Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 28:8 - सत्यवेदः। Sanskrit NT in Devanagari

8 तदा तस्य पुब्लियस्य पिता ज्वरातिसारेण पीड्यमानः सन् शय्यायाम् आसीत्; ततः पौलस्तस्य समीपं गत्वा प्रार्थनां कृत्वा तस्य गात्रे हस्तं समर्प्य तं स्वस्थं कृतवान्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 তদা তস্য পুব্লিযস্য পিতা জ্ৱৰাতিসাৰেণ পীড্যমানঃ সন্ শয্যাযাম্ আসীৎ; ততঃ পৌলস্তস্য সমীপং গৎৱা প্ৰাৰ্থনাং কৃৎৱা তস্য গাত্ৰে হস্তং সমৰ্প্য তং স্ৱস্থং কৃতৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 তদা তস্য পুব্লিযস্য পিতা জ্ৱরাতিসারেণ পীড্যমানঃ সন্ শয্যাযাম্ আসীৎ; ততঃ পৌলস্তস্য সমীপং গৎৱা প্রার্থনাং কৃৎৱা তস্য গাত্রে হস্তং সমর্প্য তং স্ৱস্থং কৃতৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တဒါ တသျ ပုဗ္လိယသျ ပိတာ ဇွရာတိသာရေဏ ပီဍျမာနး သန် ၑယျာယာမ် အာသီတ်; တတး ပေါ်လသ္တသျ သမီပံ ဂတွာ ပြာရ္ထနာံ ကၖတွာ တသျ ဂါတြေ ဟသ္တံ သမရ္ပျ တံ သွသ္ထံ ကၖတဝါန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tadA tasya publiyasya pitA jvarAtisArENa pIPyamAnaH san zayyAyAm AsIt; tataH paulastasya samIpaM gatvA prArthanAM kRtvA tasya gAtrE hastaM samarpya taM svasthaM kRtavAn|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 તદા તસ્ય પુબ્લિયસ્ય પિતા જ્વરાતિસારેણ પીડ્યમાનઃ સન્ શય્યાયામ્ આસીત્; તતઃ પૌલસ્તસ્ય સમીપં ગત્વા પ્રાર્થનાં કૃત્વા તસ્ય ગાત્રે હસ્તં સમર્પ્ય તં સ્વસ્થં કૃતવાન્|

Ver Capítulo Copiar




प्रेरिता 28:8
22 Referencias Cruzadas  

अनन्तरं यीशु र्द्वादशशिष्यान् आहूयामेध्यभूतान् त्याजयितुं सर्व्वप्रकाररोगान् पीडाश्च शमयितुं तेभ्यः सामर्थ्यमदात्।


आमयग्रस्तान् स्वस्थान् कुरुत, कुष्ठिनः परिष्कुरुत, मृतलोकान् जीवयत, भूतान् त्याजयत, विना मूल्यं यूयम् अलभध्वं विनैव मूल्यं विश्राणयत।


अनन्तरं स तं मानवं गदितवान्, करं प्रसारय; तेन करे प्रसारिते सोन्यकरवत् स्वस्थोऽभवत्।


अपरं तेनैतत्कथाकथनकाले एकोऽधिपतिस्तं प्रणम्य बभाषे, मम दुहिता प्रायेणैतावत्काले मृता, तस्माद् भवानागत्य तस्या गात्रे हस्तमर्पयतु, तेन सा जीविष्यति।


अपरं तैः सर्पेषु धृतेषु प्राणनाशकवस्तुनि पीते च तेषां कापि क्षति र्न भविष्यति; रोगिणां गात्रेषु करार्पिते तेऽरोगा भविष्यन्ति च।


मम कन्या मृतप्रायाभूद् अतो भवानेत्य तदारोग्याय तस्या गात्रे हस्तम् अर्पयतु तेनैव सा जीविष्यति।


अपरञ्च तेषामप्रत्ययात् स विस्मितः कियतां रोगिणां वपुःषु हस्तम् अर्पयित्वा केवलं तेषामारोग्यकरणाद् अन्यत् किमपि चित्रकार्य्यं कर्त्तां न शक्तः।


तदा लोकैरेकं बधिरं कद्वदञ्च नरं तन्निकटमानीय तस्य गात्रे हस्तमर्पयितुं विनयः कृतः।


ततः परं तस्या गात्रे हस्तार्पणमात्रात् सा ऋजुर्भूत्वेश्वरस्य धन्यवादं कर्त्तुमारेभे।


अथ सूर्य्यास्तकाले स्वेषां ये ये जना नानारोगैः पीडिता आसन् लोकास्तान् यीशोः समीपम् आनिन्युः, तदा स एकैकस्य गात्रे करमर्पयित्वा तानरोगान् चकार।


पुब्लियनामा जन एकस्तस्योपद्वीपस्याधिपतिरासीत् तत्र तस्य भूम्यादि च स्थितं। स जनोऽस्मान् निजगृहं नीत्वा सौजन्यं प्रकाश्य दिनत्रयं यावद् अस्माकं आतिथ्यम् अकरोत्।


इत्थं भूते तद्वीपनिवासिन इतरेपि रोगिलोका आगत्य निरामया अभवन्।


किन्तु पितरस्ताः सर्व्वा बहिः कृत्वा जानुनी पातयित्वा प्रार्थितवान्; पश्चात् शवं प्रति दृष्टिं कृत्वा कथितवान्, हे टाबीथे त्वमुत्तिष्ठ, इति वाक्य उक्ते सा स्त्री चक्षुषी प्रोन्मील्य पितरम् अवलोक्योत्थायोपाविशत्।


केचित् केचित् समितावीश्वरेण प्रथमतः प्रेरिता द्वितीयत ईश्वरीयादेशवक्तारस्तृतीयत उपदेष्टारो नियुक्ताः, ततः परं केभ्योऽपि चित्रकार्य्यसाधनसामर्थ्यम् अनामयकरणशक्तिरुपकृतौ लोकशासने वा नैपुण्यं नानाभाषाभाषणसामर्थ्यं वा तेन व्यतारि।


अन्यस्मै तेनैवात्मना विश्वासः, अन्यस्मै तेनैवात्मना स्वास्थ्यदानशक्तिः,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos