिं तान् गमयिष्यति च, ईश्वरोऽपि तेषां नयनभ्यः सर्व्वमश्रु प्रमार्क्ष्यति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos