Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 26:20 - सत्यवेदः। Sanskrit NT in Devanagari

20 प्रथमतो दम्मेषक्नगरे ततो यिरूशालमि सर्व्वस्मिन् यिहूदीयदेशे अन्येषु देशेषु च येेन लोका मतिं परावर्त्त्य ईश्वरं प्रति परावर्त्तयन्ते, मनःपरावर्त्तनयोग्यानि कर्म्माणि च कुर्व्वन्ति तादृशम् उपदेशं प्रचारितवान्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 প্ৰথমতো দম্মেষক্নগৰে ততো যিৰূশালমি সৰ্ৱ্ৱস্মিন্ যিহূদীযদেশে অন্যেষু দেশেষু চ যেेন লোকা মতিং পৰাৱৰ্ত্ত্য ঈশ্ৱৰং প্ৰতি পৰাৱৰ্ত্তযন্তে, মনঃপৰাৱৰ্ত্তনযোগ্যানি কৰ্ম্মাণি চ কুৰ্ৱ্ৱন্তি তাদৃশম্ উপদেশং প্ৰচাৰিতৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 প্রথমতো দম্মেষক্নগরে ততো যিরূশালমি সর্ৱ্ৱস্মিন্ যিহূদীযদেশে অন্যেষু দেশেষু চ যেेন লোকা মতিং পরাৱর্ত্ত্য ঈশ্ৱরং প্রতি পরাৱর্ত্তযন্তে, মনঃপরাৱর্ত্তনযোগ্যানি কর্ম্মাণি চ কুর্ৱ্ৱন্তি তাদৃশম্ উপদেশং প্রচারিতৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ပြထမတော ဒမ္မေၐက္နဂရေ တတော ယိရူၑာလမိ သရွွသ္မိန် ယိဟူဒီယဒေၑေ အနျေၐု ဒေၑေၐု စ ယေेန လောကာ မတိံ ပရာဝရ္တ္တျ ဤၑွရံ ပြတိ ပရာဝရ္တ္တယန္တေ, မနးပရာဝရ္တ္တနယောဂျာနိ ကရ္မ္မာဏိ စ ကုရွွန္တိ တာဒၖၑမ် ဥပဒေၑံ ပြစာရိတဝါန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 prathamatO dammESaknagarE tatO yirUzAlami sarvvasmin yihUdIyadEzE anyESu dEzESu ca yEेna lOkA matiM parAvarttya IzvaraM prati parAvarttayantE, manaHparAvarttanayOgyAni karmmANi ca kurvvanti tAdRzam upadEzaM pracAritavAn|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

20 પ્રથમતો દમ્મેષક્નગરે તતો યિરૂશાલમિ સર્વ્વસ્મિન્ યિહૂદીયદેશે અન્યેષુ દેશેષુ ચ યેेન લોકા મતિં પરાવર્ત્ત્ય ઈશ્વરં પ્રતિ પરાવર્ત્તયન્તે, મનઃપરાવર્ત્તનયોગ્યાનિ કર્મ્માણિ ચ કુર્વ્વન્તિ તાદૃશમ્ ઉપદેશં પ્રચારિતવાન્|

Ver Capítulo Copiar




प्रेरिता 26:20
56 Referencias Cruzadas  

मनांसि परावर्त्तयत, स्वर्गीयराजत्वं समीपमागतम्।


मनःपरावर्त्तनस्य समुचितं फलं फलत।


अनन्तरं यीशुः सुसंवादं प्रचारयन् एतां कथां कथयितुम् आरेभे, मनांसि परावर्त्तयत, स्वर्गीयराजत्वं सविधमभवत्।


अतो यूयं यात्वा वचनस्यास्यार्थं शिक्षध्वम्, दयायां मे यथा प्रीति र्न तथा यज्ञकर्म्मणि।यतोऽहं धार्म्मिकान् आह्वातुं नागतोऽस्मि किन्तु मनः परिवर्त्तयितुं पापिन आह्वातुम् आगतोऽस्मि।


अथ ते गत्वा लोकानां मनःपरावर्त्तनीः कथा प्रचारितवन्तः।


सन् इस्रायेल्वंशीयान् अनेकान् प्रभोः परमेश्वरस्य मार्गमानेष्यति।


युष्मानहं वदामि तथा न किन्तु मनःसु न परावर्त्तितेषु यूयमपि तथा नंक्ष्यथ।


युष्मानहं वदामि तथा न किन्तु मनःसु न परिवर्त्तितेषु यूयमपि तथा नंक्ष्यथ।


तद्वदहं युष्मान् व्याहरामि, एकेन पापिना मनसि परिवर्त्तिते, ईश्वरस्य दूतानां मध्येप्यानन्दो जायते।


तद्वदहं युष्मान् वदामि, येषां मनःपरावर्त्तनस्य प्रयोजनं नास्ति, तादृशैकोनशतधार्म्मिककारणाद् य आनन्दस्तस्माद् एकस्य मनःपरिवर्त्तिनः पापिनः कारणात् स्वर्गे ऽधिकानन्दो जायते।


कथामेतां श्रुवा ते क्षान्ता ईश्वरस्य गुणान् अनुकीर्त्त्य कथितवन्तः, तर्हि परमायुःप्राप्तिनिमित्तम् ईश्वरोन्यदेशीयलोकेभ्योपि मनःपरिवर्त्तनरूपं दानम् अदात्।


अतएव मम निवेदनमिदं भिन्नदेशीयलोकानां मध्ये ये जना ईश्वरं प्रति परावर्त्तन्त तेषामुपरि अन्यं कमपि भारं न न्यस्य


तेषां पूर्व्वीयलोकानाम् अज्ञानतां प्रतीश्वरो यद्यपि नावाधत्त तथापीदानीं सर्व्वत्र सर्व्वान् मनः परिवर्त्तयितुम् आज्ञापयति,


ततः पितरः प्रत्यवदद् यूयं सर्व्वे स्वं स्वं मनः परिवर्त्तयध्वं तथा पापमोचनार्थं यीशुख्रीष्टस्य नाम्ना मज्जिताश्च भवत, तस्माद् दानरूपं परित्रम् आत्मानं लप्स्यथ।


यिहूदीयानाम् अन्यदेशीयलोकानाञ्च समीप एतादृशं साक्ष्यं ददामि।


विशेषतो यिहूदीयलोकेभ्यो भिन्नजातीयेभ्यश्च त्वां मनोनीतं कृत्वा तेषां यथा पापमोचनं भवति


हे आग्रिप्पराज एतादृशं स्वर्गीयप्रत्यादेशं अग्राह्यम् अकृत्वाहं


अतः स्वेषां पापमोचनार्थं खेदं कृत्वा मनांसि परिवर्त्तयध्वं, तस्माद् ईश्वरात् सान्त्वनाप्राप्तेः समय उपस्थास्यति;


किन्तु प्रभुरकथयत्, याहि भिन्नदेशीयलोकानां भूपतीनाम् इस्रायेल्लोकानाञ्च निकटे मम नाम प्रचारयितुं स जनो मम मनोनीतपात्रमास्ते।


एतादृशं दृष्ट्वा लोद्शारोणनिवासिनो लोकाः प्रभुं प्रति परावर्त्तन्त।


अपरं तव मनसः परिवर्त्तनं कर्त्तुम् इश्वरस्यानुग्रहो भवति तन्न बुद्ध्वा त्वं किं तदीयानुग्रहक्षमाचिरसहिष्णुत्वनिधिं तुच्छीकरोषि?


किन्तु प्रभुं प्रति मनसि परावृत्ते तद् आवरणं दूरीकारिष्यते।


स ईश्वरीयः शोकः परित्राणजनकं निरनुतापं मनःपरिवर्त्तनं साधयति किन्तु सांसारिकः शोको मृत्युं साधयति।


युष्मान् अहं प्रभुनेदं ब्रवीम्यादिशामि च, अन्ये भिन्नजातीया इव यूयं पून र्माचरत।


यतो युष्मन्मध्ये वयं कीदृशं प्रवेशं प्राप्ता यूयञ्च कथं प्रतिमा विहायेश्वरं प्रत्यावर्त्तध्वम् अमरं सत्यमीश्वरं सेवितुं


स्वकीयव्यथाव्रणकारणाच्च स्वर्गस्थम् अनिन्दन् स्वक्रियाभ्यश्च मनांसि न परावर्त्तयन्।


अहं मनःपरिवर्त्तनाय तस्यै समयं दत्तवान् किन्तु सा स्वीयवेश्याक्रियातो मनःपरिवर्त्तयितुं नाभिलषति।


अतः कुतः पतितो ऽसि तत् स्मृत्वा मनः परावर्त्त्य पूर्व्वीयक्रियाः कुरु न चेत् त्वया मनसि न परिवर्त्तिते ऽहं तूर्णम् आगत्य तव दीपवृक्षं स्वस्थानाद् अपसारयिष्यामि।


अतः कीदृशीं शिक्षां लब्धवान् श्रुतवाश्चासि तत् स्मरन् तां पालय स्वमनः परिवर्त्तय च। चेत् प्रबुद्धो न भवेस्तर्ह्यहं स्तेन इव तव समीपम् उपस्थास्यामि किञ्च कस्मिन् दण्डे उपस्थास्यामि तन्न ज्ञास्यसि।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos