Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 9:20 - सत्यवेदः। Sanskrit NT in Devanagari

20 सर्व्वभजनभवनानि गत्वा यीशुरीश्वरस्य पुत्र इमां कथां प्राचारयत्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 সৰ্ৱ্ৱভজনভৱনানি গৎৱা যীশুৰীশ্ৱৰস্য পুত্ৰ ইমাং কথাং প্ৰাচাৰযৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 সর্ৱ্ৱভজনভৱনানি গৎৱা যীশুরীশ্ৱরস্য পুত্র ইমাং কথাং প্রাচারযৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 သရွွဘဇနဘဝနာနိ ဂတွာ ယီၑုရီၑွရသျ ပုတြ ဣမာံ ကထာံ ပြာစာရယတ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 sarvvabhajanabhavanAni gatvA yIzurIzvarasya putra imAM kathAM prAcArayat|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

20 સર્વ્વભજનભવનાનિ ગત્વા યીશુરીશ્વરસ્ય પુત્ર ઇમાં કથાં પ્રાચારયત્|

Ver Capítulo Copiar




प्रेरिता 9:20
32 Referencias Cruzadas  

स ईश्वरे प्रत्याशामकरोत्, यदीश्वरस्तस्मिन् सन्तुष्टस्तर्हीदानीमेव तमवेत्, यतः स उक्तवान् अहमीश्वरसुतः।


यीशुरक्षणाय नियुक्तः शतसेनापतिस्तत्सङ्गिनश्च तादृशीं भूकम्पादिघटनां दृष्ट्वा भीता अवदन्, एष ईश्वरपुत्रो भवति।


तदानीं परीक्षिता तत्समीपम् आगत्य व्याहृतवान्, यदि त्वमीश्वरात्मजो भवेस्तर्ह्याज्ञया पाषाणानेतान् पूपान् विधेहि।


निथनेल् अचकथत्, हे गुरो भवान् नितान्तम् ईश्वरस्य पुत्रोसि, भवान् इस्रायेल्वंशस्य राजा।


यिहूदीयाः प्रत्यवदन् अस्माकं या व्यवस्थास्ते तदनुसारेणास्य प्राणहननम् उचितं यतोयं स्वम् ईश्वरस्य पुत्रमवदत्।


तदा थोमा अवदत्, हे मम प्रभो हे मदीश्वर।


किन्तु यीशुरीश्वरस्याभिषिक्तः सुत एवेति यथा यूयं विश्वसिथ विश्वस्य च तस्य नाम्ना परमायुः प्राप्नुथ तदर्थम् एतानि सर्व्वाण्यलिख्यन्त।


पश्चात् तौ पर्गीतो यात्रां कृत्वा पिसिदियादेशस्य आन्तियखियानगरम् उपस्थाय विश्रामवारे भजनभवनं प्रविश्य समुपाविशतां।


इदं यद्वचनं द्वितीयगीते लिखितमास्ते तद् यीशोरुत्थानेन तेषां सन्ताना ये वयम् अस्माकं सन्निधौ तेन प्रत्यक्षी कृतं, युष्मान् इमं सुसंवादं ज्ञापयामि।


ततः पौैलबर्णब्बावक्षोभौ कथितवन्तौ प्रथमं युष्माकं सन्निधावीश्वरीयकथायाः प्रचारणम् उचितमासीत् किन्तुं तदग्राह्यत्वकरणेन यूयं स्वान् अनन्तायुषोऽयोग्यान् दर्शयथ, एतत्कारणाद् वयम् अन्यदेशीयलोकानां समीपं गच्छामः।


ततः सालामीनगरम् उपस्थाय तत्र यिहूदीयानां भजनभवनानि गत्वेश्वरस्य कथां प्राचारयतां; योहनपि तत्सहचरोऽभवत्।


तौ द्वौ जनौ युगपद् इकनियनगरस्थयिहूदीयानां भजनभवनं गत्वा यथा बहवो यिहूदीया अन्यदेेशीयलोकाश्च व्यश्वसन् तादृशीं कथां कथितवन्तौ।


विश्रामवारे नगराद् बहि र्गत्वा नदीतटे यत्र प्रार्थनाचार आसीत् तत्रोपविश्य समागता नारीः प्रति कथां प्राचारयाम।


ततः परं भ्रातृगणो रजन्यां पौलसीलौ शीघ्रं बिरयानगरं प्रेषितवान् तौ तत्रोपस्थाय यिहूदीयानां भजनभवनं गतवन्तौ।


ततः स भजनभवने यान् यिहूदीयान् भक्तलोकांश्च हट्टे च यान् अपश्यत् तैः सह प्रतिदिनं विचारितवान्।


तदा पौलः स्वाचारानुसारेण तेषां समीपं गत्वा विश्रामवारत्रये तैः सार्द्धं धर्म्मपुस्तकीयकथाया विचारं कृतवान्।


तत इफिषनगर उपस्थाय तत्र तौ विसृज्य स्वयं भजनभ्वनं प्रविश्य यिहूदीयैः सह विचारितवान्।


पौलः प्रतिविश्रामवारं भजनभवनं गत्वा विचारं कृत्वा यिहूदीयान् अन्यदेशीयांश्च प्रवृत्तिं ग्राहितवान्।


पौलो भजनभवनं गत्वा प्रायेण मासत्रयम् ईश्वरस्य राज्यस्य विचारं कृत्वा लोकान् प्रवर्त्य साहसेन कथामकथयत्।


इत्थं मार्गेण गच्छन्तौ जलाशयस्य समीप उपस्थितौ; तदा क्लीबोऽवादीत् पश्यात्र स्थाने जलमास्ते मम मज्जने का बाधा?


ततः फिलिप उत्तरं व्याहरत् स्वान्तःकरणेन साकं यदि प्रत्येषि तर्हि बाधा नास्ति। ततः स कथितवान् यीशुख्रीष्ट ईश्वरस्य पुत्र इत्यहं प्रत्येमि।


किन्तु शौलः क्रमश उत्साहवान् भूत्वा यीशुरीश्वरेणाभिषिक्तो जन एतस्मिन् प्रमाणं दत्वा दम्मेषक्-निवासियिहूदीयलोकान् निरुत्तरान् अकरोत्।


पवित्रस्यात्मनः सम्बन्धेन चेश्वरस्य प्रभाववान् पुत्र इति श्मशानात् तस्योत्थानेन प्रतिपन्नं।


स यदा मयि स्वपुत्रं प्रकाशितुं भिन्नदेशीयानां समीपे भया तं घोषयितुञ्चाभ्यलषत् तदाहं क्रव्यशोणिताभ्यां सह न मन्त्रयित्वा


ख्रीष्टेन सार्द्धं क्रुशे हतोऽस्मि तथापि जीवामि किन्त्वहं जीवामीति नहि ख्रीष्ट एव मदन्त र्जीवति। साम्प्रतं सशरीरेण मया यज्जीवितं धार्य्यते तत् मम दयाकारिणि मदर्थं स्वीयप्राणत्यागिनि चेश्वरपुत्रे विश्वसता मया धार्य्यते।


अपरं थुयातीरास्थसमिते र्दूतं प्रतीदं लिख। यस्य लोचने वह्निशिखासदृशे चरणौ च सुपित्तलसङ्काशौ स ईश्वरपुत्रो भाषते,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos