Biblia Todo Logo
La Biblia Online

- Anuncios -




फिलिप्पियों 2:14 - सत्यवेदः। Sanskrit NT in Devanagari

14 यूयं कलहविवादर्विजतम् आचारं कुर्व्वन्तोऽनिन्दनीया अकुटिला

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 যূযং কলহৱিৱাদৰ্ৱিজতম্ আচাৰং কুৰ্ৱ্ৱন্তোঽনিন্দনীযা অকুটিলা

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 যূযং কলহৱিৱাদর্ৱিজতম্ আচারং কুর্ৱ্ৱন্তোঽনিন্দনীযা অকুটিলা

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ယူယံ ကလဟဝိဝါဒရွိဇတမ် အာစာရံ ကုရွွန္တော'နိန္ဒနီယာ အကုဋိလာ

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 yUyaM kalahavivAdarvijatam AcAraM kurvvantO'nindanIyA akuTilA

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

14 યૂયં કલહવિવાદર્વિજતમ્ આચારં કુર્વ્વન્તોઽનિન્દનીયા અકુટિલા

Ver Capítulo Copiar




फिलिप्पियों 2:14
36 Referencias Cruzadas  

ततस्ते तं गृहीत्वा तेन क्षेत्रपतिना साकं वाग्युद्धं कुर्व्वन्तः कथयामासुः,


यद्येतत् तैल व्यक्रेष्यत तर्हि मुद्रापादशतत्रयादप्यधिकं तस्य प्राप्तमूल्यं दरिद्रलोकेभ्यो दातुमशक्ष्यत, कथामेतां कथयित्वा तया योषिता साकं वाचायुह्यन्।


अनन्तरं स शिष्यसमीपमेत्य तेषां चतुःपार्श्वे तैः सह बहुजनान् विवदमानान् अध्यापकांश्च दृष्टवान्;


तस्मात् कारणात् चण्डालानां पापिलोकानाञ्च सङ्गे यूयं कुतो भंग्ध्वे पिवथ चेति कथां कथयित्वा फिरूशिनोऽध्यापकाश्च तस्य शिष्यैः सह वाग्युद्धं कर्त्तुमारेभिरे।


पौलबर्णब्बौ तैः सह बहून् विचारान् विवादांश्च कृतवन्तौ, ततो मण्डलीयनोका एतस्याः कथायास्तत्त्वं ज्ञातुं यिरूशालम्नगरस्थान् प्रेरितान् प्राचीनांश्च प्रति पौलबर्णब्बाप्रभृतीन् कतिपयजनान् प्रेषयितुं निश्चयं कृतवन्तः।


इत्थं तयोरतिशयविरोधस्योपस्थितत्वात् तौ परस्परं पृथगभवतां ततो बर्णब्बा मार्कं गृहीत्वा पोतेन कुप्रोपद्वीपं गतवान्;


बहुविचारेषु जातषु पितर उत्थाय कथितवान्, हे भ्रातरो यथा भिन्नदेशीयलोका मम मुखात् सुसंवादं श्रुत्वा विश्वसन्ति तदर्थं बहुदिनात् पूर्व्वम् ईश्वरोस्माकं मध्ये मां वृत्वा नियुक्तवान्।


तस्मिन् समये शिष्याणां बाहुल्यात् प्रात्यहिकदानस्य विश्राणनै र्भिन्नदेशीयानां विधवास्त्रीगण उपेक्षिते सति इब्रीयलोकैः सहान्यदेशीयानां विवाद उपातिष्ठत्।


यदि भवितुं शक्यते तर्हि यथाशक्ति सर्व्वलोकैः सह निर्व्विरोधेन कालं यापयत।


यो जनोऽदृढविश्वासस्तं युष्माकं सङ्गिनं कुरुत किन्तु सन्देहविचारार्थं नहि।


हे भ्रातरो युष्मान् विनयेऽहं युष्माभि र्या शिक्षा लब्धा ताम् अतिक्रम्य ये विच्छेदान् विघ्नांश्च कुर्व्वन्ति तान् निश्चिनुत तेषां सङ्गं वर्जयत च।


तेषां केचिद् यथा वाक्कलहं कृतवन्तस्तत्कारणात् हन्त्रा विनाशिताश्च युष्माभिस्तद्वद् वाक्कलहो न क्रियतां।


अहं यदागमिष्यामि, तदा युष्मान् यादृशान् द्रष्टुं नेच्छामि तादृशान् द्रक्ष्यामि, यूयमपि मां यादृशं द्रष्टुं नेच्छथ तादृशं द्रक्ष्यथ, युष्मन्मध्ये विवाद ईर्ष्या क्रोधो विपक्षता परापवादः कर्णेजपनं दर्पः कलहश्चैते भविष्यन्ति;


किन्तु यूयं यदि परस्परं दंदश्यध्वे ऽशाश्यध्वे च तर्हि युष्माकम् एकोऽन्येन यन्न ग्रस्यते तत्र युष्माभिः सावधानै र्भवितव्यं।


दर्पः परस्परं निर्भर्त्सनं द्वेषश्चास्माभि र्न कर्त्तव्यानि।


विरोधाद् दर्पाद् वा किमपि मा कुरुत किन्तु नम्रतया स्वेभ्योऽपरान् विशिष्टान् मन्यध्वं।


स्वकर्म्महेतुना च प्रेम्ना तान् अतीवादृयध्वमिति मम प्रार्थना, यूयं परस्परं निर्व्विरोधा भवत।


अपरं कमपि प्रत्यनिष्टस्य फलम् अनिष्टं केनापि यन्न क्रियेत तदर्थं सावधाना भवत, किन्तु परस्परं सर्व्वान् मानवांश्च प्रति नित्यं हिताचारिणो भवत।


अपरञ्च सर्व्वैः सार्थम् एेक्यभावं यच्च विना परमेश्वरस्य दर्शनं केनापि न लप्स्यते तत् पवित्रत्वं चेष्टध्वं।


यतो मानवस्य क्रोध ईश्वरीयधर्म्मं न साधयति।


किन्तु युष्मदन्तःकरणमध्ये यदि तिक्तेर्ष्या विवादेच्छा च विद्यते तर्हि सत्यमतस्य विरुद्धं न श्लाघध्वं नचानृतं कथयत।


हे भ्रातरः, यूयं यद् दण्ड्या न भवेत तदर्थं परस्परं न ग्लायत, पश्यत विचारयिता द्वारसमीपे तिष्ठति।


स त्यजेद् दुष्टतामार्गं सत्क्रियाञ्च समाचरेत्। मृगयाणश्च शान्तिं स नित्यमेवानुधावतु।


कातरोक्तिं विना परस्परम् आतिथ्यं कृरुत।


ते वाक्कलहकारिणः स्वभाग्यनिन्दकाः स्वेच्छाचारिणो दर्पवादिमुखविशिष्टा लाभार्थं मनुष्यस्तावकाश्च सन्ति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos