Biblia Todo Logo
La Biblia Online

- Anuncios -




फिलिप्पियों 2:22 - सत्यवेदः। Sanskrit NT in Devanagari

22 किन्तु तस्य परीक्षितत्वं युष्माभि र्ज्ञायते यतः पुत्रो यादृक् पितुः सहकारी भवति तथैव सुसंवादस्य परिचर्य्यायां स मम सहकारी जातः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 কিন্তু তস্য পৰীক্ষিতৎৱং যুষ্মাভি ৰ্জ্ঞাযতে যতঃ পুত্ৰো যাদৃক্ পিতুঃ সহকাৰী ভৱতি তথৈৱ সুসংৱাদস্য পৰিচৰ্য্যাযাং স মম সহকাৰী জাতঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 কিন্তু তস্য পরীক্ষিতৎৱং যুষ্মাভি র্জ্ঞাযতে যতঃ পুত্রো যাদৃক্ পিতুঃ সহকারী ভৱতি তথৈৱ সুসংৱাদস্য পরিচর্য্যাযাং স মম সহকারী জাতঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ကိန္တု တသျ ပရီက္ၐိတတွံ ယုၐ္မာဘိ ရ္ဇ္ဉာယတေ ယတး ပုတြော ယာဒၖက် ပိတုး သဟကာရီ ဘဝတိ တထဲဝ သုသံဝါဒသျ ပရိစရျျာယာံ သ မမ သဟကာရီ ဇာတး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 kintu tasya parIkSitatvaM yuSmAbhi rjnjAyatE yataH putrO yAdRk pituH sahakArI bhavati tathaiva susaMvAdasya paricaryyAyAM sa mama sahakArI jAtaH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

22 કિન્તુ તસ્ય પરીક્ષિતત્વં યુષ્માભિ ર્જ્ઞાયતે યતઃ પુત્રો યાદૃક્ પિતુઃ સહકારી ભવતિ તથૈવ સુસંવાદસ્ય પરિચર્ય્યાયાં સ મમ સહકારી જાતઃ|

Ver Capítulo Copiar




फिलिप्पियों 2:22
20 Referencias Cruzadas  

स जनो लुस्त्रा-इकनियनगरस्थानां भ्रातृणां समीपेपि सुख्यातिमान् आसीत्।


धैर्य्याच्च परीक्षितत्वं जायते, परीक्षितत्वात् प्रत्याशा जायते,


तिमथि र्यदि युष्माकं समीपम् आगच्छेत् तर्हि येन निर्भयं युष्मन्मध्ये वर्त्तेत तत्र युष्माभि र्मनो निधीयतां यस्माद् अहं यादृक् सोऽपि तादृक् प्रभोः कर्म्मणे यतते।


इत्यर्थं सर्व्वेषु धर्म्मसमाजेषु सर्व्वत्र ख्रीष्टधर्म्मयोग्या ये विधयो मयोपदिश्यन्ते तान् यो युष्मान् स्मारयिष्यत्येवम्भूतं प्रभोः कृते प्रियं विश्वासिनञ्च मदीयतनयं तीमथियं युष्माकं समीपं प्रेषितवानहं।


यूयं सर्व्वकर्म्मणि ममादेशं गृह्लीथ न वेति परीक्षितुम् अहं युष्मान् प्रति लिखितवान्।


ताभ्यां सहापर एको यो भ्रातास्माभिः प्रेषितः सोऽस्माभि र्बहुविषयेषु बहवारान् परीक्षित उद्योगीव प्रकाशितश्च किन्त्वधुना युष्मासु दृढविश्वासात् तस्योत्साहो बहु ववृधे।


अतो हेतोः समितीनां समक्षं युष्मत्प्रेम्नोऽस्माकं श्लाघायाश्च प्रामाण्यं तान् प्रति युष्माभिः प्रकाशयितव्यं।


एतद् अहम् आज्ञया कथयामीति नहि किन्त्वन्येषाम् उत्साहकारणाद् युष्माकमपि प्रेम्नः सारल्यं परीक्षितुमिच्छता मयैतत् कथ्यते।


हे भ्रातरः, मां प्रति यद् यद् घटितं तेन सुसंवादप्रचारस्य बाधा नहि किन्तु वृद्धिरेव जाता तद् युष्मान् ज्ञापयितुं कामयेऽहं।


ये विरोधात् ख्रीष्टं घोषयन्ति ते पवित्रभावात् तन्न कुर्व्वन्तो मम बन्धनानि बहुतरक्लोशदायीनि कर्त्तुम् इच्छन्ति।


युष्माकं सुसंवादभागित्वकारणाद् ईश्वरं धन्यं वदामि।


युष्मान् सर्व्वान् अधि मम तादृशो भावो यथार्थो यतोऽहं कारावस्थायां प्रत्युत्तरकरणे सुसंवादस्य प्रामाण्यकरणे च युष्मान् सर्व्वान् मया सार्द्धम् एकानुग्रहस्य भागिनो मत्वा स्वहृदये धारयामि।


यः सत्यरूपेण युष्माकं हितं चिन्तयति तादृश एकभावस्तस्मादन्यः कोऽपि मम सन्निधौ नास्ति।


हे पुत्र तीमथिय त्वयि यानि भविष्यद्वाक्यानि पुरा कथितानि तदनुसाराद् अहम् एनमादेशं त्वयि समर्पयामि, तस्याभिप्रायोऽयं यत्त्वं तै र्वाक्यैरुत्तमयुद्धं करोषि


अस्माकं तात ईश्वरोऽस्माकं प्रभु र्यीशुख्रीष्टश्च त्वयि अनुग्रहं दयां शान्तिञ्च कुर्य्यास्तां।


एतानि वाक्यानि यदि त्वं भ्रातृन् ज्ञापयेस्तर्हि यीशुख्रीष्टस्योत्तम्ः परिचारको भविष्यसि यो विश्वासो हितोपदेशश्च त्वया गृहीतस्तदीयवाक्यैराप्यायिष्यसे च।


तात ईश्वरोऽस्माकं प्रभु र्यीशुख्रीष्टश्च त्वयि प्रसादं दयां शान्तिञ्च क्रियास्तां।


ममोपदेशः शिष्टताभिप्रायो विश्वासो र्धर्य्यं प्रेम सहिष्णुतोपद्रवः क्लेशा


मम त्रातुरीश्वरस्याज्ञया च तस्य घोषणं मयि समर्पितम् अभूत्। अस्माकं तात ईश्वरः परित्राता प्रभु र्यीशुख्रीष्टश्च तुभ्यम् अनुग्रहं दयां शान्तिञ्च वितरतु।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos