Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 4:48 - सत्यवेदः। Sanskrit NT in Devanagari

48 तदा यीशुरकथयद् आश्चर्य्यं कर्म्म चित्रं चिह्नं च न दृष्टा यूयं न प्रत्येष्यथ।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

48 তদা যীশুৰকথযদ্ আশ্চৰ্য্যং কৰ্ম্ম চিত্ৰং চিহ্নং চ ন দৃষ্টা যূযং ন প্ৰত্যেষ্যথ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

48 তদা যীশুরকথযদ্ আশ্চর্য্যং কর্ম্ম চিত্রং চিহ্নং চ ন দৃষ্টা যূযং ন প্রত্যেষ্যথ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

48 တဒါ ယီၑုရကထယဒ် အာၑ္စရျျံ ကရ္မ္မ စိတြံ စိဟ္နံ စ န ဒၖၐ္ဋာ ယူယံ န ပြတျေၐျထ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

48 tadA yIzurakathayad AzcaryyaM karmma citraM cihnaM ca na dRSTA yUyaM na pratyESyatha|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

48 તદા યીશુરકથયદ્ આશ્ચર્ય્યં કર્મ્મ ચિત્રં ચિહ્નં ચ ન દૃષ્ટા યૂયં ન પ્રત્યેષ્યથ|

Ver Capítulo Copiar




योहन 4:48
29 Referencias Cruzadas  

तदानीं फिरूशिनः सिदूकिनश्चागत्य तं परीक्षितुं नभमीयं किञ्चन लक्ष्म दर्शयितुं तस्मै निवेदयामासुः।


यतो भाक्तख्रीष्टा भाक्तभविष्यद्वादिनश्च उपस्थाय यानि महन्ति लक्ष्माणि चित्रकर्म्माणि च प्रकाशयिष्यन्ति, तै र्यदि सम्भवेत् तर्हि मनोनीतमानवा अपि भ्रामिष्यन्ते।


सोऽन्यजनानावत्, किन्तु स्वमवितुं न शक्नोति। यदीस्रायेलो राजा भवेत्, तर्हीदानीमेव क्रुशादवरोहतु, तेन तं वयं प्रत्येष्यामः।


यतोनेके मिथ्याख्रीष्टा मिथ्याभविष्यद्वादिनश्च समुपस्थाय बहूनि चिह्नान्यद्भुतानि कर्म्माणि च दर्शयिष्यन्ति; तथा यदि सम्भवति तर्हि मनोनीतलोकानामपि मिथ्यामतिं जनयिष्यन्ति।


तदानीं स तान् जगाद, विद्युतमिव स्वर्गात् पतन्तं शैतानम् अदर्शम्।


तत इब्राहीम् जगाद, ते यदि मूसाभविष्यद्वादिनाञ्च वचनानि न मन्यन्ते तर्हि मृतलोकानां कस्मिंश्चिद् उत्थितेपि ते तस्य मन्त्रणां न मंस्यन्ते।


यद्यपि यीशुस्तेषां समक्षम् एतावदाश्चर्य्यकर्म्माणि कृतवान् तथापि ते तस्मिन् न व्यश्वसन्।


यादृशानि कर्म्माणि केनापि कदापि नाक्रियन्त तादृशानि कर्म्माणि यदि तेषां साक्षाद् अहं नाकरिष्यं तर्हि तेषां पापं नाभविष्यत् किन्त्वधुना ते दृष्ट्वापि मां मम पितरञ्चार्त्तीयन्त।


ततः परम् यिहूदीयलोका यीषिमवदन् तवमिदृशकर्म्मकरणात् किं चिह्नमस्मान् दर्शयसि?


यीशुरकथयत्, हे थोमा मां निरीक्ष्य विश्वसिषि ये न दृष्ट्वा विश्वसन्ति तएव धन्याः।


ततः स सभासदवदत् हे महेच्छ मम पुत्रे न मृते भवानागच्छतु।


अतः स्वानुग्रहकथायाः प्रमाणं दत्वा तयो र्हस्तै र्बहुलक्षणम् अद्भुतकर्म्म च प्राकाशयद् यः प्रभुस्तस्य कथा अक्षोभेन प्रचार्य्य तौ तत्र बहुदिनानि समवातिष्ठेतां।


अनन्तरं बर्णब्बापौलाभ्याम् ईश्वरो भिन्नदेशीयानां मध्ये यद्यद् आश्चर्य्यम् अद्भुतञ्च कर्म्म कृतवान् तद्वृत्तान्तं तौ स्वमुखाभ्याम् अवर्णयतां सभास्थाः सर्व्वे नीरवाः सन्तः श्रुतवन्तः।


ऊर्द्ध्वस्थे गगणे चैव नीचस्थे पृथिवीतले। शोणितानि बृहद्भानून् घनधूमादिकानि च। चिह्नानि दर्शयिष्यामि महाश्चर्य्यक्रियास्तथा।


अतो हे इस्रायेल्वंशीयलोकाः सर्व्वे कथायामेतस्याम् मनो निधद्ध्वं नासरतीयो यीशुरीश्वरस्य मनोनीतः पुमान् एतद् ईश्वरस्तत्कृतैराश्चर्य्याद्भुतकर्म्मभि र्लक्षणैश्च युष्माकं साक्षादेव प्रतिपादितवान् इति यूयं जानीथ।


प्रेरितै र्नानाप्रकारलक्षणेषु महाश्चर्य्यकर्ममसु च दर्शितेषु सर्व्वलोकानां भयमुपस्थितं।


तथा स्वास्थ्यकरणकर्म्मणा तव बाहुबलप्रकाशपूर्व्वकं तव सेवकान् निर्भयेन तव वाक्यं प्रचारयितुं तव पवित्रपुत्रस्य यीशो र्नाम्ना आश्चर्य्याण्यसम्भवानि च कर्म्माणि कर्त्तुञ्चाज्ञापय।


ततः परं प्रेरितानां हस्तै र्लोकानां मध्ये बह्वाश्चर्य्याण्यद्भुतानि कर्म्माण्यक्रियन्त; तदा शिष्याः सर्व्व एकचित्तीभूय सुलेमानो ऽलिन्दे सम्भूयासन्।


स्तिफानोे विश्वासेन पराक्रमेण च परिपूर्णः सन् लोकानां मध्ये बहुविधम् अद्भुतम् आश्चर्य्यं कर्म्माकरोत्।


स च मिसरदेशे सूफ्नाम्नि समुद्रे च पश्चात् चत्वारिंशद्वत्सरान् यावत् महाप्रान्तरे नानाप्रकाराण्यद्भुतानि कर्म्माणि लक्षणानि च दर्शयित्वा तान् बहिः कृत्वा समानिनाय।


केवलं तान्येव विनान्यस्य कस्यचित् कर्म्मणो वर्णनां कर्त्तुं प्रगल्भो न भवामि। तस्मात् आ यिरूशालम इल्लूरिकं यावत् सर्व्वत्र ख्रीष्टस्य सुसंवादं प्राचारयं।


यिहूदीयलोका लक्षणानि दिदृक्षन्ति भिन्नदेशीयलोकास्तु विद्यां मृगयन्ते,


सर्व्वथाद्भुतक्रियाशक्तिलक्षणैः प्रेरितस्य चिह्नानि युष्माकं मध्ये सधैर्य्यं मया प्रकाशितानि।


शयतानस्य शक्तिप्रकाशनाद् विनाश्यमानानां मध्ये सर्व्वविधाः पराक्रमा भ्रमिका आश्चर्य्यक्रिया लक्षणान्यधर्म्मजाता सर्व्वविधप्रतारणा च तस्योपस्थितेः फलं भविष्यति;


अपरं लक्षणैरद्भुतकर्म्मभि र्विविधशक्तिप्रकाशेन निजेच्छातः पवित्रस्यात्मनो विभागेन च यद् ईश्वरेण प्रमाणीकृतम् अभूत्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos