Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 6:9 - सत्यवेदः। Sanskrit NT in Devanagari

9 तेन लिबर्त्तिनीयनाम्ना विख्यातसङ्घस्य कतिपयजनाः कुरीणीयसिकन्दरीय-किलिकीयाशीयादेशीयाः कियन्तो जनाश्चोत्थाय स्तिफानेन सार्द्धं व्यवदन्त।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 তেন লিবৰ্ত্তিনীযনাম্না ৱিখ্যাতসঙ্ঘস্য কতিপযজনাঃ কুৰীণীযসিকন্দৰীয-কিলিকীযাশীযাদেশীযাঃ কিযন্তো জনাশ্চোত্থায স্তিফানেন সাৰ্দ্ধং ৱ্যৱদন্ত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 তেন লিবর্ত্তিনীযনাম্না ৱিখ্যাতসঙ্ঘস্য কতিপযজনাঃ কুরীণীযসিকন্দরীয-কিলিকীযাশীযাদেশীযাঃ কিযন্তো জনাশ্চোত্থায স্তিফানেন সার্দ্ধং ৱ্যৱদন্ত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 တေန လိဗရ္တ္တိနီယနာမ္နာ ဝိချာတသင်္ဃသျ ကတိပယဇနား ကုရီဏီယသိကန္ဒရီယ-ကိလိကီယာၑီယာဒေၑီယား ကိယန္တော ဇနာၑ္စောတ္ထာယ သ္တိဖာနေန သာရ္ဒ္ဓံ ဝျဝဒန္တ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 tEna libarttinIyanAmnA vikhyAtasagghasya katipayajanAH kurINIyasikandarIya-kilikIyAzIyAdEzIyAH kiyantO janAzcOtthAya stiphAnEna sArddhaM vyavadanta|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

9 તેન લિબર્ત્તિનીયનામ્ના વિખ્યાતસઙ્ઘસ્ય કતિપયજનાઃ કુરીણીયસિકન્દરીય-કિલિકીયાશીયાદેશીયાઃ કિયન્તો જનાશ્ચોત્થાય સ્તિફાનેન સાર્દ્ધં વ્યવદન્ત|

Ver Capítulo Copiar




प्रेरिता 6:9
27 Referencias Cruzadas  

नृभ्यः सावधाना भवत; यतस्तै र्यूयं राजसंसदि समर्पिष्यध्वे तेषां भजनगेहे प्रहारिष्यध्वे।


पश्यत, युष्माकमन्तिकम् अहं भविष्यद्वादिनो बुद्धिमत उपाध्यायांश्च प्रेषयिष्यामि, किन्तु तेषां कतिपया युष्माभि र्घानिष्यन्ते, क्रुशे च घानिष्यन्ते, केचिद् भजनभवने कषाभिराघानिष्यन्ते, नगरे नगरे ताडिष्यन्ते च;


पश्चात्ते बहिर्भूय कुरीणीयं शिमोन्नामकमेकं विलोक्य क्रुशं वोढुं तमाददिरे।


किन्तु यूयम् आत्मार्थे सावधानास्तिष्ठत, यतो लोका राजसभायां युष्मान् समर्पयिष्यन्ति, तथा भजनगृहे प्रहरिष्यन्ति; यूयं मदर्थे देशाधिपान् भूपांश्च प्रति साक्ष्यदानाय तेषां सम्मुखे उपस्थापयिष्यध्वे।


किन्तु सर्व्वासामेतासां घटनानां पूर्व्वं लोका युष्मान् धृत्वा ताडयिष्यन्ति, भजनालये कारायाञ्च समर्पयिष्यन्ति मम नामकारणाद् युष्मान् भूपानां शासकानाञ्च सम्मुखं नेष्यन्ति च।


अपरं तेषां कुप्रीयाः कुरीनीयाश्च कियन्तो जना आन्तियखियानगरं गत्वा यूनानीयलोकानां समीपेपि प्रभोर्यीशोः कथां प्राचारयन्।


अपरञ्च बर्णब्बाः, शिमोन् यं निग्रं वदन्ति, कुरीनीयलूकियो हेरोदा राज्ञा सह कृतविद्यााभ्यासो मिनहेम्, शौलश्चैते ये कियन्तो जना भविष्यद्वादिन उपदेष्टारश्चान्तियखियानगरस्थमण्डल्याम् आसन्,


किन्तु यिहूदीयलोका जननिवहं विलोक्य ईर्ष्यया परिपूर्णाः सन्तो विपरीतकथाकथनेनेश्वरनिन्दया च पौलेनोक्तां कथां खण्डयितुं चेष्टितवन्तः।


तस्मिन् पत्रे लिखितमिंद, आन्तियखिया-सुरिया-किलिकियादेशस्थभिन्नदेशीयभ्रातृगणाय प्रेरितगणस्य लोकप्राचीनगणस्य भ्रातृगणस्य च नमस्कारः।


सुरियाकिलिकियादेशाभ्यां मण्डलीः स्थिरीकुर्व्वन् अगच्छत्।


तेषु फ्रुगियागालातियादेशमध्येन गतेषु सत्सु पवित्र आत्मा तान् आशियादेशे कथां प्रकाशयितुं प्रतिषिद्धवान्।


तस्मिन्नेव समये सिकन्दरियानगरे जात आपल्लोनामा शास्त्रवित् सुवक्ता यिहूदीय एको जन इफिषनगरम् आगतवान्।


इत्थं वत्सरद्वयं गतं तस्माद् आशियादेशनिवासिनः सर्व्वे यिहूदीया अन्यदेशीयलोकाश्च प्रभो र्यीशोः कथाम् अश्रौषन्।


किन्तु हस्तनिर्म्मितेश्वरा ईश्वरा नहि पौलनाम्ना केनचिज्जनेन कथामिमां व्याहृत्य केवलेफिषनगरे नहि प्रायेण सर्व्वस्मिन् आशियादेशे प्रवृत्तिं ग्राहयित्वा बहुलोकानां शेमुषी परावर्त्तिता, एतद् युष्माभि र्दृश्यते श्रूयते च।


तेषु सप्तसु दिनेषु समाप्तकल्पेषु आशियादेशनिवासिनो यिहूदीयास्तं मध्येमन्दिरं विलोक्य जननिवहस्य मनःसु कुप्रवृत्तिं जनयित्वा तं धृत्वा


तदा पौलोऽकथयत् अहं किलिकियादेशस्य तार्षनगरीयो यिहूदीयो, नाहं सामान्यनगरीयो मानवः; अतएव विनयेऽहं लाकानां समक्षं कथां कथयितुं मामनुजानीष्व।


ततोहं प्रत्यवादिषम् हे प्रभो प्रतिभजनभवनं त्वयि विश्वासिनो लोकान् बद्ध्वा प्रहृतवान्,


पश्चात् सोऽकथयद् अहं यिहूदीय इति निश्चयः किलिकियादेशस्य तार्षनगरं मम जन्मभूमिः,एतन्नगरीयस्य गमिलीयेलनाम्नोऽध्यापकस्य शिष्यो भूत्वा पूर्व्वपुरुषाणां विधिव्यवस्थानुसारेण सम्पूर्णरूपेण शिक्षितोऽभवम् इदानीन्तना यूयं यादृशा भवथ तादृशोऽहमपीश्वरसेवायाम् उद्योगी जातः।


तदाधिपतिस्तत्पत्रं पठित्वा पृष्ठवान् एष किम्प्रदेशीयो जनः? स किलिकियाप्रदेशीय एको जन इति ज्ञात्वा कथितवान्,


ततोहं शुचि र्भूत्वा लोकानां समागमं कलहं वा न कारितवान् तथाप्याशियादेशीयाः कियन्तो यिहुदीयलोका मध्येमन्दिरं मां धृतवन्तः।


वारं वारं भजनभवनेषु तेभ्यो दण्डं प्रदत्तवान् बलात् तं धर्म्मं निन्दयितवांश्च पुनश्च तान् प्रति महाक्रोधाद् उन्मत्तः सन् विदेशीयनगराणि यावत् तान् ताडितवान्।


किन्तु स्तिफानो ज्ञानेन पवित्रेणात्मना च ईदृशीं कथां कथितवान् यस्यास्ते आपत्तिं कर्त्तुं नाशक्नुवन्।


ज्ञानी कुत्र? शास्त्री वा कुत्र? इहलोकस्य विचारतत्परो वा कुत्र? इहलोकस्य ज्ञानं किमीश्वरेण मोहीकृतं नहि?


ततः परम् अहं सुरियां किलिकियाञ्च देशौ गतवान्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos