Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 3:26 - सत्यवेदः। Sanskrit NT in Devanagari

26 अत ईश्वरो निजपुत्रं यीशुम् उत्थाप्य युष्माकं सर्व्वेषां स्वस्वपापात् परावर्त्त्य युष्मभ्यम् आशिषं दातुं प्रथमतस्तं युष्माकं निकटं प्रेषितवान्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 অত ঈশ্ৱৰো নিজপুত্ৰং যীশুম্ উত্থাপ্য যুষ্মাকং সৰ্ৱ্ৱেষাং স্ৱস্ৱপাপাৎ পৰাৱৰ্ত্ত্য যুষ্মভ্যম্ আশিষং দাতুং প্ৰথমতস্তং যুষ্মাকং নিকটং প্ৰেষিতৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 অত ঈশ্ৱরো নিজপুত্রং যীশুম্ উত্থাপ্য যুষ্মাকং সর্ৱ্ৱেষাং স্ৱস্ৱপাপাৎ পরাৱর্ত্ত্য যুষ্মভ্যম্ আশিষং দাতুং প্রথমতস্তং যুষ্মাকং নিকটং প্রেষিতৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 အတ ဤၑွရော နိဇပုတြံ ယီၑုမ် ဥတ္ထာပျ ယုၐ္မာကံ သရွွေၐာံ သွသွပါပါတ် ပရာဝရ္တ္တျ ယုၐ္မဘျမ် အာၑိၐံ ဒါတုံ ပြထမတသ္တံ ယုၐ္မာကံ နိကဋံ ပြေၐိတဝါန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 ata IzvarO nijaputraM yIzum utthApya yuSmAkaM sarvvESAM svasvapApAt parAvarttya yuSmabhyam AziSaM dAtuM prathamatastaM yuSmAkaM nikaTaM prESitavAn|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

26 અત ઈશ્વરો નિજપુત્રં યીશુમ્ ઉત્થાપ્ય યુષ્માકં સર્વ્વેષાં સ્વસ્વપાપાત્ પરાવર્ત્ત્ય યુષ્મભ્યમ્ આશિષં દાતું પ્રથમતસ્તં યુષ્માકં નિકટં પ્રેષિતવાન્|

Ver Capítulo Copiar




प्रेरिता 3:26
41 Referencias Cruzadas  

यतस्तस्या गर्भः पवित्रादात्मनोऽभवत्, सा च पुत्रं प्रसविष्यते, तदा त्वं तस्य नाम यीशुम् (अर्थात् त्रातारं) करीष्यसे, यस्मात् स निजमनुजान् तेषां कलुषेभ्य उद्धरिष्यति।


तदा स प्रत्यवदत्, इस्रायेल्गोत्रस्य हारितमेषान् विना कस्याप्यन्यस्य समीपं नाहं प्रेषितोस्मि।


तन्नाम्ना यिरूशालममारभ्य सर्व्वदेशे मनःपरावर्त्तनस्य पापमोचनस्य च सुसंवादः प्रचारयितव्यः,


यूयं यं भजध्वे तं न जानीथ, किन्तु वयं यं भजामहे तं जानीमहे, यतो यिहूदीयलोकानां मध्यात् परित्राणं जायते।


किन्तु युष्मासु पवित्रस्यात्मन आविर्भावे सति यूयं शक्तिं प्राप्य यिरूशालमि समस्तयिहूदाशोमिरोणदेशयोः पृथिव्याः सीमां यावद् यावन्तो देशास्तेषु यर्व्वेषु च मयि साक्ष्यं दास्यथ।


हे इब्राहीमो वंशजाता भ्रातरो हे ईश्वरभीताः सर्व्वलोका युष्मान् प्रति परित्राणस्य कथैषा प्रेरिता।


किन्त्वीश्वरस्तं निधनस्य बन्धनान्मोचयित्वा उदस्थापयत् यतः स मृत्युना बद्धस्तिष्ठतीति न सम्भवति।


अतः परमेश्वर एनं यीशुं श्मशानाद् उदस्थापयत् तत्र वयं सर्व्वे साक्षिण आस्महे।


प्रथमतो दम्मेषक्नगरे ततो यिरूशालमि सर्व्वस्मिन् यिहूदीयदेशे अन्येषु देशेषु च येेन लोका मतिं परावर्त्त्य ईश्वरं प्रति परावर्त्तयन्ते, मनःपरावर्त्तनयोग्यानि कर्म्माणि च कुर्व्वन्ति तादृशम् उपदेशं प्रचारितवान्।


यं यीशुं यूयं परकरेषु समार्पयत ततो यं पीलातो मोचयितुम् एैच्छत् तथापि यूयं तस्य साक्षान् नाङ्गीकृतवन्त इब्राहीम इस्हाको याकूबश्चेश्वरोऽर्थाद् अस्माकं पूर्व्वपुरुषाणाम् ईश्वरः स्वपुत्रस्य तस्य यीशो र्महिमानं प्राकाशयत्।


पश्चात् तं जीवनस्याधिपतिम् अहत किन्त्वीश्वरः श्मशानात् तम् उदस्थापयत तत्र वयं साक्षिण आस्महे।


पुनश्च पूर्व्वकालम् आरभ्य प्रचारितो यो यीशुख्रीष्टस्तम् ईश्वरो युष्मान् प्रति प्रेषयिष्यति।


युष्माकं प्रभुः परमेश्वरो युष्माकं भ्रातृगणमध्यात् मत्सदृशं भविष्यद्वक्तारम् उत्पादयिष्यति, ततः स यत् किञ्चित् कथयिष्यति तत्र यूयं मनांसि निधद्ध्वं।


यूयमपि तेषां भविष्यद्वादिनां सन्तानाः, "तव वंशोद्भवपुंसा सर्व्वदेशीया लोका आशिषं प्राप्ता भविष्यन्ति", इब्राहीमे कथामेतां कथयित्वा ईश्वरोस्माकं पूर्व्वपुरुषैः सार्द्धं यं नियमं स्थिरीकृतवान् तस्य नियमस्याधिकारिणोपि यूयं भवथ।


यतः ख्रीष्टस्य सुसंवादो मम लज्जास्पदं नहि स ईश्वरस्य शक्तिस्वरूपः सन् आ यिहूदीयेभ्यो ऽन्यजातीयान् यावत् सर्व्वजातीयानां मध्ये यः कश्चिद् तत्र विश्वसिति तस्यैव त्राणं जनयति।


युष्मत्समीपे ममागमनसमये ख्रीष्टस्य सुसंवादस्य पूर्णवरेण सम्बलितः सन् अहम् आगमिष्यामि इति मया ज्ञायते।


यथा लिखितम् आस्ते, अतोऽहं सम्मुखे तिष्ठन् भिन्नदेशनिवासिनां। स्तुवंस्त्वां परिगास्यामि तव नाम्नि परेश्वर।।


अस्माकं प्रभो र्यीशोः ख्रीष्टस्य तात ईश्वरो धन्यो भवतु; यतः स ख्रीष्टेनास्मभ्यं सर्व्वम् आध्यात्मिकं स्वर्गीयवरं दत्तवान्।


अस्माकं प्रभो र्यीशुख्रीष्टस्य तात ईश्वरो धन्यः, यतः स स्वकीयबहुकृपातो मृतगणमध्याद् यीशुख्रीष्टस्योत्थानेन जीवनप्रत्याशार्थम् अर्थतो


अनिष्टस्य परिशोधेनानिष्टं निन्दाया वा परिशोधेन निन्दां न कुर्व्वन्त आशिषं दत्त यतो यूयम् आशिरधिकारिणो भवितुमाहूता इति जानीथ।


अपरञ्च युष्मान् स्खलनाद् रक्षितुम् उल्लासेन स्वीयतेजसः साक्षात् निर्द्दोषान् स्थापयितुञ्च समर्थो


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos