Biblia Todo Logo
La Biblia Online

- Anuncios -




2 कुरिन्थियों 12:15 - सत्यवेदः। Sanskrit NT in Devanagari

15 अपरञ्च युष्मासु बहु प्रीयमाणोऽप्यहं यदि युष्मत्तोऽल्पं प्रम लभे तथापि युष्माकं प्राणरक्षार्थं सानन्दं बहु व्ययं सर्व्वव्ययञ्च करिष्यामि।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 অপৰঞ্চ যুষ্মাসু বহু প্ৰীযমাণোঽপ্যহং যদি যুষ্মত্তোঽল্পং প্ৰম লভে তথাপি যুষ্মাকং প্ৰাণৰক্ষাৰ্থং সানন্দং বহু ৱ্যযং সৰ্ৱ্ৱৱ্যযঞ্চ কৰিষ্যামি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 অপরঞ্চ যুষ্মাসু বহু প্রীযমাণোঽপ্যহং যদি যুষ্মত্তোঽল্পং প্রম লভে তথাপি যুষ্মাকং প্রাণরক্ষার্থং সানন্দং বহু ৱ্যযং সর্ৱ্ৱৱ্যযঞ্চ করিষ্যামি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 အပရဉ္စ ယုၐ္မာသု ဗဟု ပြီယမာဏော'ပျဟံ ယဒိ ယုၐ္မတ္တော'လ္ပံ ပြမ လဘေ တထာပိ ယုၐ္မာကံ ပြာဏရက္ၐာရ္ထံ သာနန္ဒံ ဗဟု ဝျယံ သရွွဝျယဉ္စ ကရိၐျာမိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 aparanjca yuSmAsu bahu prIyamANO'pyahaM yadi yuSmattO'lpaM prama labhE tathApi yuSmAkaM prANarakSArthaM sAnandaM bahu vyayaM sarvvavyayanjca kariSyAmi|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 અપરઞ્ચ યુષ્માસુ બહુ પ્રીયમાણોઽપ્યહં યદિ યુષ્મત્તોઽલ્પં પ્રમ લભે તથાપિ યુષ્માકં પ્રાણરક્ષાર્થં સાનન્દં બહુ વ્યયં સર્વ્વવ્યયઞ્ચ કરિષ્યામિ|

Ver Capítulo Copiar




2 कुरिन्थियों 12:15
22 Referencias Cruzadas  

तस्माद् अहं स्वजातीयभ्रातृणां निमित्तात् स्वयं ख्रीष्टाच्छापाक्रान्तो भवितुम् ऐच्छम्।


यूयमितः पूर्व्वमप्यस्मान् अंशतो गृहीतवन्तः, यतः प्रभो र्यीशुख्रीष्टस्य दिने यद्वद् युष्मास्वस्माकं श्लाघा तद्वद् अस्मासु युष्माकमपि श्लाघा भविष्यति।


वयं यदि क्लिश्यामहे तर्हि युष्माकं सान्त्वनापरित्राणयोः कृते क्लिश्यामहे यतोऽस्माभि र्यादृशानि दुःखानि सह्यन्ते युष्माकं तादृशदुःखानां सहनेन तौ साधयिष्येते इत्यस्मिन् युष्मानधि मम दृढा प्रत्याशा भवति।


एतस्य कारणं किं? युष्मासु मम प्रेम नास्त्येतत् किं तत्कारणं? तद् ईश्वरो वेत्ति।


पश्यत तृतीयवारं युुष्मत्समीपं गन्तुमुद्यतोऽस्मि तत्राप्यहं युष्मान् भाराक्रान्तान् न करिष्यामि। युष्माकं सम्पत्तिमहं न मृगये किन्तु युष्मानेव, यतः पित्रोः कृते सन्तानानां धनसञ्चयोऽनुपयुक्तः किन्तु सन्तानानां कृते पित्रो र्धनसञ्चय उपयुक्तः।


ततः स मामुक्तवान् ममानुग्रहस्तव सर्व्वसाधकः, यतो दौर्ब्बल्यात् मम शक्तिः पूर्णतां गच्छतीति। अतः ख्रीष्टस्य शक्ति र्यन्माम् आश्रयति तदर्थं स्वदौर्ब्बल्येन मम श्लाघनं सुखदं।


मम यो हर्षः स युष्माकं सर्व्वेषां हर्ष एवेति निश्चितं मयाबोधि; अतएव यैरहं हर्षयितव्यस्तै र्मदुपस्थितिसमये यन्मम शोको न जायेत तदर्थमेव युष्मभ्यम् एतादृशं पत्रं मया लिखितं।


इत्थं वयं मृत्याक्रान्ता यूयञ्च जीवनाक्रान्ताः।


यूयम् अस्मान् गृह्लीत। अस्माभिः कस्याप्यन्यायो न कृतः कोऽपि न वञ्चितः।


युष्मान् दोषिणः कर्त्तमहं वाक्यमेतद् वदामीति नहि युष्माभिः सह जीवनाय मरणाय वा वयं युष्मान् स्वान्तःकरणै र्धारयाम इति पूर्व्वं मयोक्तं।


यूयं दिवसान् मासान् तिथीन् संवत्सरांश्च सम्मन्यध्वे।


युष्माकं विश्वासार्थकाय बलिदानाय सेवनाय च यद्यप्यहं निवेदितव्यो भवेयं तथापि तेनानन्दामि सर्व्वेषां युष्माकम् आनन्दस्यांशी भवामि च।


तस्य सुसंवादस्यैकः परिचारको योऽहं पौलः सोऽहम् इदानीम् आनन्देन युष्मदर्थं दुःखानि सहे ख्रीष्टस्य क्लेशभोगस्य योंशोऽपूर्णस्तमेव तस्य तनोः समितेः कृते स्वशरीरे पूरयामि च।


युष्मभ्यं केवलम् ईश्वरस्य सुसंवादं तन्नहि किन्तु स्वकीयप्राणान् अपि दातुं मनोभिरभ्यलषाम, यतो यूयम् अस्माकं स्नेहपात्राण्यभवत।


ख्रीष्टेन यीशुना यद् अनन्तगौरवसहितं परित्राणं जायते तदभिरुचितै र्लोकैरपि यत् लभ्येत तदर्थमहं तेषां निमित्तं सर्व्वाण्येतानि सहे।


यूयं स्वनायकानाम् आज्ञाग्राहिणो वश्याश्च भवत यतो यैरुपनिधिः प्रतिदातव्यस्तादृशा लोका इव ते युष्मदीयात्मनां रक्षणार्थं जाग्रति, अतस्ते यथा सानन्दास्तत् कुर्य्यु र्न च सार्त्तस्वरा अत्र यतध्वं यतस्तेषाम् आर्त्तस्वरो युष्माकम् इष्टजनको न भवेत्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos