Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 11:55 - सत्यवेदः। Sanskrit NT in Devanagari

55 अनन्तरं यिहूदीयानां निस्तारोत्सवे निकटवर्त्तिनि सति तदुत्सवात् पूर्व्वं स्वान् शुचीन् कर्त्तुं बहवो जना ग्रामेभ्यो यिरूशालम् नगरम् आगच्छन्,

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

55 অনন্তৰং যিহূদীযানাং নিস্তাৰোৎসৱে নিকটৱৰ্ত্তিনি সতি তদুৎসৱাৎ পূৰ্ৱ্ৱং স্ৱান্ শুচীন্ কৰ্ত্তুং বহৱো জনা গ্ৰামেভ্যো যিৰূশালম্ নগৰম্ আগচ্ছন্,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

55 অনন্তরং যিহূদীযানাং নিস্তারোৎসৱে নিকটৱর্ত্তিনি সতি তদুৎসৱাৎ পূর্ৱ্ৱং স্ৱান্ শুচীন্ কর্ত্তুং বহৱো জনা গ্রামেভ্যো যিরূশালম্ নগরম্ আগচ্ছন্,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

55 အနန္တရံ ယိဟူဒီယာနာံ နိသ္တာရောတ္သဝေ နိကဋဝရ္တ္တိနိ သတိ တဒုတ္သဝါတ် ပူရွွံ သွာန် ၑုစီန် ကရ္တ္တုံ ဗဟဝေါ ဇနာ ဂြာမေဘျော ယိရူၑာလမ် နဂရမ် အာဂစ္ဆန်,

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

55 anantaraM yihUdIyAnAM nistArOtsavE nikaTavarttini sati tadutsavAt pUrvvaM svAn zucIn karttuM bahavO janA grAmEbhyO yirUzAlam nagaram Agacchan,

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

55 અનન્તરં યિહૂદીયાનાં નિસ્તારોત્સવે નિકટવર્ત્તિનિ સતિ તદુત્સવાત્ પૂર્વ્વં સ્વાન્ શુચીન્ કર્ત્તું બહવો જના ગ્રામેભ્યો યિરૂશાલમ્ નગરમ્ આગચ્છન્,

Ver Capítulo Copiar




योहन 11:55
30 Referencias Cruzadas  

यीशुरेतान् प्रस्तावान् समाप्य शिष्यानूचे,


युष्माभि र्ज्ञातं दिनद्वयात् परं निस्तारमह उपस्थास्यति, तत्र मनुजसुतः क्रुशेन हन्तुं परकरेषु समर्पिष्यते।


तदा निस्तारोत्सवकिण्वहीनपूपोत्सवयोरारम्भस्य दिनद्वये ऽवशिष्टे प्रधानयाजका अध्यापकाश्च केनापि छलेन यीशुं धर्त्तां हन्तुञ्च मृगयाञ्चक्रिरे;


अपरञ्च किण्वशून्यपूपोत्सवस्य काल उपस्थिते


निस्तारोत्सवात् पूर्व्वं दिनषट्के स्थिते यीशु र्यं प्रमीतम् इलियासरं श्मशानाद् उदस्थापरत् तस्य निवासस्थानं बैथनियाग्रामम् आगच्छत्।


निस्तारोत्सवस्य किञ्चित्कालात् पूर्व्वं पृथिव्याः पितुः समीपगमनस्य समयः सन्निकर्षोभूद् इति ज्ञात्वा यीशुराप्रथमाद् येषु जगत्प्रवासिष्वात्मीयलोकेष प्रेम करोति स्म तेषु शेषं यावत् प्रेम कृतवान्।


तदनन्तरं प्रत्यूषे ते कियफागृहाद् अधिपते र्गृहं यीशुम् अनयन् किन्तु यस्मिन् अशुचित्वे जाते तै र्निस्तारोत्सवे न भोक्तव्यं, तस्य भयाद् यिहूदीयास्तद्गृहं नाविशन्।


तदनन्तरं यिहूदियानां निस्तारोत्सवे निकटमागते यीशु र्यिरूशालम् नगरम् आगच्छत्।


तस्मिन् स्थाने यिहूदीयानां शुचित्वकरणव्यवहारानुसारेणाढकैकजलधराणि पाषाणमयानि षड्वृहत्पात्राणिआसन्।


ततः परं यिहूदीयानाम् उत्सव उपस्थिते यीशु र्यिरूशालमं गतवान्।


तस्मिन् समय निस्तारोत्सवनाम्नि यिहूदीयानाम उत्सव उपस्थिते


तान् गृहीत्वा तैः सहितः स्वं शुचिं कुरु तथा तेषां शिरोमुण्डने यो व्ययो भवति तं त्वं देहि। तथा कृते त्वदीयाचारे या जनश्रुति र्जायते सालीका किन्तु त्वं विधिं पालयन् व्यवस्थानुसारेणेवाचरसीति ते भोत्सन्ते।


ततः पौलस्तान् मानुषानादाय परस्मिन् दिवसे तैः सह शुचि र्भूत्वा मन्दिरं गत्वा शौचकर्म्मणो दिनेषु सम्पूर्णेषु तेषाम् एकैकार्थं नैवेद्याद्युत्सर्गो भविष्यतीति ज्ञापितवान्।


ततोहं शुचि र्भूत्वा लोकानां समागमं कलहं वा न कारितवान् तथाप्याशियादेशीयाः कियन्तो यिहुदीयलोका मध्येमन्दिरं मां धृतवन्तः।


तस्मात् मानवेनाग्र आत्मान परीक्ष्य पश्चाद् एष पूपो भुज्यतां कंसेनानेन च पीयतां।


ईश्वरस्य समीपवर्त्तिनो भवत तेन स युष्माकं समीपवर्त्ती भविष्यति। हे पापिनः, यूयं स्वकरान् परिष्कुरुध्वं। हे द्विमनोलोकाः, यूयं स्वान्तःकरणानि शुचीनि कुरुध्वं।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos