Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 11:8 - सत्यवेदः। Sanskrit NT in Devanagari

8 ततस्तयोः प्रभुरपि यस्यां महापुर्य्यां क्रुशे हतो ऽर्थतो यस्याः पारमार्थिकनामनी सिदोमं मिसरश्चेति तस्या महापुर्य्यांः सन्निवेशे तयोः कुणपे स्थास्यतः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 ততস্তযোঃ প্ৰভুৰপি যস্যাং মহাপুৰ্য্যাং ক্ৰুশে হতো ঽৰ্থতো যস্যাঃ পাৰমাৰ্থিকনামনী সিদোমং মিসৰশ্চেতি তস্যা মহাপুৰ্য্যাংঃ সন্নিৱেশে তযোঃ কুণপে স্থাস্যতঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 ততস্তযোঃ প্রভুরপি যস্যাং মহাপুর্য্যাং ক্রুশে হতো ঽর্থতো যস্যাঃ পারমার্থিকনামনী সিদোমং মিসরশ্চেতি তস্যা মহাপুর্য্যাংঃ সন্নিৱেশে তযোঃ কুণপে স্থাস্যতঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တတသ္တယေား ပြဘုရပိ ယသျာံ မဟာပုရျျာံ ကြုၑေ ဟတော 'ရ္ထတော ယသျား ပါရမာရ္ထိကနာမနီ သိဒေါမံ မိသရၑ္စေတိ တသျာ မဟာပုရျျာံး သန္နိဝေၑေ တယေား ကုဏပေ သ္ထာသျတး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tatastayOH prabhurapi yasyAM mahApuryyAM kruzE hatO 'rthatO yasyAH pAramArthikanAmanI sidOmaM misarazcEti tasyA mahApuryyAMH sannivEzE tayOH kuNapE sthAsyataH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 તતસ્તયોઃ પ્રભુરપિ યસ્યાં મહાપુર્ય્યાં ક્રુશે હતો ઽર્થતો યસ્યાઃ પારમાર્થિકનામની સિદોમં મિસરશ્ચેતિ તસ્યા મહાપુર્ય્યાંઃ સન્નિવેશે તયોઃ કુણપે સ્થાસ્યતઃ|

Ver Capítulo Copiar




प्रकाशितवाक्य 11:8
40 Referencias Cruzadas  

युष्मानहं तथ्यं वच्मि विचारदिने तत्पुरस्य दशातः सिदोममोरापुरयोर्दशा सह्यतरा भविष्यति।


पश्चात् हे शौल हे शौल कुतो मां ताडयसि? स्वं प्रति प्रोक्तम् एतं शब्दं श्रुत्वा


तस्माद् यीशुरपि यत् स्वरुधिरेण प्रजाः पवित्रीकुर्य्यात् तदर्थं नगरद्वारस्य बहि र्मृतिं भुक्तवान्।


स्वमनोभिरीश्वरस्य पुत्रं पुनः क्रुशे घ्नन्ति लज्जास्पदं कुर्व्वते च तर्हि मनःपरावर्त्तनाय पुनस्तान् नवीनीकर्त्तुं कोऽपि न शक्नोति।


सिदोमम् अमोरा चेतिनामके नगरे भविष्यतां दुष्टानां दृष्टान्तं विधाय भस्मीकृत्य विनाशेन दण्डितवान्;


अपरं सिदोमम् अमोरा तन्निकटस्थनगराणि चैतेषां निवासिनस्तत्समरूपं व्यभिचारं कृतवन्तो विषममैथुनस्य चेष्टया विपथं गतवन्तश्च तस्मात् तान्यपि दृष्टान्तस्वरूपाणि भूत्वा सदातनवह्निना दण्डं भुञ्जते।


तद्दण्डे महाभूमिकम्पे जाते पुर्य्या दशमांशः पतितः सप्तसहस्राणि मानुषाश्च तेन भूमिकम्पेन हताः, अवशिष्टाश्च भयं गत्वा स्वर्गीयेश्वरस्य प्रशंसाम् अकीर्त्तयन्।


ततो नानाजातीया नानावंशीया नानाभाषावादिनो नानादेशीयाश्च बहवो मानवाः सार्द्धदिनत्रयं तयोः कुणपे निरीक्षिष्यन्ते, तयोः कुणपयोः श्मशाने स्थापनं नानुज्ञास्यन्ति।


तत्कुण्डस्थफलानि च बहि र्मर्द्दितानि ततः कुण्डमध्यात् निर्गतं रक्तं क्रोशशतपर्य्यन्तम् अश्वानां खलीनान् यावद् व्याप्नोत्।


तत्पश्चाद् द्वितीय एको दूत उपस्थायावदत् पतिता पतिता सा महाबाबिल् या सर्व्वजातीयान् स्वकीयं व्यभिचाररूपं क्रोधमदम् अपाययत्।


तदानीं महानगरी त्रिखण्डा जाता भिन्नजातीयानां नगराणि च न्यपतन् महाबाबिल् चेश्वरेण स्वकीयप्रचण्डकोपमदिरापात्रदानार्थं संस्मृता।


तदनन्तरं तेषां सप्तकंसधारिणां सप्तदूतानाम् एक आगत्य मां सम्भाष्यावदत्, अत्रागच्छ, मेदिन्या नरपतयो यया वेश्यया सार्द्धं व्यभिचारकर्म्म कृतवन्तः,


अपरं त्वया दृष्टा योषित् सा महानगरी या पृथिव्या राज्ञाम् उपरि राजत्वं कुरुते।


तस्या भाले निगूढवाक्यमिदं पृथिवीस्थवेश्यानां घृण्यक्रियाणाञ्च माता महाबाबिलिति नाम लिखितम् आस्ते।


तस्यास्तै र्यातनाभीते र्दूरे स्थित्वेदमुच्यते, हा हा बाबिल् महास्थान हा प्रभावान्विते पुरि, एकस्मिन् आगता दण्डे विचाराज्ञा त्वदीयका।


दूरे तिष्ठन्तस्तस्या दाहस्य धूमं निरीक्षमाणा उच्चैःस्वरेण वदन्ति तस्या महानगर्य्याः किं तुल्यं?


स बलवता स्वरेण वाचमिमाम् अघोषयत् पतिता पतिता महाबाबिल्, सा भूतानां वसतिः सर्व्वेषाम् अशुच्यात्मनां कारा सर्व्वेषाम् अशुचीनां घृण्यानाञ्च पक्षिणां पिञ्जरश्चाभवत्।


अनन्तरम् एको बलवान् दूतो बृहत्पेषणीप्रस्तरतुल्यं पाषाणमेकं गृहीत्वा समुद्रे निक्षिप्य कथितवान्, ईदृग्बलप्रकाशेन बाबिल् महानगरी निपातयिष्यते ततस्तस्या उद्देशः पुन र्न लप्स्यते।


भाविवादिपवित्राणां यावन्तश्च हता भुवि। सर्व्वेषां शोणितं तेषां प्राप्तं सर्व्वं तवान्तरे॥


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos