Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 8:4 - सत्यवेदः। Sanskrit NT in Devanagari

4 ततो यीशुस्तं जगाद, अवधेहि कथामेतां कश्चिदपि मा ब्रूहि, किन्तु याजकस्य सन्निधिं गत्वा स्वात्मानं दर्शय मनुजेभ्यो निजनिरामयत्वं प्रमाणयितुं मूसानिरूपितं द्रव्यम् उत्सृज च।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 ততো যীশুস্তং জগাদ, অৱধেহি কথামেতাং কশ্চিদপি মা ব্ৰূহি, কিন্তু যাজকস্য সন্নিধিং গৎৱা স্ৱাত্মানং দৰ্শয মনুজেভ্যো নিজনিৰামযৎৱং প্ৰমাণযিতুং মূসানিৰূপিতং দ্ৰৱ্যম্ উৎসৃজ চ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 ততো যীশুস্তং জগাদ, অৱধেহি কথামেতাং কশ্চিদপি মা ব্রূহি, কিন্তু যাজকস্য সন্নিধিং গৎৱা স্ৱাত্মানং দর্শয মনুজেভ্যো নিজনিরামযৎৱং প্রমাণযিতুং মূসানিরূপিতং দ্রৱ্যম্ উৎসৃজ চ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 တတော ယီၑုသ္တံ ဇဂါဒ, အဝဓေဟိ ကထာမေတာံ ကၑ္စိဒပိ မာ ဗြူဟိ, ကိန္တု ယာဇကသျ သန္နိဓိံ ဂတွာ သွာတ္မာနံ ဒရ္ၑယ မနုဇေဘျော နိဇနိရာမယတွံ ပြမာဏယိတုံ မူသာနိရူပိတံ ဒြဝျမ် ဥတ္သၖဇ စ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 tatO yIzustaM jagAda, avadhEhi kathAmEtAM kazcidapi mA brUhi, kintu yAjakasya sannidhiM gatvA svAtmAnaM darzaya manujEbhyO nijanirAmayatvaM pramANayituM mUsAnirUpitaM dravyam utsRja ca|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 તતો યીશુસ્તં જગાદ, અવધેહિ કથામેતાં કશ્ચિદપિ મા બ્રૂહિ, કિન્તુ યાજકસ્ય સન્નિધિં ગત્વા સ્વાત્માનં દર્શય મનુજેભ્યો નિજનિરામયત્વં પ્રમાણયિતું મૂસાનિરૂપિતં દ્રવ્યમ્ ઉત્સૃજ ચ|

Ver Capítulo Copiar




मत्ती 8:4
31 Referencias Cruzadas  

यूयं मन्नामहेतोः शास्तृणां राज्ञाञ्च समक्षं तानन्यदेशिनश्चाधि साक्षित्वार्थमानेष्यध्वे।


पश्चात् स शिष्यानादिशत्, अहमभिषिक्तो यीशुरिति कथां कस्मैचिदपि यूयं मा कथयत।


ततः परम् अद्रेरवरोहणकाले यीशुस्तान् इत्यादिदेश, मनुजसुतस्य मृतानां मध्यादुत्थानं यावन्न जायते, तावत् युष्माभिरेतद्दर्शनं कस्मैचिदपि न कथयितव्यं।


तदानीं यीशुः प्रत्यवोचत्; ईदानीम् अनुमन्यस्व, यत इत्थं सर्व्वधर्म्मसाधनम् अस्माकं कर्त्तव्यं, ततः सोऽन्वमन्यत।


अहं व्यवस्थां भविष्यद्वाक्यञ्च लोप्तुम् आगतवान्, इत्थं मानुभवत, ते द्वे लोप्तुं नागतवान्, किन्तु सफले कर्त्तुम् आगतोस्मि।


सावधाना भवत, मनुजान् दर्शयितुं तेषां गोचरे धर्म्मकर्म्म मा कुरुत, तथा कृते युष्माकं स्वर्गस्थपितुः सकाशात् किञ्चन फलं न प्राप्स्यथ।


पश्चाद् यीशुस्तौ दृढमाज्ञाप्य जगाद, अवधत्तम् एतां कथां कोपि मनुजो म जानीयात्।


किन्तु यूयम् आत्मार्थे सावधानास्तिष्ठत, यतो लोका राजसभायां युष्मान् समर्पयिष्यन्ति, तथा भजनगृहे प्रहरिष्यन्ति; यूयं मदर्थे देशाधिपान् भूपांश्च प्रति साक्ष्यदानाय तेषां सम्मुखे उपस्थापयिष्यध्वे।


किन्तु स तान् दृढम् आज्ञाप्य स्वं परिचायितुं निषिद्धवान्।


तत एतस्यै किञ्चित् खाद्यं दत्तेति कथयित्वा एतत्कर्म्म कमपि न ज्ञापयतेति दृढमादिष्टवान्।


तत्र यदि केपि युष्माकमातिथ्यं न विदधति युष्माकं कथाश्च न शृण्वन्ति तर्हि तत्स्थानात् प्रस्थानसमये तेषां विरुद्धं साक्ष्यं दातुं स्वपादानास्फाल्य रजः सम्पातयत; अहं युष्मान् यथार्थं वच्मि विचारदिने तन्नगरस्यावस्थातः सिदोमामोरयो र्नगरयोरवस्था सह्यतरा भविष्यति।


अथ स तान् वाढमित्यादिदेश यूयमिमां कथां कस्मैचिदपि मा कथयत, किन्तु स यति न्यषेधत् ते तति बाहुल्येन प्राचारयन्;


ततः स तान् गाढमादिशद् यूयं मम कथा कस्मैचिदपि मा कथयत।


ततः परं गिरेरवरोहणकाले स तान् गाढम् दूत्यादिदेश यावन्नरसूनोः श्मशानादुत्थानं न भवति, तावत् दर्शनस्यास्य वार्त्ता युष्माभिः कस्मैचिदपि न वक्तव्या।


ततः स तान् दृष्ट्वा जगाद, यूयं याजकानां समीपे स्वान् दर्शयत, ततस्ते गच्छन्तो रोगात् परिष्कृताः।


साक्ष्यार्थम् एतानि युष्मान् प्रति घटिष्यन्ते।


ततो भूता बहुभ्यो निर्गत्य चीत्शब्दं कृत्वा च बभाषिरे त्वमीश्वरस्य पुत्रोऽभिषिक्तत्राता; किन्तु सोभिषिक्तत्रातेति ते विविदुरेतस्मात् कारणात् तान् तर्जयित्वा तद्वक्तुं निषिषेध।


पश्चात् स तमाज्ञापयामास कथामिमां कस्मैचिद् अकथयित्वा याजकस्य समीपञ्च गत्वा स्वं दर्शय, लोकेभ्यो निजपरिष्कृतत्वस्य प्रमाणदानाय मूसाज्ञानुसारेण द्रव्यमुत्मृजस्व च।


ततस्तस्याः पितरौ विस्मयं गतौ किन्तु स तावादिदेश घटनाया एतस्याः कथां कस्मैचिदपि मा कथयतं।


तदा स तान् दृढमादिदेश, कथामेतां कस्मैचिदपि मा कथयत।


अहं मानुषेभ्यः सत्कारं न गृह्लामि।


यो जनः स्वतः कथयति स स्वीयं गौरवम् ईहते किन्तु यः प्रेरयितु र्गौरवम् ईहते स सत्यवादी तस्मिन् कोप्यधर्म्मो नास्ति।


अहं स्वसुख्यातिं न चेष्टे किन्तु चेष्टिता विचारयिता चापर एक आस्ते।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos