Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 22:70 - सत्यवेदः। Sanskrit NT in Devanagari

70 ततस्ते पप्रच्छुः, र्तिह त्वमीश्वरस्य पुत्रः? स कथयामास, यूयं यथार्थं वदथ स एवाहं।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

70 ততস্তে পপ্ৰচ্ছুঃ, ৰ্তিহ ৎৱমীশ্ৱৰস্য পুত্ৰঃ? স কথযামাস, যূযং যথাৰ্থং ৱদথ স এৱাহং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

70 ততস্তে পপ্রচ্ছুঃ, র্তিহ ৎৱমীশ্ৱরস্য পুত্রঃ? স কথযামাস, যূযং যথার্থং ৱদথ স এৱাহং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

70 တတသ္တေ ပပြစ္ဆုး, ရ္တိဟ တွမီၑွရသျ ပုတြး? သ ကထယာမာသ, ယူယံ ယထာရ္ထံ ဝဒထ သ ဧဝါဟံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

70 tatastE papracchuH, rtiha tvamIzvarasya putraH? sa kathayAmAsa, yUyaM yathArthaM vadatha sa EvAhaM|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

70 તતસ્તે પપ્રચ્છુઃ, ર્તિહ ત્વમીશ્વરસ્ય પુત્રઃ? સ કથયામાસ, યૂયં યથાર્થં વદથ સ એવાહં|

Ver Capítulo Copiar




लूका 22:70
20 Referencias Cruzadas  

तदा यिहूदानामा यो जनस्तं परकरेषु समर्पयिष्यति, स उक्तवान्, हे गुरो, स किमहं? ततः स प्रत्युक्तवान्, त्वया सत्यं गदितम्।


यीशुः प्रत्यवदत्, त्वं सत्यमुक्तवान्; अहं युष्मान् तथ्यं वदामि, इतःपरं मनुजसुतं सर्व्वशक्तिमतो दक्षिणपार्श्वे स्थातुं गगणस्थं जलधरानारुह्यायान्तं वीक्षध्वे।


अनन्तरं यीशौ तदधिपतेः सम्मुख उपतिष्ठति स तं पप्रच्छ, त्वं किं यिहूदीयानां राजा? तदा यीशुस्तमवदत्, त्वं सत्यमुक्तवान्।


स ईश्वरे प्रत्याशामकरोत्, यदीश्वरस्तस्मिन् सन्तुष्टस्तर्हीदानीमेव तमवेत्, यतः स उक्तवान् अहमीश्वरसुतः।


यीशुरक्षणाय नियुक्तः शतसेनापतिस्तत्सङ्गिनश्च तादृशीं भूकम्पादिघटनां दृष्ट्वा भीता अवदन्, एष ईश्वरपुत्रो भवति।


अपरम् एष मम प्रियः पुत्र एतस्मिन्नेव मम महासन्तोष एतादृशी व्योमजा वाग् बभूव।


तदानीं परीक्षिता तत्समीपम् आगत्य व्याहृतवान्, यदि त्वमीश्वरात्मजो भवेस्तर्ह्याज्ञया पाषाणानेतान् पूपान् विधेहि।


तदा यीशुस्तं प्रोवाच भवाम्यहम् यूयञ्च सर्व्वशक्तिमतो दक्षीणपार्श्वे समुपविशन्तं मेघ मारुह्य समायान्तञ्च मनुष्यपुत्रं सन्द्रक्ष्यथ।


तदा पीलातस्तं पृष्टवान् त्वं किं यिहूदीयलोकानां राजा? ततः स प्रत्युक्तवान् सत्यं वदसि।


तदा ते सर्व्वे कथयामासुः, र्तिह साक्ष्येऽन्सस्मिन् अस्माकं किं प्रयोजनं? अस्य स्वमुखादेव साक्ष्यं प्राप्तम्।


तदा पीलातस्तं पृष्टवान् त्वं किं यिहूदीयानां राजा? स प्रत्युवाच त्वं सत्यमुक्तवान्।


ततो भूता बहुभ्यो निर्गत्य चीत्शब्दं कृत्वा च बभाषिरे त्वमीश्वरस्य पुत्रोऽभिषिक्तत्राता; किन्तु सोभिषिक्तत्रातेति ते विविदुरेतस्मात् कारणात् तान् तर्जयित्वा तद्वक्तुं निषिषेध।


अवस्तन्निरीक्ष्यायम् ईश्वरस्य तनय इति प्रमाणं ददामि।


निथनेल् अचकथत्, हे गुरो भवान् नितान्तम् ईश्वरस्य पुत्रोसि, भवान् इस्रायेल्वंशस्य राजा।


अहं पिता च द्वयोरेकत्वम्।


तर्ह्याहम् ईश्वरस्य पुत्र इति वाक्यस्य कथनात् यूयं पित्राभिषिक्तं जगति प्रेरितञ्च पुमांसं कथम् ईश्वरनिन्दकं वादय?


तदा पीलातः कथितवान्, तर्हि त्वं राजा भवसि? यीशुः प्रत्युक्तवान् त्वं सत्यं कथयसि, राजाहं भवामि; सत्यतायां साक्ष्यं दातुं जनिं गृहीत्वा जगत्यस्मिन् अवतीर्णवान्, तस्मात् सत्यधर्म्मपक्षपातिनो मम कथां शृण्वन्ति।


यिहूदीयाः प्रत्यवदन् अस्माकं या व्यवस्थास्ते तदनुसारेणास्य प्राणहननम् उचितं यतोयं स्वम् ईश्वरस्य पुत्रमवदत्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos