Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 14:2 - सत्यवेदः। Sanskrit NT in Devanagari

2 यो जनः परभाषां भाषते स मानुषान् न सम्भाषते किन्त्वीश्वरमेव यतः केनापि किमपि न बुध्यते स चात्मना निगूढवाक्यानि कथयति;

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 যো জনঃ পৰভাষাং ভাষতে স মানুষান্ ন সম্ভাষতে কিন্ত্ৱীশ্ৱৰমেৱ যতঃ কেনাপি কিমপি ন বুধ্যতে স চাত্মনা নিগূঢৱাক্যানি কথযতি;

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 যো জনঃ পরভাষাং ভাষতে স মানুষান্ ন সম্ভাষতে কিন্ত্ৱীশ্ৱরমেৱ যতঃ কেনাপি কিমপি ন বুধ্যতে স চাত্মনা নিগূঢৱাক্যানি কথযতি;

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ယော ဇနး ပရဘာၐာံ ဘာၐတေ သ မာနုၐာန် န သမ္ဘာၐတေ ကိန္တွီၑွရမေဝ ယတး ကေနာပိ ကိမပိ န ဗုဓျတေ သ စာတ္မနာ နိဂူဎဝါကျာနိ ကထယတိ;

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 yO janaH parabhASAM bhASatE sa mAnuSAn na sambhASatE kintvIzvaramEva yataH kEnApi kimapi na budhyatE sa cAtmanA nigUPhavAkyAni kathayati;

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

2 યો જનઃ પરભાષાં ભાષતે સ માનુષાન્ ન સમ્ભાષતે કિન્ત્વીશ્વરમેવ યતઃ કેનાપિ કિમપિ ન બુધ્યતે સ ચાત્મના નિગૂઢવાક્યાનિ કથયતિ;

Ver Capítulo Copiar




1 कुरिन्थियों 14:2
33 Referencias Cruzadas  

ततः स प्रत्यवदत्, स्वर्गराज्यस्य निगूढां कथां वेदितुं युष्मभ्यं सामर्थ्यमदायि, किन्तु तेभ्यो नादायि।


किञ्च ये प्रत्येष्यन्ति तैरीदृग् आश्चर्य्यं कर्म्म प्रकाशयिष्यते ते मन्नाम्ना भूतान् त्याजयिष्यन्ति भाषा अन्याश्च वदिष्यन्ति।


तदा स तानुदितवान् ईश्वरराज्यस्य निगूढवाक्यं बोद्धुं युष्माकमधिकारोऽस्ति;


ते नानाजातीयभाषाभिः कथां कथयन्त ईश्वरं प्रशंसन्ति, इति दृष्ट्वा श्रुत्वा च विस्मयम् आपद्यन्त।


ततः पौलेन तेषां गात्रेषु करेऽर्पिते तेषामुपरि पवित्र आत्मावरूढवान्, तस्मात् ते नानादेशीया भाषा भविष्यत्कथाश्च कथितवन्तः।


मम सङ्गिनो लोकास्तां दीप्तिं दृष्ट्वा भियं प्राप्ताः, किन्तु माम्प्रत्युदितं तद्वाक्यं तेे नाबुध्यन्त।


पूर्व्वकालिकयुगेषु प्रच्छन्ना या मन्त्रणाधुना प्रकाशिता भूत्वा भविष्यद्वादिलिखितग्रन्थगणस्य प्रमाणाद् विश्वासेन ग्रहणार्थं सदातनस्येश्वरस्याज्ञया सर्व्वदेशीयलोकान् ज्ञाप्यते,


अन्यस्मै दुःसाध्यसाधनशक्तिरन्यस्मै चेश्वरीयादेशः, अन्यस्मै चातिमानुषिकस्यादेशस्य विचारसामर्थ्यम्, अन्यस्मै परभाषाभाषणशक्तिरन्यस्मै च भाषार्थभाषणसामर्यं दीयते।


केचित् केचित् समितावीश्वरेण प्रथमतः प्रेरिता द्वितीयत ईश्वरीयादेशवक्तारस्तृतीयत उपदेष्टारो नियुक्ताः, ततः परं केभ्योऽपि चित्रकार्य्यसाधनसामर्थ्यम् अनामयकरणशक्तिरुपकृतौ लोकशासने वा नैपुण्यं नानाभाषाभाषणसामर्थ्यं वा तेन व्यतारि।


मर्त्यस्वर्गीयाणां भाषा भाषमाणोऽहं यदि प्रेमहीनो भवेयं तर्हि वादकतालस्वरूपो निनादकारिभेरीस्वरूपश्च भवामि।


अपरञ्च यद्यहम् ईश्वरीयादेशाढ्यः स्यां सर्व्वाणि गुप्तवाक्यानि सर्व्वविद्याञ्च जानीयां पूर्णविश्वासः सन् शैलान् स्थानान्तरीकर्त्तुं शक्नुयाञ्च किन्तु यदि प्रेमहीनो भवेयं तर्ह्यगणनीय एव भवामि।


त्वं यदात्मना धन्यवादं करोषि तदा यद् वदसि तद् यदि शिष्येनेवोपस्थितेन जनेन न बुद्ध्यते तर्हि तव धन्यवादस्यान्ते तथास्त्विति तेन वक्तं कथं शक्यते?


हे भ्रातरः, सम्मिलितानां युष्माकम् एकेन गीतम् अन्येनोपदेशोऽन्येन परभाषान्येन ऐश्वरिकदर्शनम् अन्येनार्थबोधकं वाक्यं लभ्यते किमेतत्? सर्व्वमेव परनिष्ठार्थं युष्माभिः क्रियतां।


पश्यताहं युष्मभ्यं निगूढां कथां निवेदयामि।


अपरमीश्वरः स्वात्मना तदस्माकं साक्षात् प्राकाशयत्; यत आत्मा सर्व्वमेवानुसन्धत्ते तेन चेश्वरस्य मर्म्मतत्त्वमपि बुध्यते।


किन्तु कालावस्थायाः पूर्व्वस्माद् यत् ज्ञानम् अस्माकं विभवार्थम् ईश्वरेण निश्चित्य प्रच्छन्नं तन्निगूढम् ईश्वरीयज्ञानं प्रभाषामहे।


अहञ्च यस्य सुसंवादस्य शृङ्खलबद्धः प्रचारकदूतोऽस्मि तम् उपयुक्तेनोत्साहेन प्रचारयितुं यथा शक्नुयां


फलतः पूर्णबुद्धिरूपधनभोगाय प्रेम्ना संयुक्तानां तेषां मनांसि यत् पितुरीश्वरस्य ख्रीष्टस्य च निगूढवाक्यस्य ज्ञानार्थं सान्त्वनां प्राप्नुयुरित्यर्थमहं यते।


अपरं यस्य महत्त्वं सर्व्वस्वीकृतम् ईश्वरभक्तेस्तत् निगूढवाक्यमिदम् ईश्वरो मानवदेहे प्रकाशित आत्मना सपुण्यीकृतो दूतैः सन्दृष्टः सर्व्वजातीयानां निकटे घोषितो जगतो विश्वासपात्रीभूतस्तेजःप्राप्तये स्वर्गं नीतश्चेति।


निर्म्मलसंवेदेन च विश्वासस्य निगूढवाक्यं धातिव्यञ्च।


किन्तु तूरीं वादिष्यतः सप्तमदूतस्य तूरीवादनसमय ईश्वरस्य गुप्ता मन्त्रणा तस्य दासान् भविष्यद्वादिनः प्रति तेन सुसंवादे यथा प्रकाशिता तथैव सिद्धा भविष्यति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos