Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 13:10 - सत्यवेदः। Sanskrit NT in Devanagari

10 हे नरकिन् धर्म्मद्वेषिन् कौटिल्यदुष्कर्म्मपरिपूर्ण, त्वं किं प्रभोः सत्यपथस्य विपर्य्ययकरणात् कदापि न निवर्त्तिष्यसे?

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 হে নৰকিন্ ধৰ্ম্মদ্ৱেষিন্ কৌটিল্যদুষ্কৰ্ম্মপৰিপূৰ্ণ, ৎৱং কিং প্ৰভোঃ সত্যপথস্য ৱিপৰ্য্যযকৰণাৎ কদাপি ন নিৱৰ্ত্তিষ্যসে?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 হে নরকিন্ ধর্ম্মদ্ৱেষিন্ কৌটিল্যদুষ্কর্ম্মপরিপূর্ণ, ৎৱং কিং প্রভোঃ সত্যপথস্য ৱিপর্য্যযকরণাৎ কদাপি ন নিৱর্ত্তিষ্যসে?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ဟေ နရကိန် ဓရ္မ္မဒွေၐိန် ကော်ဋိလျဒုၐ္ကရ္မ္မပရိပူရ္ဏ, တွံ ကိံ ပြဘေား သတျပထသျ ဝိပရျျယကရဏာတ် ကဒါပိ န နိဝရ္တ္တိၐျသေ?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 hE narakin dharmmadvESin kauTilyaduSkarmmaparipUrNa, tvaM kiM prabhOH satyapathasya viparyyayakaraNAt kadApi na nivarttiSyasE?

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

10 હે નરકિન્ ધર્મ્મદ્વેષિન્ કૌટિલ્યદુષ્કર્મ્મપરિપૂર્ણ, ત્વં કિં પ્રભોઃ સત્યપથસ્ય વિપર્ય્યયકરણાત્ કદાપિ ન નિવર્ત્તિષ્યસે?

Ver Capítulo Copiar




प्रेरिता 13:10
23 Referencias Cruzadas  

क्षेत्रं जगत्, भद्रबीजानी राज्यस्य सन्तानाः,


यतोऽन्तःकरणात् कुचिन्ता बधः पारदारिकता वेश्यागमनं चैर्य्यं मिथ्यासाक्ष्यम् ईश्वरनिन्दा चैतानि सर्व्वाणि निर्य्यान्ति।


हन्त कपटिन उपाध्यायाः फिरूशिनश्च, यूयं मनुजानां समक्षं स्वर्गद्वारं रुन्ध, यूयं स्वयं तेन न प्रविशथ, प्रविविक्षूनपि वारयथ। वत कपटिन उपाध्यायाः फिरूशिनश्च यूयं छलाद् दीर्घं प्रार्थ्य विधवानां सर्व्वस्वं ग्रसथ, युष्माकं घोरतरदण्डो भविष्यति।


अपरं बहून् फिरूशिनः सिदूकिनश्च मनुजान् मंक्तुं स्वसमीपम् आगच्छ्तो विलोक्य स तान् अभिदधौ, रे रे भुजगवंशा आगामीनः कोपात् पलायितुं युष्मान् कश्चेतितवान्?


तदा प्रभुस्तं प्रोवाच यूयं फिरूशिलोकाः पानपात्राणां भोजनपात्राणाञ्च बहिः परिष्कुरुथ किन्तु युष्माकमन्त र्दौरात्म्यै र्दुष्क्रियाभिश्च परिपूर्णं तिष्ठति।


हा हा व्यवस्थपका यूयं ज्ञानस्य कुञ्चिकां हृत्वा स्वयं न प्रविष्टा ये प्रवेष्टुञ्च प्रयासिनस्तानपि प्रवेष्टुं वारितवन्तः।


तदा सोवदत्। परमेशस्य पन्थानं परिष्कुरुत सर्व्वतः। इतीदं प्रान्तरे वाक्यं वदतः कस्यचिद्रवः। कथामिमां यस्मिन् यिशयियो भविष्यद्वादी लिखितवान् सोहम्।


यूयं शैतान् पितुः सन्ताना एतस्माद् युष्माकं पितुरभिलाषं पूरयथ स आ प्रथमात् नरघाती तदन्तः सत्यत्वस्य लेशोपि नास्ति कारणादतः स सत्यतायां नातिष्ठत् स यदा मृषा कथयति तदा निजस्वभावानुसारेणैव कथयति यतो स मृषाभाषी मृषोत्पादकश्च।


युष्माकमेव मध्यादपि लोका उत्थाय शिष्यगणम् अपहन्तुं विपरीतम् उपदेक्ष्यन्तीत्यहं जानामि।


किन्तु सर्पेण स्वखलतया यद्वद् हवा वञ्चयाञ्चके तद्वत् ख्रीष्टं प्रति सतीत्वाद् युष्माकं भ्रंशः सम्भविष्यतीति बिभेमि।


सोऽन्यसुसंवादः सुसंवादो नहि किन्तु केचित् मानवा युष्मान् चञ्चलीकुर्व्वन्ति ख्रीष्टीयसुसंवादस्य विपर्य्ययं कर्त्तुं चेष्टन्ते च।


अतएव मानुषाणां चातुरीतो भ्रमकधूर्त्ततायाश्छलाच्च जातेन सर्व्वेण शिक्षावायुना वयं यद् बालका इव दोलायमाना न भ्राम्याम इत्यस्माभि र्यतितव्यं,


ते शापग्रस्ता वंशाः सरलमार्गं विहाय बियोरपुत्रस्य बिलियमस्य विपथेन व्रजन्तो भ्रान्ता अभवन्। स बिलियमो ऽप्यधर्म्मात् प्राप्ये पारितोषिकेऽप्रीयत,


यः पापाचारं करोति स शयतानात् जातो यतः शयतान आदितः पापाचारी शयतानस्य कर्म्मणां लोपार्थमेवेश्वरस्य पुत्रः प्राकाशत।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos