Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 11:19 - सत्यवेदः। Sanskrit NT in Devanagari

19 अनन्तरम् ईश्वरस्य स्वर्गस्थमन्दिरस्य द्वारं मुक्तं तन्मन्दिरमध्ये च नियममञ्जूषा दृश्याभवत्, तेन तडितो रवाः स्तनितानि भूमिकम्पो गुरुतरशिलावृष्टिश्चैतानि समभवन्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 অনন্তৰম্ ঈশ্ৱৰস্য স্ৱৰ্গস্থমন্দিৰস্য দ্ৱাৰং মুক্তং তন্মন্দিৰমধ্যে চ নিযমমঞ্জূষা দৃশ্যাভৱৎ, তেন তডিতো ৰৱাঃ স্তনিতানি ভূমিকম্পো গুৰুতৰশিলাৱৃষ্টিশ্চৈতানি সমভৱন্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 অনন্তরম্ ঈশ্ৱরস্য স্ৱর্গস্থমন্দিরস্য দ্ৱারং মুক্তং তন্মন্দিরমধ্যে চ নিযমমঞ্জূষা দৃশ্যাভৱৎ, তেন তডিতো রৱাঃ স্তনিতানি ভূমিকম্পো গুরুতরশিলাৱৃষ্টিশ্চৈতানি সমভৱন্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 အနန္တရမ် ဤၑွရသျ သွရ္ဂသ္ထမန္ဒိရသျ ဒွါရံ မုက္တံ တန္မန္ဒိရမဓျေ စ နိယမမဉ္ဇူၐာ ဒၖၑျာဘဝတ်, တေန တဍိတော ရဝါး သ္တနိတာနိ ဘူမိကမ္ပော ဂုရုတရၑိလာဝၖၐ္ဋိၑ္စဲတာနိ သမဘဝန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 anantaram Izvarasya svargasthamandirasya dvAraM muktaM tanmandiramadhyE ca niyamamanjjUSA dRzyAbhavat, tEna taPitO ravAH stanitAni bhUmikampO gurutarazilAvRSTizcaitAni samabhavan|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

19 અનન્તરમ્ ઈશ્વરસ્ય સ્વર્ગસ્થમન્દિરસ્ય દ્વારં મુક્તં તન્મન્દિરમધ્યે ચ નિયમમઞ્જૂષા દૃશ્યાભવત્, તેન તડિતો રવાઃ સ્તનિતાનિ ભૂમિકમ્પો ગુરુતરશિલાવૃષ્ટિશ્ચૈતાનિ સમભવન્|

Ver Capítulo Copiar




प्रकाशितवाक्य 11:19
33 Referencias Cruzadas  

तद्दण्डे महाभूमिकम्पे जाते पुर्य्या दशमांशः पतितः सप्तसहस्राणि मानुषाश्च तेन भूमिकम्पेन हताः, अवशिष्टाश्च भयं गत्वा स्वर्गीयेश्वरस्य प्रशंसाम् अकीर्त्तयन्।


अनन्तरं सप्तदूतेन तूर्य्यां वादितायां स्वर्ग उच्चैः स्वरैर्वागियं कीर्त्तिता, राजत्वं जगतो यद्यद् राज्यं तदधुनाभवत्। अस्मत्प्रभोस्तदीयाभिषिक्तस्य तारकस्य च। तेन चानन्तकालीयं राजत्वं प्रकरिष्यते॥


ततः परं स्वर्गे महाचित्रं दृष्टं योषिदेकासीत् सा परिहितसूर्य्या चन्द्रश्च तस्याश्चरणयोरधो द्वादशताराणां किरीटञ्च शिरस्यासीत्।


ततः परं मन्दिरात् तान् सप्तदूतान् सम्भाषमाण एष महारवो मयाश्रावि, यूयं गत्वा तेभ्यः सप्तकंसेभ्य ईश्वरस्य क्रोधं पृथिव्यां स्रावयत।


तदनन्तरं तडितो रवाः स्तनितानि चाभवन्, यस्मिन् काले च पृथिव्यां मनुष्याः सृष्टास्तम् आरभ्य यादृङ्महाभूमिकम्पः कदापि नाभवत् तादृग् भूकम्पो ऽभवत्।


गगनमण्डलाच्च मनुष्याणाम् उपर्य्येकैकद्रोणपरिमितशिलानां महावृष्टिरभवत् तच्छिलावृष्टेः क्लेशात् मनुष्या ईश्वरम् अनिन्दम् यतस्तज्जातः क्लेशो ऽतीव महान्।


अनन्तरं मया मुक्तः स्वर्गो दृष्टः, एकः श्वेतवर्णो ऽश्वो ऽपि दृष्टस्तदारूढो जनो विश्वास्यः सत्यमयश्चेति नाम्ना ख्यातः स याथार्थ्येन विचारं युद्धञ्च करोति।


ततः परं मया दृष्टिपातं कृत्वा स्वर्गे मुक्तं द्वारम् एकं दृष्टं मया सहभाषमाणस्य च यस्य तूरीवाद्यतुल्यो रवः पूर्व्वं श्रुतः स माम् अवोचत् स्थानमेतद् आरोहय, इतः परं येन येन भवितव्यं तदहं त्वां दर्शयिष्ये।


तस्य सिंहासनस्य मध्यात् तडितो रवाः स्तनितानि च निर्गच्छन्ति सिंहासनस्यान्तिके च सप्त दीपा ज्वलन्ति त ईश्वरस्य सप्तात्मानः।


तत्कारणात् त ईश्वरस्य सिंहासनस्यान्तिके तिष्ठन्तो दिवारात्रं तस्य मन्दिरे तं सेवन्ते सिंहासनोपविष्टो जनश्च तान् अधिस्थास्यति।


पश्चात् स दूतो धूपाधारं गृहीत्वा वेद्या वह्निना पूरयित्वा पृथिव्यां निक्षिप्तवान् तेन रवा मेघगर्ज्जनानि विद्युतो भूमिकम्पश्चाभवन्।


प्रथमेन तूर्य्यां वादितायां रक्तमिश्रितौ शिलावह्नी सम्भूय पृथिव्यां निक्षिप्तौ तेन पृथिव्यास्तृतीयांशो दग्धः, तरूणामपि तृतीयांशो दग्धः, हरिद्वर्णतृणानि च सर्व्वाणि दग्धानि।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos