अनन्तरं यीशुः स्वीयशिष्यान् उक्तवान् यः कश्चित् मम पश्चाद्गामी भवितुम् इच्छति, स स्वं दाम्यतु, तथा स्वक्रुशं गृह्लन् मत्पश्चादायातु।
1 थिस्सलुनीकियों 1:6 - सत्यवेदः। Sanskrit NT in Devanagari यूयमपि बहुक्लेशभोगेन पवित्रेणात्मना दत्तेनानन्देन च वाक्यं गृहीत्वास्माकं प्रभोश्चानुगामिनोऽभवत। Más versionesসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যূযমপি বহুক্লেশভোগেন পৱিত্ৰেণাত্মনা দত্তেনানন্দেন চ ৱাক্যং গৃহীৎৱাস্মাকং প্ৰভোশ্চানুগামিনোঽভৱত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যূযমপি বহুক্লেশভোগেন পৱিত্রেণাত্মনা দত্তেনানন্দেন চ ৱাক্যং গৃহীৎৱাস্মাকং প্রভোশ্চানুগামিনোঽভৱত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယူယမပိ ဗဟုက္လေၑဘောဂေန ပဝိတြေဏာတ္မနာ ဒတ္တေနာနန္ဒေန စ ဝါကျံ ဂၖဟီတွာသ္မာကံ ပြဘောၑ္စာနုဂါမိနော'ဘဝတ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yUyamapi bahuklEzabhOgEna pavitrENAtmanA dattEnAnandEna ca vAkyaM gRhItvAsmAkaM prabhOzcAnugAminO'bhavata| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યૂયમપિ બહુક્લેશભોગેન પવિત્રેણાત્મના દત્તેનાનન્દેન ચ વાક્યં ગૃહીત્વાસ્માકં પ્રભોશ્ચાનુગામિનોઽભવત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yUyamapi bahuklezabhogena pavitreNAtmanA dattenAnandena ca vAkyaM gRhItvAsmAkaM prabhozcAnugAmino'bhavata| |
अनन्तरं यीशुः स्वीयशिष्यान् उक्तवान् यः कश्चित् मम पश्चाद्गामी भवितुम् इच्छति, स स्वं दाम्यतु, तथा स्वक्रुशं गृह्लन् मत्पश्चादायातु।
ततो यीशुः पुनरपि लोकेभ्य इत्थं कथयितुम् आरभत जगतोहं ज्योतिःस्वरूपो यः कश्चिन् मत्पश्चाद गच्छति स तिमिरे न भ्रमित्वा जीवनरूपां दीप्तिं प्राप्स्यति।
किन्तु तस्य नामार्थं वयं लज्जाभोगस्य योग्यत्वेन गणिता इत्यत्र ते सानन्दाः सन्तः सभास्थानां साक्षाद् अगच्छन्।
इत्थं सति यिहूदियागालील्शोमिरोणदेशीयाः सर्व्वा मण्डल्यो विश्रामं प्राप्तास्ततस्तासां निष्ठाभवत् प्रभो र्भिया पवित्रस्यात्मनः सान्त्वनया च कालं क्षेपयित्वा बहुसंख्या अभवन्।
अतएव यूयं पवित्रस्यात्मनः प्रभावाद् यत् सम्पूर्णां प्रत्याशां लप्स्यध्वे तदर्थं तत्प्रत्याशाजनक ईश्वरः प्रत्ययेन युष्मान् शान्त्यानन्दाभ्यां सम्पूर्णान् करोतु।
हे भ्रातरः, यूयं सर्व्वस्मिन् कार्य्ये मां स्मरथ मया च यादृगुपदिष्टास्तादृगाचरथैतत्कारणात् मया प्रशंसनीया आध्बे।
शोकयुक्ताश्च वयं सदानन्दामः, दरिद्रा वयं बहून् धनिनः कुर्म्मः, अकिञ्चनाश्च वयं सर्व्वं धारयामः।
वयं यादृक् प्रत्यै़क्षामहि तादृग् अकृत्वा तेऽग्रे प्रभवे ततः परम् ईश्वरस्येच्छयास्मभ्यमपि स्वान् न्यवेदयन्।
हे भ्रातरः, यूयं ममानुगामिनो भवत वयञ्च यादृगाचरणस्य निदर्शनस्वरूपा भवामस्तादृगाचारिणो लोकान् आलोकयध्वं।
तस्माद् युष्माभि र्यावन्त उपद्रवक्लेशाः सह्यन्ते तेषु यद् धेैर्य्यं यश्च विश्वासः प्रकाश्यते तत्कारणाद् वयम् ईश्वरीयसमितिषु युष्माभिः श्लाघामहे।
यतो वयं युष्माभिः कथम् अनुकर्त्तव्यास्तद् यूयं स्वयं जानीथ। युष्माकं मध्ये वयम् अविहिताचारिणो नाभवाम,
अत्रास्माकम् अधिकारो नास्तीत्थं नहि किन्त्वस्माकम् अनुकरणाय युष्मान् दृष्टान्तं दर्शयितुम् इच्छन्तस्तद् अकुर्म्म।
त्वं वाक्यं घोषय कालेऽकाले चोत्सुको भव पूर्णया सहिष्णुतया शिक्षया च लोकान् प्रबोधय भर्त्सय विनयस्व च।
यूयं मम बन्धनस्य दुःखेन दुःखिनो ऽभवत, युष्माकम् उत्तमा नित्या च सम्पत्तिः स्वर्गे विद्यत इति ज्ञात्वा सानन्दं सर्व्वस्वस्यापहरणम् असहध्वञ्च।
तस्माद् यूयं यद्यप्यानन्देन प्रफुल्ला भवथ तथापि साम्प्रतं प्रयोजनहेतोः कियत्कालपर्य्यन्तं नानाविधपरीक्षाभिः क्लिश्यध्वे।
यूयं तं ख्रीष्टम् अदृष्ट्वापि तस्मिन् प्रीयध्वे साम्प्रतं तं न पश्यन्तोऽपि तस्मिन् विश्वसन्तो ऽनिर्व्वचनीयेन प्रभावयुक्तेन चानन्देन प्रफुल्ला भवथ,
हे प्रिय, त्वया दुष्कर्म्म नानुक्रियतां किन्तु सत्कर्म्मैव। यः सत्कर्म्माचारी स ईश्वरात् जातः, यो दुष्कर्म्माचारी स ईश्वरं न दृष्टवान्।