Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 4:14 - सत्यवेदः। Sanskrit NT in Devanagari

14 युष्मान् त्रपयितुमहमेतानि लिखामीति नहि किन्तु प्रियात्मजानिव युष्मान् प्रबोधयामि।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 যুষ্মান্ ত্ৰপযিতুমহমেতানি লিখামীতি নহি কিন্তু প্ৰিযাত্মজানিৱ যুষ্মান্ প্ৰবোধযামি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 যুষ্মান্ ত্রপযিতুমহমেতানি লিখামীতি নহি কিন্তু প্রিযাত্মজানিৱ যুষ্মান্ প্রবোধযামি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ယုၐ္မာန် တြပယိတုမဟမေတာနိ လိခါမီတိ နဟိ ကိန္တု ပြိယာတ္မဇာနိဝ ယုၐ္မာန် ပြဗောဓယာမိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 yuSmAn trapayitumahamEtAni likhAmIti nahi kintu priyAtmajAniva yuSmAn prabOdhayAmi|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

14 યુષ્માન્ ત્રપયિતુમહમેતાનિ લિખામીતિ નહિ કિન્તુ પ્રિયાત્મજાનિવ યુષ્માન્ પ્રબોધયામિ|

Ver Capítulo Copiar




1 कुरिन्थियों 4:14
19 Referencias Cruzadas  

इति हेतो र्यूयं सचैतन्याः सन्तस्तिष्टत, अहञ्च साश्रुपातः सन् वत्सरत्रयं यावद् दिवानिशं प्रतिजनं बोधयितुं न न्यवर्त्ते तदपि स्मरत।


यूयं यथोचितं सचैतन्यास्तिष्ठत, पापं मा कुरुध्वं, यतो युष्माकं मध्य ईश्वरीयज्ञानहीनाः केऽपि विद्यन्ते युष्माकं त्रपायै मयेदं गद्यते।


यतः ख्रीष्टधर्म्मे यद्यपि युष्माकं दशसहस्राणि विनेतारो भवन्ति तथापि बहवो जनका न भवन्ति यतोऽहमेव सुसंवादेन यीशुख्रीष्टे युष्मान् अजनयं।


इत्यर्थं सर्व्वेषु धर्म्मसमाजेषु सर्व्वत्र ख्रीष्टधर्म्मयोग्या ये विधयो मयोपदिश्यन्ते तान् यो युष्मान् स्मारयिष्यत्येवम्भूतं प्रभोः कृते प्रियं विश्वासिनञ्च मदीयतनयं तीमथियं युष्माकं समीपं प्रेषितवानहं।


अहं युष्मान् त्रपयितुमिच्छन् वदामि यृष्मन्मध्ये किमेकोऽपि मनुष्यस्तादृग् बुद्धिमान्नहि यो भ्रातृविवादविचारणे समर्थः स्यात्?


अहमेतेषां सर्व्वेषां किमपि नाश्रितवान् मां प्रति तदनुसारात् आचरितव्यमित्याशयेनापि पत्रमिदं मया न लिख्यते यतः केनापि जनेन मम यशसो मुधाकरणात् मम मरणं वरं।


एतस्य कारणं किं? युष्मासु मम प्रेम नास्त्येतत् किं तत्कारणं? तद् ईश्वरो वेत्ति।


युष्माकं समीपे वयं पुन र्दोषक्षालनकथां कथयाम इति किं बुध्यध्वे? हे प्रियतमाः, युष्माकं निष्ठार्थं वयमीश्वरस्य समक्षं ख्रीष्टेन सर्व्वाण्येतानि कथयामः।


युष्मान् दोषिणः कर्त्तमहं वाक्यमेतद् वदामीति नहि युष्माभिः सह जीवनाय मरणाय वा वयं युष्मान् स्वान्तःकरणै र्धारयाम इति पूर्व्वं मयोक्तं।


तस्माद् वयं तमेव घोषयन्तो यद् एकैकं मानवं सिद्धीभूतं ख्रीष्टे स्थापयेम तदर्थमेकैकं मानवं प्रबोधयामः पूर्णज्ञानेन चैकैकं मानवं उपदिशामः।


अपरञ्च यद्वत् पिता स्वबालकान् तद्वद् वयं युष्माकम् एकैकं जनम् उपदिष्टवन्तः सान्त्वितवन्तश्च,


हे भ्रातरः, युष्मान् विनयामहे यूयम् अविहिताचारिणो लोकान् भर्त्सयध्वं, क्षुद्रमनसः सान्त्वयत, दुर्ब्बलान् उपकुरुत, सर्व्वान् प्रति सहिष्णवो भवत च।


यदि च कश्चिदेतत्पत्रे लिखिताम् अस्माकम् आज्ञां न गृह्लाति तर्हि यूयं तं मानुषं लक्षयत तस्य संसर्गं त्यजत च तेन स त्रपिष्यते।


अतः शृङ्खलबद्धोऽहं यमजनयं तं मदीयतनयम् ओनीषिमम् अधि त्वां विनये।


हे प्रियबालकाः, युष्माभि र्यत् पापं न क्रियेत तदर्थं युष्मान् प्रत्येतानि मया लिख्यन्ते। यदि तु केनापि पापं क्रियते तर्हि पितुः समीपे ऽस्माकं एकः सहायो ऽर्थतो धार्म्मिको यीशुः ख्रीष्टो विद्यते।


मम सन्तानाः सत्यमतमाचरन्तीतिवार्त्तातो मम य आनन्दो जायते ततो महत्तरो नास्ति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos