Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 21:3 - सत्यवेदः। Sanskrit NT in Devanagari

3 अनन्तरं स्वर्गाद् एष महारवो मया श्रुतः पश्यायं मानवैः सार्द्धम् ईश्वरस्यावासः, स तैः सार्द्धं वत्स्यति ते च तस्य प्रजा भविष्यन्ति, ईश्वरश्च स्वयं तेषाम् ईश्वरो भूत्वा तैः सार्द्धं स्थास्यति।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 অনন্তৰং স্ৱৰ্গাদ্ এষ মহাৰৱো মযা শ্ৰুতঃ পশ্যাযং মানৱৈঃ সাৰ্দ্ধম্ ঈশ্ৱৰস্যাৱাসঃ, স তৈঃ সাৰ্দ্ধং ৱৎস্যতি তে চ তস্য প্ৰজা ভৱিষ্যন্তি, ঈশ্ৱৰশ্চ স্ৱযং তেষাম্ ঈশ্ৱৰো ভূৎৱা তৈঃ সাৰ্দ্ধং স্থাস্যতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 অনন্তরং স্ৱর্গাদ্ এষ মহারৱো মযা শ্রুতঃ পশ্যাযং মানৱৈঃ সার্দ্ধম্ ঈশ্ৱরস্যাৱাসঃ, স তৈঃ সার্দ্ধং ৱৎস্যতি তে চ তস্য প্রজা ভৱিষ্যন্তি, ঈশ্ৱরশ্চ স্ৱযং তেষাম্ ঈশ্ৱরো ভূৎৱা তৈঃ সার্দ্ধং স্থাস্যতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 အနန္တရံ သွရ္ဂာဒ် ဧၐ မဟာရဝေါ မယာ ၑြုတး ပၑျာယံ မာနဝဲး သာရ္ဒ္ဓမ် ဤၑွရသျာဝါသး, သ တဲး သာရ္ဒ္ဓံ ဝတ္သျတိ တေ စ တသျ ပြဇာ ဘဝိၐျန္တိ, ဤၑွရၑ္စ သွယံ တေၐာမ် ဤၑွရော ဘူတွာ တဲး သာရ္ဒ္ဓံ သ္ထာသျတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 anantaraM svargAd ESa mahAravO mayA zrutaH pazyAyaM mAnavaiH sArddham IzvarasyAvAsaH, sa taiH sArddhaM vatsyati tE ca tasya prajA bhaviSyanti, Izvarazca svayaM tESAm IzvarO bhUtvA taiH sArddhaM sthAsyati|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 અનન્તરં સ્વર્ગાદ્ એષ મહારવો મયા શ્રુતઃ પશ્યાયં માનવૈઃ સાર્દ્ધમ્ ઈશ્વરસ્યાવાસઃ, સ તૈઃ સાર્દ્ધં વત્સ્યતિ તે ચ તસ્ય પ્રજા ભવિષ્યન્તિ, ઈશ્વરશ્ચ સ્વયં તેષામ્ ઈશ્વરો ભૂત્વા તૈઃ સાર્દ્ધં સ્થાસ્યતિ|

Ver Capítulo Copiar




प्रकाशितवाक्य 21:3
29 Referencias Cruzadas  

स वादो मनुष्यरूपेणावतीर्य्य सत्यतानुग्रहाभ्यां परिपूर्णः सन् सार्धम् अस्माभि र्न्यवसत् ततः पितुरद्वितीयपुत्रस्य योग्यो यो महिमा तं महिमानं तस्यापश्याम।


ततो यीशुः प्रत्युदितवान्, यो जनो मयि प्रीयते स ममाज्ञा अपि गृह्लाति, तेन मम पितापि तस्मिन् प्रेष्यते, आवाञ्च तन्निकटमागत्य तेन सह निवत्स्यावः।


ईश्वरस्य मन्दिरेण सह वा देवप्रतिमानां का तुलना? अमरस्येश्वरस्य मन्दिरं यूयमेव। ईश्वरेण तदुक्तं यथा, तेषां मध्येऽहं स्वावासं निधास्यामि तेषां मध्ये च यातायातं कुर्व्वन् तेषाम् ईश्वरो भविष्यामि ते च मल्लोका भविष्यन्ति।


युष्माकं पिता भविष्यामि च, यूयञ्च मम कन्यापुत्रा भविष्यथेति सर्व्वशक्तिमता परमेश्वरेणोक्तं।


अस्माकं तातेनेश्वरेण प्रभुना यीशुख्रीष्टेन च युष्मत्समीपगमनायास्माकं पन्था सुगमः क्रियतां।


किन्तु ते सर्व्वोत्कृष्टम् अर्थतः स्वर्गीयं देशम् आकाङ्क्षन्ति तस्माद् ईश्वरस्तानधि न लज्जमानस्तेषाम् ईश्वर इति नाम गृहीतवान् यतः स तेषां कृते नगरमेकं संस्थापितवान्।


किन्तु परमेश्वरः कथयति तद्दिनात् परमहं इस्रायेलवंशीयैः सार्द्धम् इमं नियमं स्थिरीकरिष्यामि, तेषां चित्ते मम विधीन् स्थापयिष्यामि तेषां हृत्पत्रे च तान् लेखिष्यामि, अपरमहं तेषाम् ईश्वरो भविष्यामि ते च मम लोका भविष्यन्ति।


यच्च दूष्यं न मनुजैः किन्त्वीश्वरेण स्थापितं तस्य सत्यदूष्यस्य पवित्रवस्तूनाञ्च सेवकः स भवति।


तैः सप्त स्तनितै र्वाक्ये कथिते ऽहं तत् लेखितुम् उद्यत आसं किन्तु स्वर्गाद् वागियं मया श्रुता सप्त स्तनितै र्यद् यद् उक्तं तत् मुद्रयाङ्कय मा लिख।


अपरं स्वर्गाद् यस्य रवो मयाश्रावि स पुन र्मां सम्भाष्यावदत् त्वं गत्वा समुद्रमेदिन्योस्तिष्ठतो दूतस्य करात् तं विस्तीर्णं क्षुद्रग्रन्थं गृहाण,


ततः परं स्वर्गे उच्चै र्भाषमाणो रवो ऽयं मयाश्रावि, त्राणं शक्तिश्च राजत्वमधुनैवेश्वरस्य नः। तथा तेनाभिषिक्तस्य त्रातुः पराक्रमो ऽभवत्ं॥ यतो निपातितो ऽस्माकं भ्रातृणां सो ऽभियोजकः। येनेश्वरस्य नः साक्षात् ते ऽदूष्यन्त दिवानिशं॥


यो जयति स सर्व्वेषाम् अधिकारी भविष्यति, अहञ्च तस्येश्वरो भविष्यामि स च मम पुत्रो भविष्यति।


अपरं किमपि शापग्रस्तं पुन र्न भविष्यति तस्या मध्य ईश्वरस्य मेषशावकस्य च सिंहासनं स्थास्यति तस्य दासाश्च तं सेविष्यन्ते।


तत्कारणात् त ईश्वरस्य सिंहासनस्यान्तिके तिष्ठन्तो दिवारात्रं तस्य मन्दिरे तं सेवन्ते सिंहासनोपविष्टो जनश्च तान् अधिस्थास्यति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos