Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 21:20 - सत्यवेदः। Sanskrit NT in Devanagari

20 इति श्रुत्वा ते प्रभुं धन्यं प्रोच्य वाक्यमिदम् अभाषन्त, हे भ्रात र्यिहूदीयानां मध्ये बहुसहस्राणि लोका विश्वासिन आसते किन्तु ते सर्व्वे व्यवस्थामताचारिण एतत् प्रत्यक्षं पश्यसि।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 ইতি শ্ৰুৎৱা তে প্ৰভুং ধন্যং প্ৰোচ্য ৱাক্যমিদম্ অভাষন্ত, হে ভ্ৰাত ৰ্যিহূদীযানাং মধ্যে বহুসহস্ৰাণি লোকা ৱিশ্ৱাসিন আসতে কিন্তু তে সৰ্ৱ্ৱে ৱ্যৱস্থামতাচাৰিণ এতৎ প্ৰত্যক্ষং পশ্যসি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 ইতি শ্রুৎৱা তে প্রভুং ধন্যং প্রোচ্য ৱাক্যমিদম্ অভাষন্ত, হে ভ্রাত র্যিহূদীযানাং মধ্যে বহুসহস্রাণি লোকা ৱিশ্ৱাসিন আসতে কিন্তু তে সর্ৱ্ৱে ৱ্যৱস্থামতাচারিণ এতৎ প্রত্যক্ষং পশ্যসি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ဣတိ ၑြုတွာ တေ ပြဘုံ ဓနျံ ပြောစျ ဝါကျမိဒမ် အဘာၐန္တ, ဟေ ဘြာတ ရျိဟူဒီယာနာံ မဓျေ ဗဟုသဟသြာဏိ လောကာ ဝိၑွာသိန အာသတေ ကိန္တု တေ သရွွေ ဝျဝသ္ထာမတာစာရိဏ ဧတတ် ပြတျက္ၐံ ပၑျသိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 iti zrutvA tE prabhuM dhanyaM prOcya vAkyamidam abhASanta, hE bhrAta ryihUdIyAnAM madhyE bahusahasrANi lOkA vizvAsina AsatE kintu tE sarvvE vyavasthAmatAcAriNa Etat pratyakSaM pazyasi|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

20 ઇતિ શ્રુત્વા તે પ્રભું ધન્યં પ્રોચ્ય વાક્યમિદમ્ અભાષન્ત, હે ભ્રાત ર્યિહૂદીયાનાં મધ્યે બહુસહસ્રાણિ લોકા વિશ્વાસિન આસતે કિન્તુ તે સર્વ્વે વ્યવસ્થામતાચારિણ એતત્ પ્રત્યક્ષં પશ્યસિ|

Ver Capítulo Copiar




प्रेरिता 21:20
28 Referencias Cruzadas  

मानवा इत्थं विलोक्य विस्मयं मेनिरे, ईश्वरेण मानवाय सामर्थ्यम् ईदृशं दत्तं इति कारणात् तं धन्यं बभाषिरे च।


तदानीं लोकाः सहस्रं सहस्रम् आगत्य समुपस्थितास्तत एकैको ऽन्येषामुपरि पतितुम् उपचक्रमे; तदा यीशुः शिष्यान् बभाषे, यूयं फिरूशिनां किण्वरूपकापट्ये विशेषेण सावधानास्तिष्ठत।


किन्तु तवायं भ्राता मृतः पुनरजीवीद् हारितश्च भूत्वा प्राप्तोभूत्, एतस्मात् कारणाद् उत्सवानन्दौ कर्त्तुम् उचितमस्माकम्।


अहं युष्मानतियथार्थं वदामि, धान्यबीजं मृत्तिकायां पतित्वा यदि न मृयते तर्ह्येकाकी तिष्ठति किन्तु यदि मृयते तर्हि बहुगुणं फलं फलति।


कथामेतां श्रुवा ते क्षान्ता ईश्वरस्य गुणान् अनुकीर्त्त्य कथितवन्तः, तर्हि परमायुःप्राप्तिनिमित्तम् ईश्वरोन्यदेशीयलोकेभ्योपि मनःपरिवर्त्तनरूपं दानम् अदात्।


यिहूदादेशात् कियन्तो जना आगत्य भ्रातृगणमित्थं शिक्षितवन्तो मूसाव्यवस्थया यदि युष्माकं त्वक्छेदो न भवति तर्हि यूयं परित्राणं प्राप्तुं न शक्ष्यथ।


विशेषतोऽस्माकम् आज्ञाम् अप्राप्यापि कियन्तो जना अस्माकं मध्याद् गत्वा त्वक्छेदो मूसाव्यवस्था च पालयितव्याविति युष्मान् शिक्षयित्वा युष्माकं मनसामस्थैर्य्यं कृत्वा युष्मान् ससन्देहान् अकुर्व्वन् एतां कथां वयम् अशृन्म।


किन्तु विश्वासिनः कियन्तः फिरूशिमतग्राहिणो लोका उत्थाय कथामेतां कथितवन्तो भिन्नदेशीयानां त्वक्छेदं कर्त्तुं मूसाव्यवस्थां पालयितुञ्च समादेष्टव्यम्।


ततः परं ये सानन्दास्तां कथाम् अगृह्लन् ते मज्जिता अभवन्। तस्मिन् दिवसे प्रायेण त्रीणि सहस्राणि लोकास्तेषां सपक्षाः सन्तः


पश्चात् सोऽकथयद् अहं यिहूदीय इति निश्चयः किलिकियादेशस्य तार्षनगरं मम जन्मभूमिः,एतन्नगरीयस्य गमिलीयेलनाम्नोऽध्यापकस्य शिष्यो भूत्वा पूर्व्वपुरुषाणां विधिव्यवस्थानुसारेण सम्पूर्णरूपेण शिक्षितोऽभवम् इदानीन्तना यूयं यादृशा भवथ तादृशोऽहमपीश्वरसेवायाम् उद्योगी जातः।


यदघटत तद् दृष्टा सर्व्वे लोका ईश्वरस्य गुणान् अन्ववदन् तस्मात् लोकभयात् तौ दण्डयितुं कमप्युपायं न प्राप्य ते पुनरपि तर्जयित्वा तावत्यजन्।


तथापि ये लोकास्तयोरुपदेशम् अशृण्वन् तेषां प्रायेण पञ्चसहस्राणि जना व्यश्वसन्।


अपरञ्च ईश्वरस्य कथा देशं व्याप्नोत् विशेषतो यिरूशालमि नगरे शिष्याणां संख्या प्रभूतरूपेणावर्द्धत याजकानां मध्येपि बहवः ख्रीष्टमतग्राहिणोऽभवन्।


यत ईश्वरे तेषां चेष्टा विद्यत इत्यत्राहं साक्ष्यस्मि; किन्तु तेषां सा चेष्टा सज्ञाना नहि,


अपरञ्च पूर्व्वपुरुषपरम्परागतेषु वाक्येष्वन्यापेक्षातीवासक्तः सन् अहं यिहूदिधर्म्मते मम समवयस्कान् बहून् स्वजातीयान् अत्यशयि।


तस्मात् ते मामधीश्वरं धन्यमवदन्।


किन्तु तस्मिन् दिने स्वकीयपवित्रलोकेषु विराजितुं युष्मान् अपरांश्च सर्व्वान् विश्वासिलोकान् विस्मापयितुञ्च स आगमिष्यति यतो ऽस्माकं प्रमाणे युष्माभि र्विश्वासोऽकारि।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos