Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 13:2 - सत्यवेदः। Sanskrit NT in Devanagari

2 ते यदोपवासं कृत्वेश्वरम् असेवन्त तस्मिन् समये पवित्र आत्मा कथितवान् अहं यस्मिन् कर्म्मणि बर्णब्बाशैलौ नियुक्तवान् तत्कर्म्म कर्त्तुं तौ पृथक् कुरुत।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 তে যদোপৱাসং কৃৎৱেশ্ৱৰম্ অসেৱন্ত তস্মিন্ সমযে পৱিত্ৰ আত্মা কথিতৱান্ অহং যস্মিন্ কৰ্ম্মণি বৰ্ণব্বাশৈলৌ নিযুক্তৱান্ তৎকৰ্ম্ম কৰ্ত্তুং তৌ পৃথক্ কুৰুত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 তে যদোপৱাসং কৃৎৱেশ্ৱরম্ অসেৱন্ত তস্মিন্ সমযে পৱিত্র আত্মা কথিতৱান্ অহং যস্মিন্ কর্ম্মণি বর্ণব্বাশৈলৌ নিযুক্তৱান্ তৎকর্ম্ম কর্ত্তুং তৌ পৃথক্ কুরুত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 တေ ယဒေါပဝါသံ ကၖတွေၑွရမ် အသေဝန္တ တသ္မိန် သမယေ ပဝိတြ အာတ္မာ ကထိတဝါန် အဟံ ယသ္မိန် ကရ္မ္မဏိ ဗရ္ဏဗ္ဗာၑဲလော် နိယုက္တဝါန် တတ္ကရ္မ္မ ကရ္တ္တုံ တော် ပၖထက် ကုရုတ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 tE yadOpavAsaM kRtvEzvaram asEvanta tasmin samayE pavitra AtmA kathitavAn ahaM yasmin karmmaNi barNabbAzailau niyuktavAn tatkarmma karttuM tau pRthak kuruta|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

2 તે યદોપવાસં કૃત્વેશ્વરમ્ અસેવન્ત તસ્મિન્ સમયે પવિત્ર આત્મા કથિતવાન્ અહં યસ્મિન્ કર્મ્મણિ બર્ણબ્બાશૈલૌ નિયુક્તવાન્ તત્કર્મ્મ કર્ત્તું તૌ પૃથક્ કુરુત|

Ver Capítulo Copiar




प्रेरिता 13:2
41 Referencias Cruzadas  

युष्मानहं तथ्यं वच्मि यदि युष्माकं सर्षपैकमात्रोपि विश्वासो जायते, तर्हि युष्माभिरस्मिन् शैले त्वमितः स्थानात् तत् स्थानं याहीति ब्रूते स तदैव चलिष्यति, युष्माकं किमप्यसाध्यञ्च कर्म्म न स्थास्याति। किन्तु प्रार्थनोपवासौ विनैतादृशो भूतो न त्याज्येत।


अपरम् उपवासकाले कपटिनो जना मानुषान् उपवासं ज्ञापयितुं स्वेषां वदनानि म्लानानि कुर्व्वन्ति, यूयं तइव विषणवदना मा भवत; अहं युष्मान् तथ्यं वदामि ते स्वकीयफलम् अलभन्त।


क्षेत्रं प्रत्यपरान् छेदकान् प्रहेतुं शस्यस्वामिनं प्रार्थयध्वम्।


ततः परं प्रभुरपरान् सप्ततिशिष्यान् नियुज्य स्वयं यानि नगराणि यानि स्थानानि च गमिष्यति तानि नगराणि तानि स्थानानि च प्रति द्वौ द्वौ जनौ प्रहितवान्।


मन्दिरे स्थित्वा प्रार्थनोपवासैर्दिवानिशम् ईश्वरम् असेवत सापि स्त्री तस्मिन् समये मन्दिरमागत्य


यदा पितरस्तद्दर्शनस्य भावं मनसान्दोलयति तदात्मा तमवदत्, पश्य त्रयो जनास्त्वां मृगयन्ते।


तदा कर्णीलियः कथितवान्, अद्य चत्वारि दिनानि जातानि एतावद्वेलां यावद् अहम् अनाहार आसन् ततस्तृतीयप्रहरे सति गृहे प्रार्थनसमये तेजोमयवस्त्रभृद् एको जनो मम समक्षं तिष्ठन् एतां कथाम् अकथयत्,


ततस्तैरुपवासप्रार्थनयोः कृतयोः सतोस्ते तयो र्गात्रयो र्हस्तार्पणं कृत्वा तौ व्यसृजन्।


ततः परं तौ पवित्रेणात्मना प्रेरितौ सन्तौ सिलूकियानगरम् उपस्थाय समुद्रपथेन कुप्रोपद्वीपम् अगच्छतां।


तस्मात् समुद्रपथेन गत्वा ताभ्यां यत् कर्म्म सम्पन्नं तत्कर्म्म साधयितुं यन्नगरे दयालोरीश्वरस्य हस्ते समर्पितौ जातौ तद् आन्तियखियानगरं गतवन्ता।


यूयं स्वेषु तथा यस्य व्रजस्याध्यक्षन् आत्मा युष्मान् विधाय न्ययुङ्क्त तत्सर्व्वस्मिन् सावधाना भवत, य समाजञ्च प्रभु र्निजरक्तमूल्येन क्रीतवान तम् अवत,


ततः सोऽकथयत् प्रतिष्ठस्व त्वां दूरस्थभिन्नदेशीयानां समीपं प्रेषयिष्ये।


विशेषतः कुप्रोपद्वीपीयो योसिनामको लेविवंशजात एको जनो भूम्यधिकारी, यं प्रेरिता बर्णब्बा अर्थात् सान्त्वनादायक इत्युक्त्वा समाहूयन्,


किन्तु वयं प्रार्थनायां कथाप्रचारकर्म्मणि च नित्यप्रवृत्ताः स्थास्यामः।


एतस्मिन् समये आत्मा फिलिपम् अवदत्, त्वम् रथस्य समीपं गत्वा तेन सार्द्धं मिल।


किन्तु प्रभुरकथयत्, याहि भिन्नदेशीयलोकानां भूपतीनाम् इस्रायेल्लोकानाञ्च निकटे मम नाम प्रचारयितुं स जनो मम मनोनीतपात्रमास्ते।


ईश्वरो निजपुत्रमधि यं सुसंवादं भविष्यद्वादिभि र्धर्म्मग्रन्थे प्रतिश्रुतवान् तं सुसंवादं प्रचारयितुं पृथक्कृत आहूतः प्रेरितश्च प्रभो र्यीशुख्रीष्टस्य सेवको यः पौलः


यदि वा प्रेरिता न भवन्ति तदा कथं प्रचारयिष्यन्ति? यादृशं लिखितम् आस्ते, यथा, माङ्गलिकं सुसंवादं ददत्यानीय ये नराः। प्रचारयन्ति शान्तेश्च सुसंवादं जनास्तु ये। तेषां चरणपद्मानि कीदृक् शोभान्वितानि हि।


भिन्नजातीयाः पवित्रेणात्मना पावितनैवेद्यरूपा भूत्वा यद् ग्राह्या भवेयुस्तन्निमित्तमहम् ईश्वरस्य सुसंवादं प्रचारयितुं भिन्नजातीयानां मध्ये यीशुख्रीष्टस्य सेवकत्वं दानं ईश्वरात् लब्धवानस्मि।


एकेनाद्वितीयेनात्मना यथाभिलाषम् एकैकस्मै जनायैकैकं दानं वितरता तानि सर्व्वाणि साध्यन्ते।


उपोषणप्रार्थनयोः सेवनार्थम् एकमन्त्रणानां युष्माकं कियत्कालं यावद् या पृथक्स्थिति र्भवति तदन्यो विच्छेदो युष्मन्मध्ये न भवतु, ततः परम् इन्द्रियाणाम् अधैर्य्यात् शयतान् यद् युष्मान् परीक्षां न नयेत् तदर्थं पुनरेकत्र मिलत।


परिश्रमक्लेशाभ्यां वारं वारं जागरणेन क्षुधातृष्णाभ्यां बहुवारं निराहारेण शीतनग्नताभ्याञ्चाहं कालं यापितवान्।


निर्म्मलत्वं ज्ञानं मृदुशीलता हितैषिता


किञ्च य ईश्वरो मातृगर्भस्थं मां पृथक् कृत्वा स्वीयानुग्रहेणाहूतवान्


तद्वारा ख्रीष्टेन भिन्नजातीया अन्यैः सार्द्धम् एकाधिकारा एकशरीरा एकस्याः प्रतिज्ञाया अंशिनश्च भविष्यन्तीति।


अपरम् आर्खिप्पं वदत प्रभो र्यत् परिचर्य्यापदं त्वयाप्रापि तत्साधनाय सावधानो भव।


तद्घोषयिता दूतो विश्वासे सत्यधर्म्मे च भिन्नजातीयानाम् उपदेशकश्चाहं न्ययूज्ये, एतदहं ख्रीष्टस्य नाम्ना यथातथ्यं वदामि नानृतं कथयामि।


तस्य घोषयिता दूतश्चान्यजातीयानां शिक्षकश्चाहं नियुक्तोऽस्मि।


अपरं बहुभिः साक्षिभिः प्रमाणीकृतां यां शिक्षां श्रुतवानसि तां विश्वास्येषु परस्मै शिक्षादाने निपुणेषु च लोकेषु समर्पय।


केवलो लूको मया सार्द्धं विद्यते। त्वं मार्कं सङ्गिनं कृत्वागच्छ यतः स परिचर्य्यया ममोपकारी भविष्यति,


किन्तु त्वं सर्व्वविषये प्रबुद्धो भव दुःखभोगं स्वीकुरु सुसंवादप्रचारकस्य कर्म्म साधय निजपरिचर्य्यां पूर्णत्वेन कुरु च।


स घोच्चपदः स्वेच्छातः केनापि न गृह्यते किन्तु हारोण इव य ईश्वरेणाहूयते तेनैव गृह्यते।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos