Biblia Todo Logo
La Biblia Online

- Anuncios -




1 कुरिन्थियों 10:32 - सत्यवेदः। Sanskrit NT in Devanagari

32 यिहूदीयानां भिन्नजातीयानाम् ईश्वरस्य समाजस्य वा विघ्नजनकै र्युष्माभि र्न भवितव्यं।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 যিহূদীযানাং ভিন্নজাতীযানাম্ ঈশ্ৱৰস্য সমাজস্য ৱা ৱিঘ্নজনকৈ ৰ্যুষ্মাভি ৰ্ন ভৱিতৱ্যং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 যিহূদীযানাং ভিন্নজাতীযানাম্ ঈশ্ৱরস্য সমাজস্য ৱা ৱিঘ্নজনকৈ র্যুষ্মাভি র্ন ভৱিতৱ্যং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 ယိဟူဒီယာနာံ ဘိန္နဇာတီယာနာမ် ဤၑွရသျ သမာဇသျ ဝါ ဝိဃ္နဇနကဲ ရျုၐ္မာဘိ ရ္န ဘဝိတဝျံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 yihUdIyAnAM bhinnajAtIyAnAm Izvarasya samAjasya vA vighnajanakai ryuSmAbhi rna bhavitavyaM|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

32 યિહૂદીયાનાં ભિન્નજાતીયાનામ્ ઈશ્વરસ્ય સમાજસ્ય વા વિઘ્નજનકૈ ર્યુષ્માભિ ર્ન ભવિતવ્યં|

Ver Capítulo Copiar




1 कुरिन्थियों 10:32
19 Referencias Cruzadas  

यूयं स्वेषु तथा यस्य व्रजस्याध्यक्षन् आत्मा युष्मान् विधाय न्ययुङ्क्त तत्सर्व्वस्मिन् सावधाना भवत, य समाजञ्च प्रभु र्निजरक्तमूल्येन क्रीतवान तम् अवत,


ईश्वरस्य मानवानाञ्च समीपे यथा निर्दोषो भवामि तदर्थं सततं यत्नवान् अस्मि।


इत्थं सति वयम् अद्यारभ्य परस्परं न दूषयन्तः स्वभ्रातु र्विघ्नो व्याघातो वा यन्न जायेत तादृशीमीहां कुर्म्महे।


तं प्रतीश्वरस्येच्छयाहूतो यीशुख्रीष्टस्य प्रेरितः पौलः सोस्थिनिनामा भ्राता च पत्रं लिखति।


अहमप्यात्महितम् अचेष्टमानो बहूनां परित्राणार्थं तेषां हितं चेष्टमानः सर्व्वविषये सर्व्वेषां तुष्टिकरो भवामीत्यनेनाहं यद्वत् ख्रीष्टस्यानुगामी तद्वद् यूयं ममानुगामिनो भवत।


भोजनपानार्थं युष्माकं किं वेश्मानि न सन्ति? युष्माभि र्वा किम् ईश्वरस्य समितिं तुच्छीकृत्य दीना लोका अवज्ञायन्ते? इत्यनेन मया किं वक्तव्यं? यूयं किं मया प्रशंसनीयाः? एतस्मिन् यूयं न प्रशंसनीयाः।


केचित् केचित् समितावीश्वरेण प्रथमतः प्रेरिता द्वितीयत ईश्वरीयादेशवक्तारस्तृतीयत उपदेष्टारो नियुक्ताः, ततः परं केभ्योऽपि चित्रकार्य्यसाधनसामर्थ्यम् अनामयकरणशक्तिरुपकृतौ लोकशासने वा नैपुण्यं नानाभाषाभाषणसामर्थ्यं वा तेन व्यतारि।


ईश्वरस्य समितिं प्रति दौरात्म्याचरणाद् अहं प्रेरितनाम धर्त्तुम् अयोग्यस्तस्मात् प्रेरितानां मध्ये क्षुद्रतमश्चास्मि।


एकैको जनः परमेश्वराल्लब्धं यद् भजते यस्याञ्चावस्थायाम् ईश्वरेणाह्वायि तदनुसारेणैवाचरतु तदहं सर्व्वसमाजस्थान् आदिशामि।


अतो हेतोः पिशिताशनं यदि मम भ्रातु र्विघ्नस्वरूपं भवेत् तर्ह्यहं यत् स्वभ्रातु र्विघ्नजनको न भवेयं तदर्थं यावज्जीवनं पिशितं न भोक्ष्ये।


ईश्वरस्येच्छया यीशुख्रीष्टस्य प्रेरितः पौलस्तिमथिर्भ्राता च द्वावेतौ करिन्थनगरस्थायै ईश्वरीयसमितय आखायादेशस्थेभ्यः सर्व्वेभ्यः पवित्रलोकेभ्यश्च पत्रं लिखतः।


अस्माकं परिचर्य्या यन्निष्कलङ्का भवेत् तदर्थं वयं कुत्रापि विघ्नं न जनयामः,


पुरा यिहूदिमताचारी यदाहम् आसं तदा यादृशम् आचरणम् अकरवम् ईश्वरस्य समितिं प्रत्यतीवोपद्रवं कुर्व्वन् यादृक् तां व्यनाशयं तदवश्यं श्रुतं युष्माभिः।


ज्ञानस्य विशिष्टानां परीक्षिकायाश्च सर्व्वविधबुद्धे र्बाहुल्यं फलतु,


धर्म्मोत्साहकारणात् समितेरुपद्रवकारी व्यवस्थातो लभ्ये पुण्ये चानिन्दनीयः।


हे भ्रातरः, ख्रीष्टाश्रितवत्य ईश्वरस्य याः समित्यो यिहूदादेशे सन्ति यूयं तासाम् अनुकारिणोऽभवत, तद्भुक्ता लोकाश्च यद्वद् यिहूदिलोकेभ्यस्तद्वद् यूयमपि स्वजातीयलोकेभ्यो दुःखम् अलभध्वं।


यदि वा विलम्बेय तर्हीश्वरस्य गृहे ऽर्थतः सत्यधर्म्मस्य स्तम्भभित्तिमूलस्वरूपायाम् अमरेश्वरस्य समितौ त्वया कीदृश आचारः कर्त्तव्यस्तत् ज्ञातुं शक्ष्यते।


यत आत्मपरिवारान् शासितुं यो न शक्नोति तेनेश्वरस्य समितेस्तत्त्वावधारणं कथं कारिष्यते?


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos