Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 6:15 - सत्यवेदः। Sanskrit NT in Devanagari

15 युष्माकं यानि शरीराणि तानि ख्रीष्टस्याङ्गानीति किं यूयं न जानीथ? अतः ख्रीष्टस्य यान्यङ्गानि तानि मयापहृत्य वेश्याया अङ्गानि किं कारिष्यन्ते? तन्न भवतु।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 যুষ্মাকং যানি শৰীৰাণি তানি খ্ৰীষ্টস্যাঙ্গানীতি কিং যূযং ন জানীথ? অতঃ খ্ৰীষ্টস্য যান্যঙ্গানি তানি মযাপহৃত্য ৱেশ্যাযা অঙ্গানি কিং কাৰিষ্যন্তে? তন্ন ভৱতু|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 যুষ্মাকং যানি শরীরাণি তানি খ্রীষ্টস্যাঙ্গানীতি কিং যূযং ন জানীথ? অতঃ খ্রীষ্টস্য যান্যঙ্গানি তানি মযাপহৃত্য ৱেশ্যাযা অঙ্গানি কিং কারিষ্যন্তে? তন্ন ভৱতু|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ယုၐ္မာကံ ယာနိ ၑရီရာဏိ တာနိ ခြီၐ္ဋသျာင်္ဂါနီတိ ကိံ ယူယံ န ဇာနီထ? အတး ခြီၐ္ဋသျ ယာနျင်္ဂါနိ တာနိ မယာပဟၖတျ ဝေၑျာယာ အင်္ဂါနိ ကိံ ကာရိၐျန္တေ? တန္န ဘဝတု၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 yuSmAkaM yAni zarIrANi tAni khrISTasyAggAnIti kiM yUyaM na jAnItha? ataH khrISTasya yAnyaggAni tAni mayApahRtya vEzyAyA aggAni kiM kAriSyantE? tanna bhavatu|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 યુષ્માકં યાનિ શરીરાણિ તાનિ ખ્રીષ્ટસ્યાઙ્ગાનીતિ કિં યૂયં ન જાનીથ? અતઃ ખ્રીષ્ટસ્ય યાન્યઙ્ગાનિ તાનિ મયાપહૃત્ય વેશ્યાયા અઙ્ગાનિ કિં કારિષ્યન્તે? તન્ન ભવતુ|

Ver Capítulo Copiar




1 कुरिन्थियों 6:15
25 Referencias Cruzadas  

स आगत्य तान् कृषीवलान् हत्वा परेषां हस्तेषु तत्क्षेत्रं समर्पयिष्यति; इति कथां श्रुत्वा ते ऽवदन् एतादृशी घटना न भवतु।


तद्वदस्माकं बहुत्वेऽपि सर्व्वे वयं ख्रीष्टे एकशरीराः परस्परम् अङ्गप्रत्यङ्गत्वेन भवामः।


तर्हि विश्वासेन वयं किं व्यवस्थां लुम्पाम? इत्थं न भवतु वयं व्यवस्थां संस्थापयाम एव।


इत्थं न भवतु, तथा सतीश्वरः कथं जगतो विचारयिता भविष्यति?


किन्तु वयं व्यवस्थाया अनायत्ता अनुग्रहस्य चायत्ता अभवाम, इति कारणात् किं पापं करिष्यामः? तन्न भवतु।


पापं प्रति मृता वयं पुनस्तस्मिन् कथम् जीविष्यामः?


तर्हि यत् स्वयं हितकृत् तत् किं मम मृत्युजनकम् अभवत्? नेत्थं भवतु; किन्तु पापं यत् पातकमिव प्रकाशते तथा निदेशेन पापं यदतीव पातकमिव प्रकाशते तदर्थं हितोपायेन मम मरणम् अजनयत्।


तर्हि वयं किं ब्रूमः? व्यवस्था किं पापजनिका भवति? नेत्थं भवतु। व्यवस्थाम् अविद्यमानायां पापं किम् इत्यहं नावेदं; किञ्च लोभं मा कार्षीरिति चेद् व्यवस्थाग्रन्थे लिखितं नाभविष्यत् तर्हि लोभः किम्भूतस्तदहं नाज्ञास्यं।


एकैकस्य पुरुषस्योत्तमाङ्गस्वरूपः ख्रीष्टः, योषितश्चोत्तमाङ्गस्वरूपः पुमान्, ख्रीष्टस्य चोत्तमाङ्गस्वरूप ईश्वरः।


यूयञ्च ख्रीष्टस्य शरीरं, युष्माकम् एकैकश्च तस्यैकैकम् अङ्गं।


उदराय भक्ष्याणि भक्ष्येभ्यश्चोदरं, किन्तु भक्ष्योदरे ईश्वरेण नाशयिष्येते; अपरं देहो न व्यभिचाराय किन्तु प्रभवे प्रभुश्च देहाय।


मानवा यान्यन्यानि कलुषाणि कुर्व्वते तानि वपु र्न समाविशन्ति किन्तु व्यभिचारिणा स्वविग्रहस्य विरुद्धं कल्मषं क्रियते।


युष्माकं यानि वपूंसि तानि युष्मदन्तःस्थितस्येश्वराल्लब्धस्य पवित्रस्यात्मनो मन्दिराणि यूयञ्च स्वेषां स्वामिनो नाध्वे किमेतद् युष्माभि र्न ज्ञायते?


दूता अप्यस्माभि र्विचारयिष्यन्त इति किं न जानीथ? अत ऐहिकविषयाः किम् अस्माभि र्न विचारयितव्या भवेयुः?


परन्तु यीशुना पुण्यप्राप्तये यतमानावप्यावां यदि पापिनौ भवावस्तर्हि किं वक्तव्यं? ख्रीष्टः पापस्य परिचारक इति? तन्न भवतु।


तर्हि व्यवस्था किम् ईश्वरस्य प्रतिज्ञानां विरुद्धा? तन्न भवतु। यस्माद् यदि सा व्यवस्था जीवनदानेसमर्थाभविष्यत् तर्हि व्यवस्थयैव पुण्यलाभोऽभविष्यत्।


किन्तु येनाहं संसाराय हतः संसारोऽपि मह्यं हतस्तदस्मत्प्रभो र्यीशुख्रीष्टस्य क्रुशं विनान्यत्र कुत्रापि मम श्लाघनं कदापि न भवतु।


यावद् वयं सर्व्वे विश्वासस्येश्वरपुत्रविषयकस्य तत्त्वज्ञानस्य चैक्यं सम्पूर्णं पुरुषर्थञ्चार्थतः ख्रीष्टस्य सम्पूर्णपरिमाणस्य समं परिमाणं न प्राप्नुमस्तावत्


यतः ख्रीष्टो यद्वत् समिते र्मूर्द्धा शरीरस्य त्राता च भवति तद्वत् स्वामी योषितो मूर्द्धा।


यतो वयं तस्य शरीरस्याङ्गानि मांसास्थीनि च भवामः।


सन्धिभिः शिराभिश्चोपकृतं संयुक्तञ्च कृत्स्नं शरीरं यस्मात् मूर्द्धत ईश्वरीयवृद्धिं प्राप्नोति तं मूर्द्धानं न धारयति तेन मानवेन युष्मत्तः फलापहरणं नानुजानीत।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos