Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 23:1 - सत्यवेदः। Sanskrit NT in Devanagari

1 सभासद्लोकान् प्रति पौलोऽनन्यदृष्ट्या पश्यन् अकथयत्, हे भ्रातृगणा अद्य यावत् सरलेन सर्व्वान्तःकरणेनेश्वरस्य साक्षाद् आचरामि।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 সভাসদ্লোকান্ প্ৰতি পৌলোঽনন্যদৃষ্ট্যা পশ্যন্ অকথযৎ, হে ভ্ৰাতৃগণা অদ্য যাৱৎ সৰলেন সৰ্ৱ্ৱান্তঃকৰণেনেশ্ৱৰস্য সাক্ষাদ্ আচৰামি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 সভাসদ্লোকান্ প্রতি পৌলোঽনন্যদৃষ্ট্যা পশ্যন্ অকথযৎ, হে ভ্রাতৃগণা অদ্য যাৱৎ সরলেন সর্ৱ্ৱান্তঃকরণেনেশ্ৱরস্য সাক্ষাদ্ আচরামি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 သဘာသဒ္လေါကာန် ပြတိ ပေါ်လော'နနျဒၖၐ္ဋျာ ပၑျန် အကထယတ်, ဟေ ဘြာတၖဂဏာ အဒျ ယာဝတ် သရလေန သရွွာန္တးကရဏေနေၑွရသျ သာက္ၐာဒ် အာစရာမိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 sabhAsadlOkAn prati paulO'nanyadRSTyA pazyan akathayat, hE bhrAtRgaNA adya yAvat saralEna sarvvAntaHkaraNEnEzvarasya sAkSAd AcarAmi|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 સભાસદ્લોકાન્ પ્રતિ પૌલોઽનન્યદૃષ્ટ્યા પશ્યન્ અકથયત્, હે ભ્રાતૃગણા અદ્ય યાવત્ સરલેન સર્વ્વાન્તઃકરણેનેશ્વરસ્ય સાક્ષાદ્ આચરામિ|

Ver Capítulo Copiar




प्रेरिता 23:1
17 Referencias Cruzadas  

किन्त्वहं युष्मान् वदामि, यः कश्चित् कारणं विना निजभ्रात्रे कुप्यति, स विचारसभायां दण्डार्हो भविष्यति; यः कश्चिच्च स्वीयसहजं निर्ब्बोधं वदति, स महासभायां दण्डार्हो भविष्यति; पुनश्च त्वं मूढ इति वाक्यं यदि कश्चित् स्वीयभ्रातरं वक्ति, तर्हि नरकाग्नौ स दण्डार्हो भविष्यति।


हे पितृगणा हे भ्रातृगणाः, इदानीं मम निवेदने समवधत्त।


यिहूदीयलोकाः पौलं कुतोऽपवदन्ते तस्य वृत्तान्तं ज्ञातुं वाञ्छन् सहस्रसेनापतिः परेऽहनि पौलं बन्धनात् मोचयित्वा प्रधानयाजकान् महासभायाः सर्व्वलोकाश्च समुपस्थातुम् आदिश्य तेषां सन्निधौ पौलम् अवरोह्य स्थापितवान्।


महायाजकः सभासदः प्राचीनलोकाश्च ममैतस्याः कथायाः प्रमाणं दातुं शक्नुवन्ति, यस्मात् तेषां समीपाद् दम्मेषकनगरनिवासिभ्रातृगणार्थम् आज्ञापत्राणि गृहीत्वा ये तत्र स्थितास्तान् दण्डयितुं यिरूशालमम् आनयनार्थं दम्मेषकनगरं गतोस्मि।


अतएव साम्प्रतं सभासद्लोकैः सह वयं तस्मिन् कञ्चिद् विशेषविचारं करिष्यामस्तदर्थं भवान् श्वो ऽस्माकं समीपं तम् आनयत्विति सहस्रसेनापतये निवेदनं कुरुत तेन युष्माकं समीपं उपस्थितेः पूर्व्वं वयं तं हन्तु सज्जिष्याम।


ततः सोकथयत्, यिहूदीयलाकाः पौले कमपि विशेषविचारं छलं कृत्वा तं सभां नेतुं भवतः समीपे निवेदयितुं अमन्त्रयन्।


किन्निमित्तं ते तमपवदन्ते तज्ज्ञातुं तेषा सभां तमानायितवान्।


अनन्तरं पौलस्तेषाम् अर्द्धं सिदूकिलोका अर्द्धं फिरूशिलोका इति दृष्ट्वा प्रोच्चैः सभास्थलोकान् अवदत् हे भ्रातृगण अहं फिरूशिमतावलम्बी फिरूशिनः सत्नानश्च, मृतलोकानाम् उत्थाने प्रत्याशाकरणाद् अहमपवादितोस्मि।


ईश्वरस्य मानवानाञ्च समीपे यथा निर्दोषो भवामि तदर्थं सततं यत्नवान् अस्मि।


तदा महासभास्थाः सर्व्वे तं प्रति स्थिरां दृष्टिं कृत्वा स्वर्गदूतमुखसदृशं तस्य मुखम् अपश्यन्।


मया किमप्यपराद्धमित्यहं न वेद्मि किन्त्वेतेन मम निरपराधत्वं न निश्चीयते प्रभुरेव मम विचारयितास्ति।


अपरञ्च संसारमध्ये विशेषतो युष्मन्मध्ये वयं सांसारिक्या धिया नहि किन्त्वीश्वरस्यानुग्रहेणाकुटिलताम् ईश्वरीयसारल्यञ्चाचरितवन्तोऽत्रास्माकं मनो यत् प्रमाणं ददाति तेन वयं श्लाघामहे।


किन्तु त्रपायुक्तानि प्रच्छन्नकर्म्माणि विहाय कुटिलताचरणमकुर्व्वन्त ईश्वरीयवाक्यं मिथ्यावाक्यैरमिश्रयन्तः सत्यधर्म्मस्य प्रकाशनेनेश्वरस्य साक्षात् सर्व्वमानवानां संवेदगोचरे स्वान् प्रशंसनीयान् दर्शयामः।


अहम् आ पूर्व्वपुरुषात् यम् ईश्वरं पवित्रमनसा सेवे तं धन्यं वदनं कथयामि, अहम् अहोरात्रं प्रार्थनासमये त्वां निरन्तरं स्मरामि।


अपरञ्च यूयम् अस्मन्निमित्तिं प्रार्थनां कुरुत यतो वयम् उत्तममनोविशिष्टाः सर्व्वत्र सदाचारं कर्त्तुम् इच्छुकाश्च भवाम इति निश्चितं जानीमः।


ये च ख्रीष्टधर्म्मे युष्माकं सदाचारं दूषयन्ति ते दुष्कर्म्मकारिणामिव युष्माकम् अपवादेन यत् लज्जिता भवेयुस्तदर्थं युष्माकम् उत्तमः संवेदो भवतु।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos