Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 10:2 - सत्यवेदः। Sanskrit NT in Devanagari

2 तेषां द्वादशप्रेष्याणां नामान्येतानि। प्रथमं शिमोन् यं पितरं वदन्ति, ततः परं तस्य सहज आन्द्रियः, सिवदियस्य पुत्रो याकूब्

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 তেষাং দ্ৱাদশপ্ৰেষ্যাণাং নামান্যেতানি| প্ৰথমং শিমোন্ যং পিতৰং ৱদন্তি, ততঃ পৰং তস্য সহজ আন্দ্ৰিযঃ, সিৱদিযস্য পুত্ৰো যাকূব্

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 তেষাং দ্ৱাদশপ্রেষ্যাণাং নামান্যেতানি| প্রথমং শিমোন্ যং পিতরং ৱদন্তি, ততঃ পরং তস্য সহজ আন্দ্রিযঃ, সিৱদিযস্য পুত্রো যাকূব্

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 တေၐာံ ဒွါဒၑပြေၐျာဏာံ နာမာနျေတာနိ၊ ပြထမံ ၑိမောန် ယံ ပိတရံ ဝဒန္တိ, တတး ပရံ တသျ သဟဇ အာန္ဒြိယး, သိဝဒိယသျ ပုတြော ယာကူဗ္

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 tESAM dvAdazaprESyANAM nAmAnyEtAni| prathamaM zimOn yaM pitaraM vadanti, tataH paraM tasya sahaja AndriyaH, sivadiyasya putrO yAkUb

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

2 તેષાં દ્વાદશપ્રેષ્યાણાં નામાન્યેતાનિ| પ્રથમં શિમોન્ યં પિતરં વદન્તિ, તતઃ પરં તસ્ય સહજ આન્દ્રિયઃ, સિવદિયસ્ય પુત્રો યાકૂબ્

Ver Capítulo Copiar




मत्ती 10:2
44 Referencias Cruzadas  

अनन्तरं षड्दिनेभ्यः परं यीशुः पितरं याकूबं तत्सहजं योहनञ्च गृह्लन् उच्चाद्रे र्विविक्तस्थानम् आगत्य तेषां समक्षं रूपमन्यत् दधार।


तदानीं सिवदीयस्य नारी स्वपुत्रावादाय यीशोः समीपम् एत्य प्रणम्य कञ्चनानुग्रहं तं ययाचे।


पश्चात् स पितरं सिवदियसुतौ च सङ्गिनः कृत्वा गतवान्, शोकाकुलोऽतीव व्यथितश्च बभूव।


ततः परं यीशु र्गालीलो जलधेस्तटेन गच्छन् गच्छन् आन्द्रियस्तस्य भ्राता शिमोन् अर्थतो यं पितरं वदन्ति एतावुभौ जलघौ जालं क्षिपन्तौ ददर्श, यतस्तौ मीनधारिणावास्ताम्।


अनन्तरं तस्मात् स्थानात् व्रजन् व्रजन् सिवदियस्य सुतौ याकूब् योहन्नामानौ द्वौ सहजौ तातेन सार्द्धं नौकोपरि जालस्य जीर्णोद्धारं कुर्व्वन्तौ वीक्ष्य तावाहूतवान्।


अपरञ्च ते भजनगृहाद् बहि र्भूत्वा याकूब्योहन्भ्यां सह शिमोन आन्द्रियस्य च निवेशनं प्रविविशुः।


अथ यस्मिन् काले जैतुन्गिरौ मन्दिरस्य सम्मुखे स समुपविष्टस्तस्मिन् काले पितरो याकूब् योहन् आन्द्रियश्चैते तं रहसि पप्रच्छुः,


अथ प्रेषिता यीशोः सन्निधौ मिलिता यद् यच् चक्रुः शिक्षयामासुश्च तत्सर्व्ववार्त्तास्तस्मै कथितवन्तः।


अतएव ईश्वरस्य शास्त्रे प्रोक्तमस्ति तेषामन्तिके भविष्यद्वादिनः प्रेरितांश्च प्रेषयिष्यामि ततस्ते तेषां कांश्चन हनिष्यन्ति कांश्चन ताडश्ष्यिन्ति।


अथ काल उपस्थिते यीशु र्द्वादशभिः प्रेरितैः सह भोक्तुमुपविश्य कथितवान्


यीशुः पितरं योहनञ्चाहूय जगाद, युवां गत्वास्माकं भोजनार्थं निस्तारोत्सवस्य द्रव्याण्यासादयतं।


तदा यीशुः शिमोनं जगाद मा भैषीरद्यारभ्य त्वं मनुष्यधरो भविष्यसि।


अनन्तरं प्रेरिताः प्रत्यागत्य यानि यानि कर्म्माणि चक्रुस्तानि यीशवे कथयामासुः ततः स तान् बैत्सैदानामकनगरस्य विजनं स्थानं नीत्वा गुप्तं जगाम।


ततः फिलिपो गत्वा आन्द्रियम् अवदत् पश्चाद् आन्द्रियफिलिपौ यीशवे वार्त्ताम् अकथयतां।


तस्मिन् समये यीशु र्यस्मिन् अप्रीयत स शिष्यस्तस्य वक्षःस्थलम् अवालम्बत।


पश्चाद् धावित्वा शिमोन्पितराय यीशोः प्रियतमशिष्याय चेदम् अकथयत्, लोकाः श्मशानात् प्रभुं नीत्वा कुत्रास्थापयन् तद् वक्तुं न शक्नोमि।


शिमोन्पितरः यमजथोमा गालीलीयकान्नानगरनिवासी निथनेल् सिवदेः पुत्रावन्यौ द्वौ शिष्यौ चैतेष्वेकत्र मिलितेषु शिमोन्पितरोऽकथयत् मत्स्यान् धर्तुं यामि।


यो जनो रात्रिकाले यीशो र्वक्षोऽवलम्ब्य, हे प्रभो को भवन्तं परकरेषु समर्पयिष्यतीति वाक्यं पृष्टवान्, तं यीशोः प्रियतमशिष्यं पश्चाद् आगच्छन्तं


यो जन एतानि सर्व्वाणि लिखितवान् अत्र साक्ष्यञ्च दत्तवान् सएव स शिष्यः, तस्य साक्ष्यं प्रमाणमिति वयं जानीमः।


तदा यीशु र्द्वादशशिष्यान् उक्त्तवान् यूयमपि किं यास्यथ?


तदा यीशुरवदत् किमहं युष्माकं द्वादशजनान् मनोनीतान् न कृतवान्? किन्तु युष्माकं मध्येपि कश्चिदेको विघ्नकारी विद्यते।


इमां कथं स शिमोनः पुत्रम् ईष्करीयोतीयं यिहूदाम् उद्दिश्य कथितवान् यतो द्वादशानां मध्ये गणितः स तं परकरेषु समर्पयिष्यति।


शिमोन् पितरस्य भ्राता आन्द्रियाख्यः शिष्याणामेको व्याहृतवान्


नगरं प्रविश्य पितरो याकूब् योहन् आन्द्रियः फिलिपः थोमा बर्थजमयो मथिराल्फीयपुत्रो याकूब् उद्योगाी शिमोन् याकूबो भ्राता यिहूदा एते सर्व्वे यत्र स्थाने प्रवसन्ति तस्मिन् उपरितनप्रकोष्ठे प्राविशन्।


ततो गुटिकापाटे कृते मतथिर्निरचीयत तस्मात् सोन्येषाम् एकादशानां प्ररितानां मध्ये गणितोभवत्।


विशेषतो योहनः सोदरं याकूबं करवालाघातेन् हतवान्।


तृतीययामवेलायां सत्यां प्रार्थनायाः समये पितरयोहनौ सम्भूय मन्दिरं गच्छतः।


तदनन्तरं याकूबाय तत्पश्चात् सर्व्वेभ्यः प्रेरितेभ्यो दर्शनं दत्तवान्।


स एव च कांश्चन प्रेरितान् अपरान् भविष्यद्वादिनोऽपरान् सुसंवादप्रचारकान् अपरान् पालकान् उपदेशकांश्च नियुक्तवान्।


हे स्वर्गीयस्याह्वानस्य सहभागिनः पवित्रभ्रातरः, अस्माकं धर्म्मप्रतिज्ञाया दूतोऽग्रसरश्च यो यीशुस्तम् आलोचध्वं।


पन्त-गालातिया-कप्पदकिया-आशिया-बिथुनियादेशेषु प्रवासिनो ये विकीर्णलोकाः


ये जना अस्माभिः सार्द्धम् अस्तदीश्वरे त्रातरि यीशुख्रीष्टे च पुण्यसम्बलितविश्वासधनस्य समानांशित्वं प्राप्तास्तान् प्रति यीशुख्रीष्टस्य दासः प्रेरितश्च शिमोन् पितरः पत्रं लिखति।


हे अभिरुचिते कुरिये, त्वां तव पुत्रांश्च प्रति प्राचीनोऽहं पत्रं लिखामि।


प्राचीनो ऽहं सत्यमताद् यस्मिन् प्रीये तं प्रियतमं गायं प्रति पत्रं लिखामि।


यत् प्रकाशितं वाक्यम् ईश्वरः स्वदासानां निकटं शीघ्रमुपस्थास्यन्तीनां घटनानां दर्शनार्थं यीशुख्रीष्टे समर्पितवान् तत् स स्वीयदूतं प्रेष्य निजसेवकं योहनं ज्ञापितवान्।


युष्माकं भ्राता यीशुख्रीष्टस्य क्लेशराज्यतितिक्षाणां सहभागी चाहं योहन् ईश्वरस्य वाक्यहेतो र्यीशुख्रीष्टस्य साक्ष्यहेतोश्च पात्मनामक उपद्वीप आसं।


हे स्वर्गवासिनः सर्व्वे पवित्राः प्रेरिताश्च हे। हे भाविवादिनो यूयं कृते तस्याः प्रहर्षत। युष्माकं यत् तया सार्द्धं यो विवादः पुराभवत्। दण्डं समुचितं तस्य तस्यै व्यतरदीश्वरः॥


योहनहम् एतानि श्रुतवान् दृष्टवांश्चास्मि श्रुत्वा दृष्ट्वा च तद्दर्शकदूतस्य प्रणामार्थं तच्चरणयोरन्तिके ऽपतं।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos