Biblia Todo Logo
La Biblia Online

- Anuncios -




1 थिस्सलुनीकियों 3:3 - सत्यवेदः। Sanskrit NT in Devanagari

3 वर्त्तमानैः क्लेशैः कस्यापि चाञ्चल्यं यथा न जायते तथा ते त्वया स्थिरीक्रियन्तां स्वकीयधर्म्ममधि समाश्वास्यन्ताञ्चेति तम् आदिशं।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 ৱৰ্ত্তমানৈঃ ক্লেশৈঃ কস্যাপি চাঞ্চল্যং যথা ন জাযতে তথা তে ৎৱযা স্থিৰীক্ৰিযন্তাং স্ৱকীযধৰ্ম্মমধি সমাশ্ৱাস্যন্তাঞ্চেতি তম্ আদিশং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 ৱর্ত্তমানৈঃ ক্লেশৈঃ কস্যাপি চাঞ্চল্যং যথা ন জাযতে তথা তে ৎৱযা স্থিরীক্রিযন্তাং স্ৱকীযধর্ম্মমধি সমাশ্ৱাস্যন্তাঞ্চেতি তম্ আদিশং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ဝရ္တ္တမာနဲး က္လေၑဲး ကသျာပိ စာဉ္စလျံ ယထာ န ဇာယတေ တထာ တေ တွယာ သ္ထိရီကြိယန္တာံ သွကီယဓရ္မ္မမဓိ သမာၑွာသျန္တာဉ္စေတိ တမ် အာဒိၑံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 varttamAnaiH klEzaiH kasyApi cAnjcalyaM yathA na jAyatE tathA tE tvayA sthirIkriyantAM svakIyadharmmamadhi samAzvAsyantAnjcEti tam AdizaM|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 વર્ત્તમાનૈઃ ક્લેશૈઃ કસ્યાપિ ચાઞ્ચલ્યં યથા ન જાયતે તથા તે ત્વયા સ્થિરીક્રિયન્તાં સ્વકીયધર્મ્મમધિ સમાશ્વાસ્યન્તાઞ્ચેતિ તમ્ આદિશં|

Ver Capítulo Copiar




1 थिस्सलुनीकियों 3:3
29 Referencias Cruzadas  

किन्तु सर्व्वासामेतासां घटनानां पूर्व्वं लोका युष्मान् धृत्वा ताडयिष्यन्ति, भजनालये कारायाञ्च समर्पयिष्यन्ति मम नामकारणाद् युष्मान् भूपानां शासकानाञ्च सम्मुखं नेष्यन्ति च।


लोका युष्मान् भजनगृहेभ्यो दूरीकरिष्यन्ति तथा यस्मिन् समये युष्मान् हत्वा ईश्वरस्य तुष्टि जनकं कर्म्माकुर्म्म इति मंस्यन्ते स समय आगच्छन्ति।


यथा मया युष्माकं शान्ति र्जायते तदर्थम् एताः कथा युष्मभ्यम् अचकथं; अस्मिन् जगति युष्माकं क्लेशो घटिष्यते किन्त्वक्षोभा भवत यतो मया जगज्जितं।


बहुदुःखानि भुक्त्वापीश्वरराज्यं प्रवेष्टव्यम् इति कारणाद् धर्म्ममार्गे स्थातुं विनयं कृत्वा शिष्यगणस्य मनःस्थैर्य्यम् अकुरुतां।


एतस्तिन् दायूदपि कथितवान् यथा, सर्व्वदा मम साक्षात्तं स्थापय परमेश्वरं। स्थिते मद्दक्षिणे तस्मिन् स्खलिष्यामि त्वहं नहि।


सोस्माकं समीपमेत्य पौलस्य कटिबन्धनं गृहीत्वा निजहस्तापादान् बद्ध्वा भाषितवान् यस्येदं कटिबन्धनं तं यिहूदीयलोका यिरूशालमनगर इत्थं बद्ध्वा भिन्नदेशीयानां करेषु समर्पयिष्यन्तीति वाक्यं पवित्र आत्मा कथयति।


किन्तु स प्रत्यावादीत्, यूयं किं कुरुथ? किं क्रन्दनेन ममान्तःकरणं विदीर्णं करिष्यथ? प्रभो र्यीशो र्नाम्नो निमित्तं यिरूशालमि बद्धो भवितुं केवल तन्न प्राणान् दातुमपि ससज्जोस्मि।


मम नामनिमित्तञ्च तेन कियान् महान् क्लेशो भोक्तव्य एतत् तं दर्शयिष्यामि।


तत् केवलं नहि किन्तु क्लेशभोगेऽप्यानन्दामो यतः क्लेशााद् धैर्य्यं जायत इति वयं जानीमः,


अतो हे मम प्रियभ्रातरः; यूयं सुस्थिरा निश्चलाश्च भवत प्रभोः सेवायां युष्माकं परिश्रमो निष्फलो न भविष्यतीति ज्ञात्वा प्रभोः कार्य्ये सदा तत्परा भवत।


प्रेरिता वयं शेषा हन्तव्याश्चेवेश्वरेण निदर्शिताः। यतो वयं सर्व्वलोकानाम् अर्थतः स्वर्गीयदूतानां मानवानाञ्च कौतुकास्पदानि जाताः।


अतोऽहं युष्मन्निमित्तं दुःखभोगेन क्लान्तिं यन्न गच्छामीति प्रार्थये यतस्तदेव युष्माकं गौरवं।


तत् तेषां विनाशस्य लक्षणं युष्माकञ्चेश्वरदत्तं परित्राणस्य लक्षणं भविष्यति।


किन्त्वेतदर्थं युष्माभि र्बद्धमूलैः सुस्थिरैश्च भवितव्यम्, आकाशमण्डलस्याधःस्थितानां सर्व्वलोकानां मध्ये च घुष्यमाणो यः सुसंवादो युष्माभिरश्रावि तज्जातायां प्रत्याशायां युष्माभिरचलै र्भवितव्यं।


यत ईश्वरोऽस्मान् क्रोधे न नियुज्यास्माकं प्रभुना यीशुख्रीष्टेन परित्राणस्याधिकारे नियुुक्तवान्,


तस्माद् युष्माभि र्यावन्त उपद्रवक्लेशाः सह्यन्ते तेषु यद् धेैर्य्यं यश्च विश्वासः प्रकाश्यते तत्कारणाद् वयम् ईश्वरीयसमितिषु युष्माभिः श्लाघामहे।


अतएवास्माकं प्रभुमधि तस्य वन्दिदासं मामधि च प्रमाणं दातुं न त्रपस्व किन्त्वीश्वरीयशक्त्या सुसंवादस्य कृते दुःखस्य सहभागी भव।


तदर्थमेव यूयम् आहूता यतः ख्रीष्टोऽपि युष्मन्निमित्तं दुःखं भुक्त्वा यूयं यत् तस्य पदचिह्नै र्व्रजेत तदर्थं दृष्टान्तमेकं दर्शितवान्।


त्वया यो यः क्लेशः सोढव्यस्तस्मात् मा भैषीः पश्य शयतानो युष्माकं परीक्षार्थं कांश्चित् कारायां निक्षेप्स्यति दश दिनानि यावत् क्लेशो युष्मासु वर्त्तिष्यते च। त्वं मृत्युपर्य्यन्तं विश्वास्यो भव तेनाहं जीवनकिरीटं तुभ्यं दास्यामि।


तव क्रिया मम गोचराः, यत्र शयतानस्य सिंहासनं तत्रैव त्वं वससि तदपि जानामि। त्वं मम नाम धारयसि मद्भक्तेरस्वीकारस्त्वया न कृतो मम विश्वास्यसाक्षिण आन्तिपाः समये ऽपि न कृतः। स तु युष्मन्मध्ये ऽघानि यतः शयतानस्तत्रैव निवसति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos