Biblia Todo Logo
La Biblia Online

- Anuncios -




इब्रानियों 11:36 - सत्यवेदः। Sanskrit NT in Devanagari

36 अपरे तिरस्कारैः कशाभि र्बन्धनैः कारया च परीक्षिताः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

36 অপৰে তিৰস্কাৰৈঃ কশাভি ৰ্বন্ধনৈঃ কাৰযা চ পৰীক্ষিতাঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

36 অপরে তিরস্কারৈঃ কশাভি র্বন্ধনৈঃ কারযা চ পরীক্ষিতাঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

36 အပရေ တိရသ္ကာရဲး ကၑာဘိ ရ္ဗန္ဓနဲး ကာရယာ စ ပရီက္ၐိတား၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

36 aparE tiraskAraiH kazAbhi rbandhanaiH kArayA ca parIkSitAH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

36 અપરે તિરસ્કારૈઃ કશાભિ ર્બન્ધનૈઃ કારયા ચ પરીક્ષિતાઃ|

Ver Capítulo Copiar




इब्रानियों 11:36
45 Referencias Cruzadas  

ते च तं हन्तुमाज्ञाप्य तिरस्कृत्य वेत्रेण प्रहर्त्तुं क्रुशे धातयितुञ्चान्यदेशीयानां करेषु समर्पयिष्यन्ति, किन्तु स तृतीयदिवसे श्मशानाद् उत्थापिष्यते।


किन्तु कृषीवलास्तस्य तान् दासेयान् धृत्वा कञ्चन प्रहृतवन्तः, कञ्चन पाषाणैराहतवन्तः, कञ्चन च हतवन्तः।


पश्यत, युष्माकमन्तिकम् अहं भविष्यद्वादिनो बुद्धिमत उपाध्यायांश्च प्रेषयिष्यामि, किन्तु तेषां कतिपया युष्माभि र्घानिष्यन्ते, क्रुशे च घानिष्यन्ते, केचिद् भजनभवने कषाभिराघानिष्यन्ते, नगरे नगरे ताडिष्यन्ते च;


ततः स तेषां समीपे बरब्बां मोचयामास यीशुन्तु कषाभिराहत्य क्रुशेन वेधितुं समर्पयामास।


ते तमुपहस्य कशया प्रहृत्य तद्वपुषि निष्ठीवं निक्षिप्य तं हनिष्यन्ति, ततः स तृतीयदिने प्रोत्थास्यति।


वस्तुतस्तु सोऽन्यदेशीयानां हस्तेषु समर्पयिष्यते, ते तमुपहसिष्यन्ति, अन्यायमाचरिष्यन्ति तद्वपुषि निष्ठीवं निक्षेप्स्यन्ति, कशाभिः प्रहृत्य तं हनिष्यन्ति च,


हेरोद् तस्य सेनागणश्च तमवज्ञाय उपहासत्वेन राजवस्त्रं परिधाप्य पुनः पीलातं प्रति तं प्राहिणोत्।


तदन्यः सेनागणा एत्य तस्मै अम्लरसं दत्वा परिहस्य प्रोवाच,


स सहस्रसेनापतिः सन्निधावागम्य पौलं धृत्वा शृङ्खलद्वयेन बद्धम् आदिश्य तान् पृष्टवान् एष कः? किं कर्म्म चायं कृतवान्?


किन्तु वत्सरद्वयात् परं पर्कियफीष्ट फालिक्षस्य पदं प्राप्ते सति फीलिक्षो यिहूदीयान् सन्तुष्टान् चिकीर्षन् पौलं बद्धं संस्थाप्य गतवान्।


तौ धृत्वा दिनावसानकारणात् परदिनपर्य्यनन्तं रुद्ध्वा स्थापितवन्तः।


महाक्रोधान्त्विताः सन्तः प्रेरितान् धृत्वा नीचलोकानां कारायां बद्ध्वा स्थापितवन्तः।


तदा तस्य मन्त्रणां स्वीकृत्य ते प्रेरितान् आहूय प्रहृत्य यीशो र्नाम्ना कामपि कथां कथयितुं निषिध्य व्यसर्जन्।


किन्तु शौलो गृहे गृहे भ्रमित्वा स्त्रियः पुरुषांश्च धृत्वा कारायां बद्ध्वा मण्डल्या महोत्पातं कृतवान्।


अतो हेतो र्भिन्नजातीयानां युष्माकं निमित्तं यीशुख्रीष्टस्य बन्दी यः सोऽहं पौलो ब्रवीमि।


अतो बन्दिरहं प्रभो र्नाम्ना युष्मान् विनये यूयं येनाह्वानेनाहूतास्तदुपयुक्तरूपेण


प्रभुरनीषिफरस्य परिवारान् प्रति कृपां विदधातु यतः स पुनः पुन र्माम् आप्यायितवान्


तत्सुसंवादकारणाद् अहं दुष्कर्म्मेव बन्धनदशापर्य्यन्तं क्लेशं भुञ्जे किन्त्वीश्वरस्य वाक्यम् अबद्धं तिष्ठति।


यूयं मम बन्धनस्य दुःखेन दुःखिनो ऽभवत, युष्माकम् उत्तमा नित्या च सम्पत्तिः स्वर्गे विद्यत इति ज्ञात्वा सानन्दं सर्व्वस्वस्यापहरणम् असहध्वञ्च।


त्वया यो यः क्लेशः सोढव्यस्तस्मात् मा भैषीः पश्य शयतानो युष्माकं परीक्षार्थं कांश्चित् कारायां निक्षेप्स्यति दश दिनानि यावत् क्लेशो युष्मासु वर्त्तिष्यते च। त्वं मृत्युपर्य्यन्तं विश्वास्यो भव तेनाहं जीवनकिरीटं तुभ्यं दास्यामि।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos