Biblia Todo Logo
La Biblia Online

- Anuncios -




इब्रानियों 10:39 - सत्यवेदः। Sanskrit NT in Devanagari

39 किन्तु वयं विनाशजनिकां धर्म्मात् निवृत्तिं न कुर्व्वाणा आत्मनः परित्राणाय विश्वासं कुर्व्वामहेे।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

39 কিন্তু ৱযং ৱিনাশজনিকাং ধৰ্ম্মাৎ নিৱৃত্তিং ন কুৰ্ৱ্ৱাণা আত্মনঃ পৰিত্ৰাণায ৱিশ্ৱাসং কুৰ্ৱ্ৱামহেे|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

39 কিন্তু ৱযং ৱিনাশজনিকাং ধর্ম্মাৎ নিৱৃত্তিং ন কুর্ৱ্ৱাণা আত্মনঃ পরিত্রাণায ৱিশ্ৱাসং কুর্ৱ্ৱামহেे|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

39 ကိန္တု ဝယံ ဝိနာၑဇနိကာံ ဓရ္မ္မာတ် နိဝၖတ္တိံ န ကုရွွာဏာ အာတ္မနး ပရိတြာဏာယ ဝိၑွာသံ ကုရွွာမဟေे၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

39 kintu vayaM vinAzajanikAM dharmmAt nivRttiM na kurvvANA AtmanaH paritrANAya vizvAsaM kurvvAmahEे|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

39 કિન્તુ વયં વિનાશજનિકાં ધર્મ્માત્ નિવૃત્તિં ન કુર્વ્વાણા આત્મનઃ પરિત્રાણાય વિશ્વાસં કુર્વ્વામહેे|

Ver Capítulo Copiar




इब्रानियों 10:39
28 Referencias Cruzadas  

तत्र यः कश्चिद् विश्वस्य मज्जितो भवेत् स परित्रास्यते किन्तु यो न विश्वसिष्यति स दण्डयिष्यते।


तत्क्षणम् अपगत्य स्वस्मादपि दुर्म्मतीन् अपरान् सप्तभूतान् सहानयति ते च तद्गृहं पविश्य निवसन्ति। तस्मात् तस्य मनुष्यस्य प्रथमदशातः शेषदशा दुःखतरा भवति।


यावन्ति दिनानि जगत्यस्मिन् तैः सहाहमासं तावन्ति दिनानि तान् तव नाम्नाहं रक्षितवान्; याल्लोकान् मह्यम् अददास्तान् सर्व्वान् अहमरक्षं, तेषां मध्ये केवलं विनाशपात्रं हारितं तेन धर्म्मपुस्तकस्य वचनं प्रत्यक्षं भवति।


किन्तु यीशुरीश्वरस्याभिषिक्तः सुत एवेति यथा यूयं विश्वसिथ विश्वस्य च तस्य नाम्ना परमायुः प्राप्नुथ तदर्थम् एतानि सर्व्वाण्यलिख्यन्त।


युष्मानाहं यथार्थतरं वदामि यो जनो मम वाक्यं श्रुत्वा मत्प्रेरके विश्वसिति सोनन्तायुः प्राप्नोति कदापि दण्डबाजनं न भवति निधनादुत्थाय परमायुः प्राप्नोति।


यः कश्चिन् मानवसुतं विलोक्य विश्वसिति स शेषदिने मयोत्थापितः सन् अनन्तायुः प्राप्स्यति इति मत्प्रेरकस्याभिमतं।


यत ईश्वरोऽस्मान् क्रोधे न नियुज्यास्माकं प्रभुना यीशुख्रीष्टेन परित्राणस्याधिकारे नियुुक्तवान्,


केनापि प्रकारेण कोऽपि युष्मान् न वञ्चयतु यतस्तस्माद् दिनात् पूर्व्वं धर्म्मलोपेनोपस्यातव्यं,


ये तु धनिनो भवितुं चेष्टन्ते ते परीक्षायाम् उन्माथे पतन्ति ये चाभिलाषा मानवान् विनाशे नरके च मज्जयन्ति तादृशेष्वज्ञानाहिताभिलाषेष्वपि पतन्ति।


सत्यमतस्य ज्ञानप्राप्तेः परं यदि वयं स्वंच्छया पापाचारं कुर्म्मस्तर्हि पापानां कृते ऽन्यत् किमपि बलिदानं नावशिष्यते


"पुण्यवान् जनो विश्वासेन जीविष्यति किन्तु यदि निवर्त्तते तर्हि मम मनस्तस्मिन् न तोषं यास्यति।"


विश्वास आशंसितानां निश्चयः, अदृश्यानां विषयाणां दर्शनं भवति।


यूयञ्चेश्वरस्य शक्तितः शेषकाले प्रकाश्यपरित्राणार्थं विश्वासेन रक्ष्यध्वे।


किन्त्वधुना वर्त्तमाने आकाशभूमण्डले तेनैव वाक्येन वह्न्यर्थं गुप्ते विचारदिनं दुष्टमानवानां विनाशञ्च यावद् रक्ष्यते।


कश्चिद् यदि स्वभ्रातरम् अमृत्युजनकं पापं कुर्व्वन्तं पश्यति तर्हि स प्रार्थनां करोतु तेनेश्वरस्तस्मै जीवनं दास्यति, अर्थतो मृत्युजनकं पापं येन नाकारितस्मै। किन्तु मृत्युजनकम् एकं पापम् आस्ते तदधि तेन प्रार्थना क्रियतामित्यहं न वदामि।


यीशुरीश्वरस्य पुत्र इति यो विश्वसिति तं विना कोऽपरः संसारं जयति?


यः पशुरासीत् किन्त्विदानीं न वर्त्तते स एवाष्टमः, स सप्तानाम् एको ऽस्ति विनाशं गमिष्यति च।


त्वया दृष्टो ऽसौ पशुरासीत् नेदानीं वर्त्तते किन्तु रसातलात् तेनोदेतव्यं विनाशश्च गन्तव्यः। ततो येषां नामानि जगतः सृष्टिकालम् आरभ्य जीवनपुस्तके लिखितानि न विद्यन्ते ते पृथिवीनिवासिनो भूतम् अवर्त्तमानमुपस्थास्यन्तञ्च तं पशुं दृष्ट्वाश्चर्य्यं मंस्यन्ते।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos