Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 15:32 - सत्यवेदः। Sanskrit NT in Devanagari

32 यिहूदासीलौ च स्वयं प्रचारकौ भूत्वा भ्रातृगणं नानोपदिश्य तान् सुस्थिरान् अकुरुताम्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 যিহূদাসীলৌ চ স্ৱযং প্ৰচাৰকৌ ভূৎৱা ভ্ৰাতৃগণং নানোপদিশ্য তান্ সুস্থিৰান্ অকুৰুতাম্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 যিহূদাসীলৌ চ স্ৱযং প্রচারকৌ ভূৎৱা ভ্রাতৃগণং নানোপদিশ্য তান্ সুস্থিরান্ অকুরুতাম্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 ယိဟူဒါသီလော် စ သွယံ ပြစာရကော် ဘူတွာ ဘြာတၖဂဏံ နာနောပဒိၑျ တာန် သုသ္ထိရာန် အကုရုတာမ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 yihUdAsIlau ca svayaM pracArakau bhUtvA bhrAtRgaNaM nAnOpadizya tAn susthirAn akurutAm|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

32 યિહૂદાસીલૌ ચ સ્વયં પ્રચારકૌ ભૂત્વા ભ્રાતૃગણં નાનોપદિશ્ય તાન્ સુસ્થિરાન્ અકુરુતામ્|

Ver Capítulo Copiar




प्रेरिता 15:32
39 Referencias Cruzadas  

पश्यत, युष्माकमन्तिकम् अहं भविष्यद्वादिनो बुद्धिमत उपाध्यायांश्च प्रेषयिष्यामि, किन्तु तेषां कतिपया युष्माभि र्घानिष्यन्ते, क्रुशे च घानिष्यन्ते, केचिद् भजनभवने कषाभिराघानिष्यन्ते, नगरे नगरे ताडिष्यन्ते च;


अतएव ईश्वरस्य शास्त्रे प्रोक्तमस्ति तेषामन्तिके भविष्यद्वादिनः प्रेरितांश्च प्रेषयिष्यामि ततस्ते तेषां कांश्चन हनिष्यन्ति कांश्चन ताडश्ष्यिन्ति।


ततो बर्णब्बास्तत्र उपस्थितः सन् ईश्वरस्यानुग्रहस्य फलं दृष्ट्वा सानन्दो जातः,


ततः परं भविष्यद्वादिगणे यिरूशालम आन्तियखियानगरम् आगते सति


अपरञ्च बर्णब्बाः, शिमोन् यं निग्रं वदन्ति, कुरीनीयलूकियो हेरोदा राज्ञा सह कृतविद्यााभ्यासो मिनहेम्, शौलश्चैते ये कियन्तो जना भविष्यद्वादिन उपदेष्टारश्चान्तियखियानगरस्थमण्डल्याम् आसन्,


बहुदुःखानि भुक्त्वापीश्वरराज्यं प्रवेष्टव्यम् इति कारणाद् धर्म्ममार्गे स्थातुं विनयं कृत्वा शिष्यगणस्य मनःस्थैर्य्यम् अकुरुतां।


यिहूदादेशात् कियन्तो जना आगत्य भ्रातृगणमित्थं शिक्षितवन्तो मूसाव्यवस्थया यदि युष्माकं त्वक्छेदो न भवति तर्हि यूयं परित्राणं प्राप्तुं न शक्ष्यथ।


ततः परं प्रेरितगणो लोकप्राचीनगणः सर्व्वा मण्डली च स्वेषां मध्ये बर्शब्बा नाम्ना विख्यातो मनोनीतौ कृत्वा पौलबर्णब्बाभ्यां सार्द्धम् आन्तियखियानगरं प्रति प्रेषणम् उचितं बुद्ध्वा ताभ्यां पत्रं प्रैषयन्।


अतो यिहूदासीलौ युष्मान् प्रति प्रेषितवन्तः, एतयो र्मुखाभ्यां सर्व्वां कथां ज्ञास्यथ।


ते मण्डल्या प्रेरिताः सन्तः फैणीकीशोमिरोन्देशाभ्यां गत्वा भिन्नदेशीयानां मनःपरिवर्त्तनस्य वार्त्तया भ्रातृणां परमाह्लादम् अजनयन्।


ततस्ते तत्पत्रं पठित्वा सान्त्वनां प्राप्य सानन्दा अभवन्।


सुरियाकिलिकियादेशाभ्यां मण्डलीः स्थिरीकुर्व्वन् अगच्छत्।


तत्र कियत्कालं यापयित्वा तस्मात् प्रस्थाय सर्व्वेषां शिष्याणां मनांसि सुस्थिराणि कृत्वा क्रमशो गलातियाफ्रुगियादेशयो र्भ्रमित्वा गतवान्।


एतदन्याभि र्बहुकथाभिः प्रमाणं दत्वाकथयत् एतेभ्यो विपथगामिभ्यो वर्त्तमानलोकेभ्यः स्वान् रक्षत।


तेन स्थानेन गच्छन् तद्देशीयान् शिष्यान् बहूपदिश्य यूनानीयदेशम् उपस्थितवान्।


अस्माद् ईश्वरानुग्रहेण विशेषं विशेषं दानम् अस्मासु प्राप्तेषु सत्सु कोपि यदि भविष्यद्वाक्यं वदति तर्हि प्रत्ययस्य परिमाणानुसारतः स तद् वदतु;


तथा य उपदेष्टा भवति स उपदिशतु यश्च दाता स सरलतया ददातु यस्त्वधिपतिः स यत्नेनाधिपतित्वं करोतु यश्च दयालुः स हृष्टमनसा दयताम्।


अपरम् अस्माकं प्रभो र्यीशुख्रीष्टस्य दिवसे यूयं यन्निर्द्दोषा भवेत तदर्थं सएव यावदन्तं युष्मान् सुस्थिरान् करिष्यति।


अपरं द्वौ त्रयो वेश्वरीयादेशवक्तारः स्वं स्वमादेशं कथयन्तु तदन्ये च तं विचारयन्तु।


किन्तु यो जन ईश्वरीयादेशं कथयति स परेषां निष्ठायै हितोपदेशाय सान्त्वनायै च भाषते।


ईश्वरीयादेशवक्तृणां मनांसि तेषाम् अधीनानि भवन्ति।


पूर्व्वयुगेषु मानवसन्तानास्तं ज्ञापिता नासन् किन्त्वधुना स भावस्तस्य पवित्रान् प्रेरितान् भविष्यद्वादिनश्च प्रत्यात्मना प्रकाशितोऽभवत्;


अपरञ्च यद्वत् पिता स्वबालकान् तद्वद् वयं युष्माकम् एकैकं जनम् उपदिष्टवन्तः सान्त्वितवन्तश्च,


स्वभ्रातरं ख्रीष्टस्य सुसंवादे सहकारिणञ्चेश्वरस्य परिचारकं तीमथियं युष्मत्समीपम् अप्रेषयं।


हे भ्रातरः, युष्माभिः कीदृग् आचरितव्यं ईश्वराय रोचितव्यञ्च तदध्यस्मत्तो या शिक्षा लब्धा तदनुसारात् पुनरतिशयं यत्नः क्रियतामिति वयं प्रभुयीशुना युष्मान् विनीयादिशामः।


हे भ्रातरः, युष्मान् विनयामहे यूयम् अविहिताचारिणो लोकान् भर्त्सयध्वं, क्षुद्रमनसः सान्त्वयत, दुर्ब्बलान् उपकुरुत, सर्व्वान् प्रति सहिष्णवो भवत च।


ईश्वरीयादेशं नावजानीत।


तादृशान् लोकान् अस्मतप्रभो र्यीशुख्रीष्टस्य नाम्ना वयम् इदम् आदिशाम आज्ञापयामश्च, ते शान्तभावेन कार्य्यं कुर्व्वन्तः स्वकीयमन्नं भुञ्जतां।


मम प्रथम आदेशोऽयं, प्रार्थनाविनयनिवेदनधन्यवादाः कर्त्तव्याः,


त्वं वाक्यं घोषय कालेऽकाले चोत्सुको भव पूर्णया सहिष्णुतया शिक्षया च लोकान् प्रबोधय भर्त्सय विनयस्व च।


ख्रीष्टस्य क्लेशानां साक्षी प्रकाशिष्यमाणस्य प्रतापस्यांशी प्राचीनश्चाहं युष्माकं प्राचीनान् विनीयेदं वदामि।


क्षणिकदुःखभोगात् परम् अस्मभ्यं ख्रीष्टेन यीशुना स्वकीयानन्तगौरवदानार्थं योऽस्मान् आहूतवान् स सर्व्वानुग्राहीश्वरः स्वयं युष्मान् सिद्धान् स्थिरान् सबलान् निश्चलांश्च करोतु।


यः सिल्वानो (मन्ये) युष्माकं विश्वास्यो भ्राता भवति तद्वाराहं संक्षेपेण लिखित्वा युष्मान् विनीतवान् यूयञ्च यस्मिन् अधितिष्ठथ स एवेश्वरस्य सत्यो ऽनुग्रह इति प्रमाणं दत्तवान्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos