Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 7:28 - सत्यवेदः। Sanskrit NT in Devanagari

28 तदा यीशु र्मध्येमन्दिरम् उपदिशन् उच्चैःकारम् उक्त्तवान् यूयं किं मां जानीथ? कस्माच्चागतोस्मि तदपि किं जानीथ? नाहं स्वत आगतोस्मि किन्तु यः सत्यवादी सएव मां प्रेषितवान् यूयं तं न जानीथ।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 তদা যীশু ৰ্মধ্যেমন্দিৰম্ উপদিশন্ উচ্চৈঃকাৰম্ উক্ত্তৱান্ যূযং কিং মাং জানীথ? কস্মাচ্চাগতোস্মি তদপি কিং জানীথ? নাহং স্ৱত আগতোস্মি কিন্তু যঃ সত্যৱাদী সএৱ মাং প্ৰেষিতৱান্ যূযং তং ন জানীথ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 তদা যীশু র্মধ্যেমন্দিরম্ উপদিশন্ উচ্চৈঃকারম্ উক্ত্তৱান্ যূযং কিং মাং জানীথ? কস্মাচ্চাগতোস্মি তদপি কিং জানীথ? নাহং স্ৱত আগতোস্মি কিন্তু যঃ সত্যৱাদী সএৱ মাং প্রেষিতৱান্ যূযং তং ন জানীথ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 တဒါ ယီၑု ရ္မဓျေမန္ဒိရမ် ဥပဒိၑန် ဥစ္စဲးကာရမ် ဥက္တ္တဝါန် ယူယံ ကိံ မာံ ဇာနီထ? ကသ္မာစ္စာဂတောသ္မိ တဒပိ ကိံ ဇာနီထ? နာဟံ သွတ အာဂတောသ္မိ ကိန္တု ယး သတျဝါဒီ သဧဝ မာံ ပြေၐိတဝါန် ယူယံ တံ န ဇာနီထ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 tadA yIzu rmadhyEmandiram upadizan uccaiHkAram ukttavAn yUyaM kiM mAM jAnItha? kasmAccAgatOsmi tadapi kiM jAnItha? nAhaM svata AgatOsmi kintu yaH satyavAdI saEva mAM prESitavAn yUyaM taM na jAnItha|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

28 તદા યીશુ ર્મધ્યેમન્દિરમ્ ઉપદિશન્ ઉચ્ચૈઃકારમ્ ઉક્ત્તવાન્ યૂયં કિં માં જાનીથ? કસ્માચ્ચાગતોસ્મિ તદપિ કિં જાનીથ? નાહં સ્વત આગતોસ્મિ કિન્તુ યઃ સત્યવાદી સએવ માં પ્રેષિતવાન્ યૂયં તં ન જાનીથ|

Ver Capítulo Copiar




योहन 7:28
46 Referencias Cruzadas  

पित्रा मयि सर्व्वाणि समर्पितानि, पितरं विना कोपि पुत्रं न जानाति, यान् प्रति पुत्रेण पिता प्रकाश्यते तान् विना पुत्राद् अन्यः कोपि पितरं न जानाति।


तेन तं नासरतीयं कथयिष्यन्ति, यदेतद्वाक्यं भविष्यद्वादिभिरुक्त्तं तत् सफलमभवत्।


तदानीं यीशु र्जननिवहं जगाद, यूयं खड्गयष्टीन् आदाय मां किं चौरं धर्त्तुमायाताः? अहं प्रत्यहं युष्माभिः साकमुपविश्य समुपादिशं, तदा मां नाधरत;


पित्रा सर्व्वाणि मयि समर्पितानि पितरं विना कोपि पुत्रं न जानाति किञ्च पुत्रं विना यस्मै जनाय पुत्रस्तं प्रकाशितवान् तञ्च विना कोपि पितरं न जानाति।


सर्व्वेषां लोकानां महानन्दजनकम् इमं मङ्गलवृत्तान्तं युष्मान् ज्ञापयामि।


इत्थं परमेश्वरस्य व्यवस्थानुसारेण सर्व्वेषु कर्म्मसु कृतेषु तौ पुनश्च गालीलो नासरत्नामकं निजनगरं प्रतस्थाते।


तदानीं यूषफ् नाम लेखितुं वाग्दत्तया स्वभार्य्यया गर्ब्भवत्या मरियमा सह स्वयं दायूदः सजातिवंश इति कारणाद् गालील्प्रदेशस्य नासरत्नगराद्


ततः परं स ताभ्यां सह नासरतं गत्वा तयोर्वशीभूतस्तस्थौ किन्तु सर्व्वा एताः कथास्तस्य माता मनसि स्थापयामास।


तदा निथनेल् कथितवान् नासरन्नगरात किं कश्चिदुत्तम उत्पन्तुं शक्नोति? ततः फिलिपो ऽवोचत् एत्य पश्य।


तर्ह्याहम् ईश्वरस्य पुत्र इति वाक्यस्य कथनात् यूयं पित्राभिषिक्तं जगति प्रेरितञ्च पुमांसं कथम् ईश्वरनिन्दकं वादय?


यतो हेतोरहं स्वतः किमपि न कथयामि, किं किं मया कथयितव्यं किं समुपदेष्टव्यञ्च इति मत्प्रेरयिता पिता मामाज्ञापयत्।


अहं पितरि तिष्ठामि पिता मयि तिष्ठतीति किं त्वं न प्रत्यषि? अहं यद्वाक्यं वदामि तत् स्वतो न वदामि किन्तु यः पिता मयि विराजते स एव सर्व्वकर्म्माणि कराति।


अहं पितरि प्रेम करोमि तथा पितु र्विधिवत् कर्म्माणि करोमीति येन जगतो लोका जानन्ति तदर्थम् उत्तिष्ठत वयं स्थानादस्माद् गच्छाम।


ते पितरं माञ्च न जानन्ति, तस्माद् युष्मान् प्रतीदृशम् आचरिष्यन्ति।


हे यथार्थिक पित र्जगतो लोकैस्त्वय्यज्ञातेपि त्वामहं जाने त्वं मां प्रेरितवान् इतीमे शिष्या जानन्ति।


यस्त्वम् अद्वितीयः सत्य ईश्वरस्त्वया प्रेरितश्च यीशुः ख्रीष्ट एतयोरुभयोः परिचये प्राप्तेऽनन्तायु र्भवति।


यीशौरभ्यर्णम् आव्रज्य व्याहार्षीत्, हे गुरो भवान् ईश्वराद् आगत् एक उपदेष्टा, एतद् अस्माभिर्ज्ञायते; यतो भवता यान्याश्चर्य्यकर्म्माणि क्रियन्ते परमेश्वरस्य साहाय्यं विना केनापि तत्तत्कर्म्माणि कर्त्तुं न शक्यन्ते।


किन्तु यो गृह्लाति स ईश्वरस्य सत्यवादित्वं मुद्राङ्गितं करोति।


किन्तु मदर्थेऽपरो जनः साक्ष्यं ददाति मदर्थे तस्य यत् साक्ष्यं तत् सत्यम् एतदप्यहं जानामि।


अहं निजपितु र्नाम्नागतोस्मि तथापि मां न गृह्लीथ किन्तु कश्चिद् यदि स्वनाम्ना समागमिष्यति तर्हि तं ग्रहीष्यथ।


यूषफः पुत्रो यीशु र्यस्य मातापितरौ वयं जानीम एष किं सएव न? तर्हि स्वर्गाद् अवारोहम् इति वाक्यं कथं वक्त्ति?


ततः परम् उत्सवस्य मध्यसमये यीशु र्मन्दिरं गत्वा समुपदिशति स्म।


तदा यीशुः प्रत्युदितवान् यद्यपि स्वार्थेऽहं स्वयं साक्ष्यं ददामि तथापि मत् साक्ष्यं ग्राह्यं यस्माद् अहं कुत आगतोस्मि क्व यामि च तदहं जानामि किन्तु कुत आगतोस्मि कुत्र गच्छामि च तद् यूयं न जानीथ।


किन्तु यदि विचारयामि तर्हि मम विचारो ग्रहीतव्यो यतोहम् एकाकी नास्मि प्रेरयिता पिता मया सह विद्यते।


तदा तेऽपृच्छन् तव तातः कुत्र? ततो यीशुः प्रत्यवादीद् यूयं मां न जानीथ मत्पितरञ्च न जानीथ यदि माम् अक्षास्यत तर्हि मम तातमप्यक्षास्यत।


युष्मासु मया बहुवाक्यं वक्त्तव्यं विचारयितव्यञ्च किन्तु मत्प्रेरयिता सत्यवादी तस्य समीपे यदहं श्रुतवान् तदेव जगते कथयामि।


ततो यीशुना कथितम् ईश्वरो यदि युष्माकं तातोभविष्यत् तर्हि यूयं मयि प्रेमाकरिष्यत यतोहम् ईश्वरान्निर्गत्यागतोस्मि स्वतो नागतोहं स मां प्राहिणोत्।


मूसावक्त्रेणेश्वरो जगाद तज्जानीमः किन्त्वेष कुत्रत्यलोक इति न जानीमः।


यतः पर्य्यटनकाले युष्माकं पूजनीयानि पश्यन् ‘अविज्ञातेश्वराय’ एतल्लिपियुक्तां यज्ञवेदीमेकां दृष्टवान्; अतो न विदित्वा यं पूजयध्वे तस्यैव तत्वं युष्मान् प्रति प्रचारयामि।


ते स्वेषां मनःस्वीश्वराय स्थानं दातुम् अनिच्छुकास्ततो हेतोरीश्वरस्तान् प्रति दुष्टमनस्कत्वम् अविहितक्रियत्वञ्च दत्तवान्।


केनापि प्रकारेण नहि। यद्यपि सर्व्वे मनुष्या मिथ्यावादिनस्तथापीश्वरः सत्यवादी। शास्त्रे यथा लिखितमास्ते, अतस्त्वन्तु स्ववाक्येन निर्द्दोषो हि भविष्यसि। विचारे चैव निष्पापो भविष्यसि न संशयः।


युष्मान् प्रति मया कथितानि वाक्यान्यग्रे स्वीकृतानि शेषेऽस्वीकृतानि नाभवन् एतेनेश्वरस्य विश्वस्तता प्रकाशते।


य ईश्वरो मध्येतिमिरं प्रभां दीपनायादिशत् स यीशुख्रीष्टस्यास्य ईश्वरीयतेजसो ज्ञानप्रभाया उदयार्थम् अस्माकम् अन्तःकरणेषु दीपितवान्।


यीशुख्रीष्टस्य प्रेरित ईश्वरस्य दासः पौलोऽहं साधारणविश्वासात् मम प्रकृतं धर्म्मपुत्रं तीतं प्रति लिखमि।


अतएव यस्मिन् अनृतकथनम् ईश्वरस्य न साध्यं तादृशेनाचलेन विषयद्वयेन सम्मुखस्थरक्षास्थलस्य प्राप्तये पलायितानाम् अस्माकं सुदृढा सान्त्वना जायते।


ईश्वरस्य पुत्रे यो विश्वासिति स निजान्तरे तत् साक्ष्यं धारयति; ईश्वरे यो न विश्वसिति स तम् अनृतवादिनं करोति यत ईश्वरः स्वपुत्रमधि यत् साक्ष्यं दत्तवान् तस्मिन् स न विश्वसिति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos