Biblia Todo Logo
La Biblia Online

- Anuncios -




गलातियों 2:4 - सत्यवेदः। Sanskrit NT in Devanagari

4 यतश्छलेनागता अस्मान् दासान् कर्त्तुम् इच्छवः कतिपया भाक्तभ्रातरः ख्रीष्टेन यीशुनास्मभ्यं दत्तं स्वातन्त्र्यम् अनुसन्धातुं चारा इव समाजं प्राविशन्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 যতশ্ছলেনাগতা অস্মান্ দাসান্ কৰ্ত্তুম্ ইচ্ছৱঃ কতিপযা ভাক্তভ্ৰাতৰঃ খ্ৰীষ্টেন যীশুনাস্মভ্যং দত্তং স্ৱাতন্ত্ৰ্যম্ অনুসন্ধাতুং চাৰা ইৱ সমাজং প্ৰাৱিশন্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 যতশ্ছলেনাগতা অস্মান্ দাসান্ কর্ত্তুম্ ইচ্ছৱঃ কতিপযা ভাক্তভ্রাতরঃ খ্রীষ্টেন যীশুনাস্মভ্যং দত্তং স্ৱাতন্ত্র্যম্ অনুসন্ধাতুং চারা ইৱ সমাজং প্রাৱিশন্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ယတၑ္ဆလေနာဂတာ အသ္မာန် ဒါသာန် ကရ္တ္တုမ် ဣစ္ဆဝး ကတိပယာ ဘာက္တဘြာတရး ခြီၐ္ဋေန ယီၑုနာသ္မဘျံ ဒတ္တံ သွာတန္တြျမ် အနုသန္ဓာတုံ စာရာ ဣဝ သမာဇံ ပြာဝိၑန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 yatazchalEnAgatA asmAn dAsAn karttum icchavaH katipayA bhAktabhrAtaraH khrISTEna yIzunAsmabhyaM dattaM svAtantryam anusandhAtuM cArA iva samAjaM prAvizan|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 યતશ્છલેનાગતા અસ્માન્ દાસાન્ કર્ત્તુમ્ ઇચ્છવઃ કતિપયા ભાક્તભ્રાતરઃ ખ્રીષ્ટેન યીશુનાસ્મભ્યં દત્તં સ્વાતન્ત્ર્યમ્ અનુસન્ધાતું ચારા ઇવ સમાજં પ્રાવિશન્|

Ver Capítulo Copiar




गलातियों 2:4
29 Referencias Cruzadas  

ततो हेतो र्नूतन्यां कुत्वां नवीनद्राक्षारसः निधातव्यस्तेनोभयस्य रक्षा भवति।


यिहूदादेशात् कियन्तो जना आगत्य भ्रातृगणमित्थं शिक्षितवन्तो मूसाव्यवस्थया यदि युष्माकं त्वक्छेदो न भवति तर्हि यूयं परित्राणं प्राप्तुं न शक्ष्यथ।


विशेषतोऽस्माकम् आज्ञाम् अप्राप्यापि कियन्तो जना अस्माकं मध्याद् गत्वा त्वक्छेदो मूसाव्यवस्था च पालयितव्याविति युष्मान् शिक्षयित्वा युष्माकं मनसामस्थैर्य्यं कृत्वा युष्मान् ससन्देहान् अकुर्व्वन् एतां कथां वयम् अशृन्म।


युष्माकमेव मध्यादपि लोका उत्थाय शिष्यगणम् अपहन्तुं विपरीतम् उपदेक्ष्यन्तीत्यहं जानामि।


यूयं पुनरपि भयजनकं दास्यभावं न प्राप्ताः किन्तु येन भावेनेश्वरं पितः पितरिति प्रोच्य सम्बोधयथ तादृशं दत्तकपुत्रत्वभावम् प्राप्नुत।


तादृशा भाक्तप्रेरिताः प्रवञ्चकाः कारवो भूत्वा ख्रीष्टस्य प्रेरितानां वेशं धारयन्ति।


एतस्याः श्लाघाया निमित्तं मया यत् कथितव्यं तत् प्रभुनादिष्टेनेव कथ्यते तन्नहि किन्तु निर्ब्बोधेनेव।


कोऽपि यदि युष्मान् दासान् करोति यदि वा युष्माकं सर्व्वस्वं ग्रसति यदि वा युष्मान् हरति यदि वात्माभिमानी भवति यदि वा युष्माकं कपोलम् आहन्ति तर्हि तदपि यूयं सहध्वे।


बहुवारं यात्राभि र्नदीनां सङ्कटै र्दस्यूनां सङ्कटैः स्वजातीयानां सङ्कटै र्भिन्नजातीयानां सङ्कटै र्नगरस्य सङ्कटै र्मरुभूमेः सङ्कटै सागरस्य सङ्कटै र्भाक्तभ्रातृणां सङ्कटैश्च


यः प्रभुः स एव स आत्मा यत्र च प्रभोरात्मा तत्रैव मुक्तिः।


सोऽन्यसुसंवादः सुसंवादो नहि किन्तु केचित् मानवा युष्मान् चञ्चलीकुर्व्वन्ति ख्रीष्टीयसुसंवादस्य विपर्य्ययं कर्त्तुं चेष्टन्ते च।


यस्माद् हाजिराशब्देनारवदेशस्थसीनयपर्व्वतो बोध्यते, सा च वर्त्तमानाया यिरूशालम्पुर्य्याः सदृशी। यतः स्वबालैः सहिता सा दासत्व आस्ते।


तद्वद् वयमपि बाल्यकाले दासा इव संसारस्याक्षरमालाया अधीना आस्महे।


ख्रीष्टोऽस्मभ्यं यत् स्वातन्त्र्यं दत्तवान् यूयं तत्र स्थिरास्तिष्ठत दासत्वयुगेन पुन र्न निबध्यध्वं।


युष्माकं मति र्विकारं न गमिष्यतीत्यहं युष्मानधि प्रभुनाशंसे; किन्तु यो युष्मान् विचारलयति स यः कश्चिद् भवेत् समुचितं दण्डं प्राप्स्यति।


यतो ये जनाः प्रच्छन्नं गेहान् प्रविशन्ति पापै र्भारग्रस्ता नानाविधाभिलाषैश्चालिता याः कामिन्यो


किन्तु यः कश्चित् नत्वा मुक्तेः सिद्धां व्यवस्थाम् आलोक्य तिष्ठति स विस्मृतियुक्तः श्रोता न भूत्वा कर्म्मकर्त्तैव सन् स्वकार्य्ये धन्यो भविष्यति।


यूयं स्वाधीना इवाचरत तथापि दुष्टताया वेषस्वरूपां स्वाधीनतां धारयन्त इव नहि किन्त्वीश्वरस्य दासा इव।


तेभ्यः स्वाधीनतां प्रतिज्ञाय स्वयं विनाश्यताया दासा भवन्ति, यतः, यो येनैव पराजिग्ये स जातस्तस्य किङ्करः।


हे प्रियतमाः, यूयं सर्व्वेष्वात्मसु न विश्वसित किन्तु ते ईश्वरात् जाता न वेत्यात्मनः परीक्षध्वं यतो बहवो मृषाभविष्यद्वादिनो जगन्मध्यम् आगतवन्तः।


यस्माद् एतद्रूपदण्डप्राप्तये पूर्व्वं लिखिताः केचिज्जना अस्मान् उपसृप्तवन्तः, ते ऽधार्म्मिकलोका अस्माकम् ईश्वरस्यानुग्रहं ध्वजीकृत्य लम्पटताम् आचरन्ति, अद्वितीयो ऽधिपति र्यो ऽस्माकं प्रभु र्यीशुख्रीष्टस्तं नाङ्गीकुर्व्वन्ति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos