Biblia Todo Logo
La Biblia Online

- Anuncios -




2 थिस्सलुनीकियों 3:2 - सत्यवेदः। Sanskrit NT in Devanagari

2 यच्च वयम् अविवेचकेभ्यो दुष्टेभ्यश्च लोकेभ्यो रक्षां प्राप्नुयाम यतः सर्व्वेषां विश्वासो न भवति।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 যচ্চ ৱযম্ অৱিৱেচকেভ্যো দুষ্টেভ্যশ্চ লোকেভ্যো ৰক্ষাং প্ৰাপ্নুযাম যতঃ সৰ্ৱ্ৱেষাং ৱিশ্ৱাসো ন ভৱতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 যচ্চ ৱযম্ অৱিৱেচকেভ্যো দুষ্টেভ্যশ্চ লোকেভ্যো রক্ষাং প্রাপ্নুযাম যতঃ সর্ৱ্ৱেষাং ৱিশ্ৱাসো ন ভৱতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ယစ္စ ဝယမ် အဝိဝေစကေဘျော ဒုၐ္ဋေဘျၑ္စ လောကေဘျော ရက္ၐာံ ပြာပ္နုယာမ ယတး သရွွေၐာံ ဝိၑွာသော န ဘဝတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 yacca vayam avivEcakEbhyO duSTEbhyazca lOkEbhyO rakSAM prApnuyAma yataH sarvvESAM vizvAsO na bhavati|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

2 યચ્ચ વયમ્ અવિવેચકેભ્યો દુષ્ટેભ્યશ્ચ લોકેભ્યો રક્ષાં પ્રાપ્નુયામ યતઃ સર્વ્વેષાં વિશ્વાસો ન ભવતિ|

Ver Capítulo Copiar




2 थिस्सलुनीकियों 3:2
18 Referencias Cruzadas  

तदा यीशुः कथितवान् रे अविश्वासिनः, रे विपथगामिनः, पुनः कतिकालान् अहं युष्माकं सन्निधौ स्थास्यामि? कतिकालान् वा युष्मान् सहिष्ये? तमत्र ममान्तिकमानयत।


हन्त कपटिन उपाध्यायाः फिरूशिनश्च, यूयं पोदिनायाः सितच्छत्राया जीरकस्य च दशमांशान् दत्थ, किन्तु व्यवस्थाया गुरुतरान् न्यायदयाविश्वासान् परित्यजथ; इमे युष्माभिराचरणीया अमी च न लंघनीयाः।


युष्मानहं वदामि त्वरया परिष्करिष्यति, किन्तु यदा मनुष्यपुत्र आगमिष्यति तदा पृथिव्यां किमीदृशं विश्वासं प्राप्स्यति?


किन्तु यिहूदीयलोका जननिवहं विलोक्य ईर्ष्यया परिपूर्णाः सन्तो विपरीतकथाकथनेनेश्वरनिन्दया च पौलेनोक्तां कथां खण्डयितुं चेष्टितवन्तः।


किन्तु यिहूदीया नगरस्य प्रधानपुरुषान् सम्मान्याः कथिपया भक्ता योषितश्च कुप्रवृत्तिं ग्राहयित्वा पौलबर्णब्बौ ताडयित्वा तस्मात् प्रदेशाद् दूरीकृतवन्तः।


किन्तु विश्वासहीना यिहूदीया अन्यदेशीयलोकान् कुप्रवृत्तिं ग्राहयित्वा भ्रातृगणं प्रति तेषां वैरं जनितवन्तः।


किन्तु विश्वासहीना यिहूदीयलोका ईर्ष्यया परिपूर्णाः सन्तो हटट्स्य कतिनयलम्पटलोकान् सङ्गिनः कृत्वा जनतया नगरमध्ये महाकलहं कृत्वा यासोनो गृहम् आक्रम्य प्रेरितान् धृत्वा लोकनिवहस्य समीपम् आनेतुं चेष्टितवन्तः।


यतो बन्दिप्रेषणसमये तस्याभियोगस्य किञ्चिदलेखनम् अहम् अयुक्तं जानामि।


केचित्तु तस्य कथां प्रत्यायन् केचित्तु न प्रत्यायन्;


किन्तु ते सर्व्वे तं सुसंवादं न गृहीतवन्तः। यिशायियो यथा लिखितवान्। अस्मत्प्रचारिते वाक्ये विश्वासमकरोद्धि कः।


यिहूदादेशस्थानाम् अविश्वासिलोकानां करेभ्यो यदहं रक्षां लभेय मदीयैतेन सेवनकर्म्मणा च यद् यिरूशालमस्थाः पवित्रलोकास्तुष्येयुः,


इफिषनगरे वन्यपशुभिः सार्द्धं यदि लौकिकभावात् मया युद्धं कृतं तर्हि तेन मम को लाभः? मृतानाम् उत्थिति र्यदि न भवेत् तर्हि, कुर्म्मो भोजनपानेऽद्य श्वस्तु मृत्यु र्भविष्यति।


द्विरेककृत्वो वा युष्मत्समीपगमनायास्माकं विशेषतः पौलस्य ममाभिलाषोऽभवत् किन्तु शयतानो ऽस्मान् निवारितवान्।


किन्तु प्रभु र्मम सहायो ऽभवत् यथा च मया घोषणा साध्येत भिन्नजातीयाश्च सर्व्वे सुसंवादं शृणुयुस्तथा मह्यं शक्तिम् अददात् ततो ऽहं सिंहस्य मुखाद् उद्धृतः।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos