1 तीमुथियुस 5:1 - सत्यवेदः। Sanskrit NT in Devanagari त्वं प्राचीनं न भर्त्सय किन्तु तं पितरमिव यूनश्च भ्रातृनिव Más versionesসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ৎৱং প্ৰাচীনং ন ভৰ্ত্সয কিন্তু তং পিতৰমিৱ যূনশ্চ ভ্ৰাতৃনিৱ সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ৎৱং প্রাচীনং ন ভর্ত্সয কিন্তু তং পিতরমিৱ যূনশ্চ ভ্রাতৃনিৱ သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တွံ ပြာစီနံ န ဘရ္တ္သယ ကိန္တု တံ ပိတရမိဝ ယူနၑ္စ ဘြာတၖနိဝ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tvaM prAcInaM na bhartsaya kintu taM pitaramiva yUnazca bhrAtRniva સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ત્વં પ્રાચીનં ન ભર્ત્સય કિન્તુ તં પિતરમિવ યૂનશ્ચ ભ્રાતૃનિવ satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tvaM prAcInaM na bhartsaya kintu taM pitaramiva yUnazca bhrAtRniva |
मण्डलीनां प्राचीनवर्गान् नियुज्य प्रार्थनोपवासौ कृत्वा यत्प्रभौ ते व्यश्वसन् तस्य हस्ते तान् समर्प्य
यिरूशालम्युपस्थाय प्रेरितगणेन लोकप्राचीनगणेन समाजेन च समुपगृहीताः सन्तः स्वैरीश्वरो यानि कर्म्माणि कृतवान् तेषां सर्व्ववृत्तान्तान् तेषां समक्षम् अकथयन्।
अस्मात् करग्राहिणे करं दत्त, तथा शुल्कग्राहिणे शुल्कं दत्त, अपरं यस्माद् भेतव्यं तस्माद् बिभीत, यश्च समादरणीयस्तं समाद्रियध्वम्; इत्थं यस्य यत् प्राप्यं तत् तस्मै दत्त।
हे भ्रातरः, युष्माकं कश्चिद् यदि कस्मिंश्चित् पापे पतति तर्ह्यात्मिकभावयुक्तै र्युष्माभिस्तितिक्षाभावं विधाय स पुनरुत्थाप्यतां यूयमपि यथा तादृक्परीक्षायां न पतथ तथा सावधाना भवत।
ये प्राञ्चः समितिं सम्यग् अधितिष्ठन्ति विशेषत ईश्वरवाक्येनोपदेशेन च ये यत्नं विदधते ते द्विगुणस्यादरस्य योग्या मान्यन्तां।
विशेषतः प्राचीनलोका यथा प्रबुद्धा धीरा विनीता विश्वासे प्रेम्नि सहिष्णुतायाञ्च स्वस्था भवेयुस्तद्वत्
किन्तूर्द्ध्वाद् आगतं यत् ज्ञानं तत् प्रथमं शुचि ततः परं शान्तं क्षान्तम् आशुसन्धेयं दयादिसत्फलैः परिपूर्णम् असन्दिग्धं निष्कपटञ्च भवति।
युष्माकं कश्चित् पीडितो ऽस्ति? स समितेः प्राचीनान् आह्वातु ते च पभो र्नाम्ना तं तैलेनाभिषिच्य तस्य कृते प्रार्थनां कुर्व्वन्तु।
ख्रीष्टस्य क्लेशानां साक्षी प्रकाशिष्यमाणस्य प्रतापस्यांशी प्राचीनश्चाहं युष्माकं प्राचीनान् विनीयेदं वदामि।
तस्य सिंहासने चतुर्दिक्षु चतुर्विंशतिसिंहासनानि तिष्ठन्ति तेषु सिंहासनेषु चतुर्विंशति प्राचीनलोका उपविष्टास्ते शुभ्रवासःपरिहितास्तेषां शिरांसि च सुवर्णकिरीटै र्भूषितानि।